________________
प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ योगिनामसममुक्तिकामिनीसङ्गमं किमपि वाञ्छतां सताम् ॥ चन्द्रचूलचरणाम्बुजद्वयाराधनं निरुपयोगमापतेत् ॥ ४०७ ।।
संहारोऽपि चैवं न बुद्धिमद्धेतुकः स्यात् । एवं निर्हेतुकोऽपरहेतुको वा भवेत् । निर्हेतुकत्वे संहारस्य नित्यसत्वापत्त्या शाक्य५ दर्शनानुप्रवेशः । नित्यमसत्त्वापत्त्या वा तस्य समस्तवस्तूनां नित्यत्वं स्यात् । तथा च प्रारम्भस्याप्यभावात्कौतस्कुतं क्षित्यादेबुद्धिमत्कारणकल्पनासंरोहेण । द्वितीयपक्षोऽप्ययुक्तः । अभावपक्षीकरणमन्तरेणेश्वरसिद्धेः सप्रत्यूहत्वात् । यस्यैव हि वसुधादेरसौ बुद्धिमान् कर्ता तन्मात्रज्ञ एव स्यान्न पुनः सर्वज्ञः । तथा च कथमीश्वरसिद्धिः । अथान्यतोऽनुमानादभावकर्ताऽसौ सेत्स्यति । न तर्हि कार्यत्वानुमानात्सर्वज्ञत्वसिद्धिः । न चान्यदनुमानं तस्याभावकर्तृत्वसिद्धिनिबन्धनमीक्षामहे । तन्न व्योमाशिवोक्तं स्वकारणसत्तासमवायस्वरूपं कार्यत्वमुपपद्यते । प्रागसतः सत्तासमवायः कार्यत्वभित्येके । तदपि प्रागुक्त
युक्त्वैव निरस्तमवसेयम् । “अभूत्वाभावित्वं कार्यत्वम्” इति १५ किरणावलीकारः अभूतत्वाभावित्वं हि भिन्नकालक्रियाद्वयाधारभूते
कर्तरि सिद्धे सति सम्भवति । क्त्वाप्रत्ययान्तपदविशेषितवाक्यार्थत्वात् । श्रुत्वा चिन्तयतीति वाक्यार्थवत् । न चात्र भवनाभवनयोराधारभूतस्य कर्तुः प्रतीतिरस्ति । अभवनाधिकरणस्याविद्यमानत्वेन भवनाधारस्य विद्यमानतया भावाभावयोरेकाधारत्वानुपपत्तेः । तत्कि कुटादयो भावा भवता भूत्वा भवन्तः स्वीकृताः । तथा चेत्, तर्हि सांख्यकक्षापञ्जरप्रवेशः शरणीकृतः । सत्कार्यवादाश्रयणात् । तदसत् । अस्माकमभूत्वा भवनस्य सुघटत्वात् । भवनाभवनयोरेकस्याधारस्य सत्त्वात् । घटो हि द्रव्यरूपतया सन् पर्यायरूपतया चासन् कुलालकरचक्रचीवरादिसम्प
कर्कात्पर्यायरूपतया प्रादुर्भवति । न चैवं कपिलमतोपनिपातः । तन्मते हि २५ सर्वप्रकारैः सतो वस्तुनो व्यक्तिमात्रं कारणैः क्रियते । यथा तिमिरसंचय
१ . किरणावली' पृ. १४५ पं. १.
"Aho Shrut Gyanam"