________________
परि. २ सू. २६] स्याद्वादरत्नाकरसहितः
तथा हि किमिदं कार्यत्वं नाम । स्वकारणसत्तासमवाय इति व्योमशिवः । यः स्वकारणैराधारभूतैस्तन्त्वादिभिराधेयभूतया सत्तया च सार्धं पटादिवस्तुनः समवायः सम्बन्धः स तस्य कार्यत्वमित्यर्थः । नैतच्छेकोच्छेककारि । स्वकारणसमवाय इतीयतैव त्वदाकांक्षितकार्यत्वस्य लक्षितत्वेन सत्तापदस्यातिरिक्तत्वात् । न हि किञ्चिदसदपि ५ स्वकारणेषु समवैति । असतः स्वकारणानामेवाभावात् । द्रव्यादिपदार्थपञ्चकवृत्तित्वाच्च समवायस्येति नास्ति सत्तापदव्यवच्छेद्यं किञ्चित् । सम्भवद्विशेषणमेतदिति चेत् । किं वयमाचक्ष्महे न सम्भवत्येतदिति । किन्त्वधिकम् । अधिकस्यापि सद्भावमात्रेण लक्षणत्वाभिधाने बहुतरभिदानीमभिधानीयं स्यात् । अथ द्वितीयमेतलक्षणं कार्यत्वस्य सत्ता- १० समवाय इति । भैवम् । अकार्यमतेप्वपि व्योमादिप्वस्य गतत्वेनातिव्यापकत्वात् । अथास्तु कारणसमवाय एव कार्यत्वम् । ननु तस्पटादिवस्तु सदसदुभयरूपमनुभयरूपं वा स्वकारणेषु समवेयात् । यदि सत् । तत्कि स्वतः सत्तासमवायाद्वा । स्वतश्चेत्, किं कारणव्यापारेण । स्वतः सतः समवायादेरिवास्य नित्यत्वात् । तथापि १५ तयापारेऽनुपरमप्रसङ्गः । अथ सत्तासमवायात्तत्सत् । ननु सत्तापि सत्यसत्युभयरूपेऽनुभयरूपे वा तस्मिन्समवैति । नाद्यः पक्षः । यतो विवादास्पदं वस्तु न तावत्स्वतः सत् । समवायादिवन्नित्यत्वापत्तेः । सत्तासमवायाभावप्रसङ्गाच्च । तथा हि यत्स्वतः सन्न तत्र समवैति यथा सत्तायामेव । स्वतः सदभ्युपगतं घटौदीति । अथ सत्तासमवायत्तत्सत् । २० ननु सोऽपि सत्तासमवायोऽपरेण सत्तासमवायेन सत्येव वस्तुनि स्यात् सोऽपि सत्तासमवायोऽपरेण तेन सत्येव तस्मिन् भवेदित्याद्यावर्त्तनेनानवस्था । अथ न सन्ति भूयांसः सत्तासमवाया यतोऽनवस्था स्थेमानमास्कन्देदिति चेत् । तर्हि भववितरेतराश्रयदोषः । सिद्धे हि वस्तुनः सत्त्वे सत्तासमवायः सिध्यति तत्सिद्धौ च वस्तुनः सत्त्वं सिध्यतीति । नापि द्वितीयः २५
१ पटादि' इति प. पुस्तके पाठः ।
"Aho Shrut Gyanam"