________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. २६
सिद्धये प्रमेयत्वहेतुमुपादाय यद्यपि प्रमाणविषयत्वं प्रमेयत्वमुच्यते तथापि पटाद्यनित्यपदार्थवृत्त्येव तदिहाभिमतमिति विशेषो लभ्यते । लाभेऽपि वा कथञ्चित्समवायस्यासिद्धेरसिद्धो द्रव्ये द्रव्यान्तरसमवेतत्व स्वरूपोऽपि विशेषः । यदपि महत्त्वे सति क्रियावत्त्वा५ दिति साधनमावेदि । तत्र विशेषणस्य भागासिद्धिः । द्यणुके पक्षान्तःपातिनि महत्त्वस्यासत्च्त्वात् । न च न तत्पक्षीकृतमिति वाच्यम् । तत्र कार्यत्वस्याप्रसिद्धिप्रसङ्गात् । न च मूलानुमानेऽपि न तत्पक्षीकार इति सारम् । यतस्तत्र विशेषणमन्तरेण कुतः पक्षाद्वहिर्भावोऽस्यावसेयः । विरुद्धो हि वादो यत्र तद्विवादमावेद्यते । विरुद्धवादो द्यणु१० केऽप्यस्त्येव । तथा हि भवानाह द्यणुकं बुद्धिमद्धेतुकं वयं तु मोडन्यथेति । अथ कादन्यद्विवादमिति विशेषेण वा पक्षः क्रियते । तर्हि पक्षान्तरम् । किचैवं कथं व्यणुकस्य बुद्धिमद्धेतुकत्वासिद्धिः तदसिद्धौ च कथं कस्यचित्सर्वज्ञत्वसिद्धिः । द्व्यणुकस्याबुद्धिमद्धेतुकस्य केनचिदज्ञानात् । यो' यत्करोति स तदुपादानाद्यभिज्ञ एवेति द्यणु१५ कस्य बुद्धिमद्धेतुकत्वसिद्धौ तदुपादानभूतस्य व्यणुकस्यापि ज्ञानं सिद्ध
S
मेव । तथा च सर्वज्ञत्वमपीति चेत् । तदपि न पेशलम् । एवमपि सर्वज्ञत्वाप्रसिद्धेः । व्यशुकस्य वुद्धिमद्धेतुकत्वाप्रसिद्धौ हि तदुपादानीभूतानामज्ञानमेवावतिष्ठते । तथा च कुतः सर्वज्ञतासिद्धिः । किं च परमाणूनां केनचिदज्ञाने कथं द्यणुकस्योत्पादः । ईश्वरेण खल्वधिष्ठिताः २० परमाणवो व्यणुकमारम्भन्त इति त्वन्मतम् । न चाज्ञातानामधिष्ठानं सम्भवति ।
४२०
यणुके च चताकार्ये सति त्रिलोकी सुदुःस्थिता समभूत् ॥ यद्वा मित्र चित्रं यदकार्यं भवति दौस्थ्याय ॥ ४०८ ॥
एवं च वरिष्ठ भो योगगरिष्ठाः चक्रे शिवसिद्धिर्मानेन भवद्भिः ।
·
१८
अथ यो ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"