________________
परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः
४२१ ध्यणुके कार्यतासिद्धौ ब्रूयाश्चेदन्यसाधनम् |
तदैव तर्हि प्रगुणः शृणुयास्तत्र बाधनम् ॥ ४०९ ॥ यदपि रचनावत्त्वमवाचि । तदपि न चारु । यतः केयं रचना नाम । विचित्रप्रदेशशालित्वमवयवसंयोगो वा । यद्याद्यः पक्षः । तदा. न्तरिक्षणानेकान्तः । समस्तमूर्तद्रव्यसंयोगनिबन्धनानांप्रदेशानां तत्रापि ५ सद्भावात् । न च वाच्यमुपचरिता एव तत्र त इति । समस्तमूर्तक्रियाकारित्वं न स्यात् । उपचरितनभोदेशस्वभावाद्विशिष्टादृष्टोपकारातस्यार्थक्रियाकारित्वमपि न कान्तम् । उपचरितम्यासद्रूपस्य श्रोत्रस्य वान्ध्येयस्येवादृष्टनाप्युपकारायोगात् । अथ द्वितीयः । तर्हि कः सम्बन्धः । तदसमवाधिकारणकत्वं एकार्थसमवायो वा । आद्यश्चेत् , १० तदा प्रतिवाद्यसिद्धिः । न खल्ववयवसंयोगस्यासमवायिकारणतास्माकं सिद्धा । एकार्थसमवायस्तु व्यभिचारी । संयोगेन साधमेकम्मिन्नर्थेsक्यवरूपेऽवयविवदकार्याणामपि सामान्यादीनां समवेतत्वात् । एतत्तर्हि वक्ष्यमाणकार्यत्वसामान्यदूषणानुमानेन दूषितं प्रतिपद्येथाः । एतेन तदपास्तं यदुक्तम् "एतेभ्य एव हेतुभ्यः कर्ता कश्चन साध्यते” इति । १५ नन्येवमेतान्यनुमानानि प्रतिक्षिपतां भवतां किं न कार्यत्वं पर्वतादिषु सिद्धम् । तथा सति नित्यत्वमेषां स्यात् । उच्यते । अभिमतमेव तदत्र, किन्तु नैतान्यनुमानानि कार्यत्वसिद्धिसाधिष्ठानीति ब्रूमः । किं तीभिरनुमानैर्भवतूभयसिद्धात्कार्यत्वात्साध्यसिद्धिरिति चेत् । नैवमुभयसिद्धादपि । प्रतिबन्धग्रहणोपायापायेन सन्दिग्धव्यभिचारित्वादस्य । २० अथातिप्रतीतावेव प्रत्यक्षानुपलम्भस्तद्रहणकारणतयेति चेत् । तर्हि प्रत्यक्षानुपलम्भयोग्य एव गोचरे व्याप्तिग्रहणस्वीकारादनुपलब्धपुरुषव्यापारैः तृगतरुतडिन्नेता ( ? ) दिभिर्निश्चितो व्यभिचारोऽस्तु । पक्षीकृतास्तृणादयो न च पक्षीकृतेन व्यभिचार इति चेन्मैवम् । प्रत्यक्षप्रतिक्षिप्तस्य पक्षीकरणे न्यायाभावात् । अन्यथानुप्णोऽग्निः प्रमे- २५
१ अत्र किञ्चित्पतितमिव प्रतिभाति ।
"Aho Shrut Gyanam"