________________
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः णमात्रस्यैवाभावो विशिष्टस्तु तदवस्थ एवेति वाच्यम् ! यतो विशेषणाभावेऽपि विशिष्टोऽस्तीति कस्तार्किकः प्रकटयेदिति । तदखिलं स्खलितं वचः। यस्मात्कारणरूपोपाधिनापगच्छता समवायस्वरूयं किंचिदपहृतं न वा । न चेत्, तर्हि तथैव तत्स्वरूपस्य सत्त्वात्पूर्वावस्थायामिवेदानीमपि समवायस्य कार्यत्वलक्षणत्वानपायः । अपहृतं चेत्, तर्हि तत्स्वरूपा- ५ पहारे सिद्धं तस्य कादाचित्कत्वम् । अथ स्वरूपं स्वकीयो धर्मः स्वरूपमुच्यते तस्य च भिन्नस्यापहारेऽपि न समवायस्य धर्मिणस्तुषांशमात्रमपि विपद्यते । तदसुन्दरम् । यतः स्वरूपशब्देनास्माभिः स एवास्य स्वभावो विवक्षितो यः सकलधीधारभूतोऽसाधारणः। स चेत्तदवस्थः । तदा पूर्ववत् प्रसक्तिः । अन्यथा तु कादाचित्कत्वम् । ननु यद्यत्यन्त- १० भिन्न कारणरूपोपाध्यपगमेऽपि वस्तुम्वरूपापगमः । तर्हि पुरुषेण मुक्ते दण्डे तत्स्वरूपमप्यपेयात् । सोऽपि परस्यापचिकीर्षया पीयूषगण्डूषोपदेशः । अभ्युपगम्यत एव हि कथञ्चित्स्वरूपापगमः । दण्डग्रहणपरिणामपरिहारपूर्व पुरुषेण तदपरपरिणामस्वीकारात् । सर्वथाभ्युपगमाभावाच्च पुरुषत्वेन प्रत्यभिज्ञानम् । अथास्तु समवा- १५ येऽप्येवं स्वरूपापगम इति चेत् । कादाचित्कत्वमप्येवमस्तु । अस्तु चेत् , कथंचिदनित्यत्वमप्यस्तु । ओमिति चेत्, अहो वैनयिकताम्य । किं तु कुम्भादिकार्य कर्तुकामेन कुलालेन प्रथमं समवायः कर्त्तव्यः । तस्यापि कार्यत्वं स्वकारणसमवायः इति प्रथमतरं स विधेयः । तस्याप्यन्यस्तत्समवायः कार्यत्वमिति प्रथमतमं स २० सूत्रणीय इत्यनवस्था । ततः स्वरूपासिद्धं स्वकारणसत्तासमवायरूपं कार्यत्वम् । भागासिद्धं च । योगिनां निःशेषकर्मप्रलये प्रध्वंसाभावरूपतया समवायम्य सत्तायाश्चाभावात् । अथाभावपरिहारेण भाव एव क्षित्यादिः पक्षीक्रियते ततो न भागासिद्धः । ननु कुतोऽभावस्य परिहारः । किमबुद्धिमद्धेतुकत्वादेतस्य । यद्वा तत्पक्षी- २५ करणमन्तरेणापीश्वरसिद्धेः । यद्याद्यः पक्षः । तदा
"Aho Shrut Gyanam"