________________
परि. २ सू. २६ ]
स्याद्वादरत्नाकर सहितः
वच्छेदप्रवणत्वे ज्ञानरूपता स्यादिति । तदसत् । यतो विषयावच्छेद इत्यत्र कोऽर्थः । किं प्रतिनियते विषये ज्ञप्तिः प्रवृत्तिर्वा । पौरस्त्यपक्षे स्यात्तयोर्ज्ञानरूपता । परं नामुं पक्षमाचक्ष्महे । द्वितीयपक्षे तु कथमनयोर्ज्ञानरूपत्वम् । न च विषयविज्ञानं विना प्रवृत्तिरेवानयोर्न प्रानोतीति वाच्यम् । नित्ययोस्तयोः परिमाणस्येव व्योनि कापि विषये सदा प्रवृत्तत्वात् । अथ नित्यावप्येतौ नैकविषयावेव तत्तद्भावभेदोपधाने तत्तद्विषयत्वसम्भवात् । तथा च यत्र यत्रोपधानीभूते भावे ज्ञानं भवति तत्तद्विषयाविच्छा प्रयत्नौ भवतः सवितृप्रकाशवत् । ज्ञानं विना तयोस्तत्तद्विषयत्वं दुरापम् । तदयुक्तम् । यस्मादुत्पन्नेनैव भावेन न तावदुपधानं सम्भवत्येवं चेतरेतराश्रयम् । उत्पन्नेनैव हि भावेनोपधाने सतीच्छाप्रयत्न- १० योस्तद्विषयत्वं तस्मिंश्च सत्युत्पन्नेन भावेन तयोरुपधानमिति । अथास्मदादौ शरीरसहितानामेव विलोकनात्तत्कल्पनाप्यस्तु | अथ तदीयज्ञानेच्छाप्रयत्नानामस्मदादिज्ञानेच्छा प्रयत्नविलक्षणत्वाच्छरीरसाहित्यं विनापि सद्भावः स्वीक्रियते । तर्हि तदिच्छाप्रयत्नयोरस्मदादीच्छाप्रयत्नविलक्षणत्वाज्ज्ञानसाहित्यमपि त्यज्यताम् । रुचीनां कान्तास्वेव १५ सन्मानार्हत्वात् । अपि च विषयावच्छेदाय चेज्ज्ञानं मृग्यते । मृग्यताम् । इच्छया तु किं कार्यम् । प्रयत्नविषयस्य ज्ञानेनैवावच्छिन्नत्वात् । न चेच्छां विना प्रयत्नः कथं प्रवर्ततामिति वाच्यम् । तस्य नित्यत्वेन यत्र वचन सदा प्रवृत्तत्वात् । अन्यत्र दृष्टयात्रेच्छाकल्पने शरीरमपि कल्प्यताम् ।
अथास्तु शरीरमदृश्यं तु तदिति न तृणादिषु तददर्शनात्कालात्ययापदिष्टतेति चेत् । ननु कुतोऽयं शरीरवानप्य
४३३
"Aho Shrut Gyanam".
५
२०
खण्डनम् ।
ईश्वरेऽवश्यशरीरस्वीकारस्थ दृश्य: । विद्यादिप्रभावाज्जातिविशेषाद्वा । विद्यादिप्रभावस्य शम्भावदृश्यत्वहेतुत्वे कदाचिदसौ दृश्येत । न खलु विद्यातन्त्रादिमतां शाश्वतिकम दृश्यत्वमुपपन्नम्। २५ यदैव हि विद्यादीनां प्रयोगस्तदैव तस्यादृश्यत्वसम्भवः । जातिविशेषोऽ