________________
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः
४१९ संघटितघटस्य प्रदीपप्रकाशेनेति । अम्मदभिप्रेतस्य चाभूत्वा भावित्वस्य त्वया स्वीकारे स्वमतप्रकोपः । ततः स्वरूपासिद्धं त्वन्मतमभूत्वा भावित्वस्वरूपं कार्यत्वम् । सिध्यतु बानुपलभ्योपलभ्यमानेषु जलधरमहीरुहशरीरादिषु, पर्वतादिषु पुनः कथं तसिद्धिः । न खलु मेरुमकरायः सर्वथा प्रागसन्तः सञ्जायन्त इत्यत्र किंचित्प्रमाणमस्तीति भागासिद्धं तल्लक्षणं कार्यत्वम् । सर्वथा प्रलयासिद्धेः प्रोक्तासत्त्वसिद्धिरिति चेत् । न । सर्वथा प्रलयासिद्धेः । शम्भुसिद्धेस्तसिद्धिस्वीकारे च चक्रकाक्रान्तिः । शम्भुसिद्धौ हि सर्वथा प्रलयसिद्धिस्तस्यां च सत्यां मेर्वादेरभूत्वा भवनसिद्धिस्ततश्च शम्भुसिद्धिरिति । यत्पुनः सावयवत्वसाधनं कार्यत्वसिद्धावभ्यधायि तत्किमवयवसमवायोऽवयवसंयोगोऽवयवा- १० विष्वग्भावो वा भवेत् । अवयवसमवायपक्षे किमवयवाधिकरणत्वमवयवाधेयत्वं वा सावयवत्वं स्यात् । आद्यकल्पनायामुभयासिद्धिः । न ह्यवयविन्यवयवाः समवेता इति वादिप्रतिवादिनोरभ्युपगमः । द्वितीयकल्ये पुनरक्यवाधेयेनावयवत्वसामान्येनानेकान्तः । तस्य तत्र वृत्तावप्यकार्यत्वात् । यत्पुनरेवं केनचिदवाचि संहावयवैवर्तत इति योगव- १५ लेन सावयवत्वमिति । तदपि नोपपन्नम् । साधनस्य नः प्रति विशेष्यासिद्धत्वादक्यवसमवायस्वभावसावयवत्वस्य समवायानभ्युपगमेनासिद्धत्वात् । अवयवसंयोगपक्षस्तु व्योमादिना व्यभिचारी । घटादिपदार्थावयवसंयोगवतोऽपि तस्याकार्यत्वात् । न च नास्त्यवयवसंयोगोऽस्येति वाच्यम् । अव्यापकत्वायत्तेः। सकलमूर्तद्रव्यसंयोगम्वरूपत्वाध्यापकत्वस्य। २० नाप्यवयवाविप्वग्भावः सावयवत्वम् । वाद्यसिद्धत्वात् । यत्तूदयनः प्राह । अन्यत्र यद्यपि सावयवत्वं विकल्पदूषितं तथाप्यत्र द्रव्यान्तरसमवेतत्वमियभिमतं सावयवत्वमिति । तत्राप्यवयवैः सह वर्तते यत्तत्सावयवमिति सामान्यतः सावयवशब्दवृत्तौ कुतोऽयं द्रव्यम्य द्रव्यान्तरसमवेतत्वं सावयवत्वमिति विशेष लब्धवान् । न हि शब्दानित्यत्व- २५
१' यद्यपि ' इत्याधिक प. भ. पुस्तकयोः।
"Aho Shrut Gyanam"