________________
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २६ कल्पः। असति करिकेसरिकलापकल्पे कथं न स्यात्। तस्य पदार्थपञ्चतयीवृत्तित्वेन स्वीकृतत्वात् । असतश्च तदन्यतरत्वाभावात् । नापि तृतीयः । एकान्तवादीनां सदसद्रूपताया अनभ्युपगमबाधितत्वात् । नापि चतुर्थः । यतोऽयमत्राभिसन्धिः । स्वरूपेण तन्न सन्नाप्यसत्सत्तासम्बन्धातु सदिति । दुरभिसन्धिस्यम् । विधिप्रतिषेधयोरन्यतरतिरस्कारनान्तरीयत्वात् । यस्त्वत्र व्योमशिवस्यैव तदयुक्तम् । निष्ठासम्बन्धयोरेककाल. त्वाभ्युपगमात् । तथा हि पदार्थानां स्वकारणसम्बन्ध एवोत्पत्तिर्न पूर्वसत्त्वं सत्कार्यवादप्रतिषेधादिति । यश्च कन्दलीकास्य अनित्येषु तु
प्रागसत एव सत्ता कारणसामर्थ्यात् । न च खरविषाणादिषु प्रसङ्गः । १० तदुत्पत्तौ कस्यचित्सामर्थ्याभावादिति समाधिः । सोऽपि न सुधीसमा
धये । एवमप्यसति वस्तुनि समवाय इति पक्षस्यैव कक्षीकारात् । तत्र च प्रोक्तो दोषः । प्रसङ्गविपर्ययाभ्यां च बाध्यते । असति सत्तासमवायस्तत्सदेवेति प्रसज्यते । यथा व्योम । सत्तासमवायश्चाभ्युपगतः
पटादिकार्येषु । अथ न तेषां सत्त्वमिष्यते । भवतु तर्हि विपर्ययः । १५. यदसन्न तत्र सत्तासमवायः । यथा व्योमकमले । असन्ति हिं विवा
दास्पदपटादीनीति । न सत्तासमवायादपि कार्य सद्यतस्तथाभूतं कारणेषु समवेयात् । नाप्यसत्तत्र समवैति । असतः खपुप्पस्येव केचिदपि समवायासम्भवात् । उभयरूपमित्यादिपक्षद्वयं त्वनन्तरदृषितैतादृशपक्षद्वयवद्दषणीयम् । किंच यदि स्वकारणेषु समवायः कार्यत्वम् । तदा समवायस्यानित्यताप्रसक्तिः । कादाचित्कत्वात् । अथ नायं कादाचिस्कः । तर्हि घटादिकार्यमपि कथं कादाचित्कं स्यात् । तल्लक्षणभूतस्य स्वकारणसमवायस्य सदा सत्त्वात् । अथ नास्य सदा सत्त्वे कारणरूपोपाधिमानेव ह्ययं कार्यत्वमुच्यते । तघ्यावृत्तौ च नायं तदुपाधिमान् । यथा दण्डव्यावृत्तौ पुरुषो न दण्डीति । न चोपाध्यभावे विशषे
१' अभिसन्धेः' इति भ. पुस्तके पाठः । २ ' च ' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"