Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 186
________________ परि. २ सू. २६ ] बोऽस्ति । अत एव न पाण्डुद्रव्यमात्रात्कुमुदकपोतादेर्दहनानुमानम् | धूमत्वा सामान्यस्यैव ततो भेदापादकत्वात् । किं च । यदि कुम्भादौ कार्यत्वमात्रस्य बुद्धिमदन्वयव्यतिरेकानुविधानदर्शनात्पृथिव्यादावपि कार्यतेप्यते । तर्हि केषाञ्चिन्मणिमुक्तादीनां पुरुषान्वयव्यतिरेकानुविधानस्योपलम्भाद्रत्नाकरसमुत्थानामपि तत्कार्यत्वप्रसङ्गः । इष्यत एवं पुरुषस्तत्रापीश्वरः कर्तेति चेत् । कथं तर्हि तत्राकृत्रिमव्यवहारो लोकस्याम्खलद्रूपः । तत्रेश्वरस्य कर्तुरतीन्द्रियत्वेनानुपलम्भादिति चेत् । न । अन्यत्रापि सर्वत्र कर्तुरनुपलम्भाद्देशकालविप्रकृष्टस्य कर्तुरुपलम्भासम्भवादतस्तेष्वप्यदृष्टकर्तृकेष्वकृत्रिमव्यवहारः । सागरसमुत्थादिभिः समानार्थताथवा स्यादविशेषात् । तज्जातीयेषु कर्तुरुपलम्भादष्टकर्तृके- १० ध्वपि कर्तुरनुमानात्कृत्रिमव्यवहार इति चेत् । सामुद्रेष्वपि दृष्टकर्तृकसमानजातीयत्वेन कर्तुरनुमानात् कृत्रिमव्यवहारः किं न स्यात् । अन्यथात्रापि माभूदविशेषात् । सामुद्राणां दृष्टकर्तृकमण्यादिविजातीयत्वेन कर्त्रनुमानायोगात्कृत्रिमव्यवहाराभावे स्थावरादिकार्यस्यापि स्याद्वादरत्नाकरसहितः ४३१ ८ दृष्टकर्तृकप्रासादादिकार्यविजातीयत्वात् । कर्त्रनुमानं न स्यादविशेषात् । १५ तस्माद्दष्टकर्तृकसजातीयानामेव कर्त्रनुमानं युक्तम् । यथा जीर्णकूपप्रासादादीनाम् । तत्रापि मानेन लौकिकपरीक्षकाणामक्रियादर्शिनामपि कृत्रिमबुद्धयुत्पत्तेः । न तद्विजातीयानां कर्त्रनुमानं युक्तम् । यथा नदनदीपर्वतादीनाम् । लौकिकपरीक्षकयोस्तत्र कृतबुद्धयनुत्पत्तेः । एवं विशिष्टं कार्यत्वमसिद्धं वसुधादिषु । कार्यत्वमात्रं पुनरप्रसिद्धव्याप्तिक - २० मिति स्थितम् । यच्च प्रत्यक्षादिभिरबाध्यमानपक्षत्वेन कालात्ययापदिष्टत्वं प्रत्यादिष्टम् । तदपि न स्पष्टम् । पक्षैकदेशस्य तृणादेर्ग्रहणयोग्यकर्तृकस्याप्यगृह्यमाणकर्तृकतया प्रत्यक्षेण बाधनात् । अथ न प्रत्यक्षेण पक्षैकदेशोऽत्र बाधितुं शक्यः । कर्तुः प्रत्यक्षेण ग्रहीतुमयोग्यत्वादिति चेत् । न । प्रत्यक्षानुपलम्भाभ्यां व्याप्तिग्रहणाङ्गीकारेण दृश्य एव विषये २५ १' लौकिकेतरयो:' इति भ. पुस्तके पाठः । " Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242