Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 181
________________ ४२६ प्रमाणनयतत्त्वालोकालङ्कारः [परि. २ सू. २६ सर्वत्रानुमानरूपे विषये तत्तस्य प्रामाण्यक्षयमादधाति नियते वा । प्राक्तने प्रकारे धूमध्वजानुमानमपि न स्यात् । किमिदानी शरणमीश्वरानुमाने भविष्यति । नियतेऽपि विषये किमिष्टिवशाम्यभिचारदर्शनं व्याप्तिग्राहिप्रमाणस्य ग्रामाण्यक्षयं कुरुते स्वयं तत्रैव प्रवृत्तितो वा । इप्टिवशान्नियते विषये व्याप्तिविहितौ व्यभिचारदर्शनं वराकमुदासीनमिति न कश्चिद्धे तुरहेतुर्वा तत्त्वतः ! धूमेऽपि स्वेच्छया व्याप्तिखण्डनप्रसङ्गात् । तत्रैव प्रवृत्तितस्तु नियतविषयत्वं व्यभिचारगोचरस्यापि प्रत्यक्षस्य कथम् । यावता यथा नियतजातिप्रवृत्तिबुद्धिमत्त्वेन कार्यत्व मात्रस्य व्याप्तिग्राहिप्रत्यक्षं सर्वविषयमिष्टम् । तथा व्यभिचारगोचरमपि १० सर्वविषयमेवास्तु । कथं नियतविषयम् । अन्यूनानतिरिक्तविषयकत्वा दुभयोः । तस्मादेकविषय एवं व्याप्तिग्रहो व्यभिचारचेतनं चेति किम. धुनापि साधनमसाधनं वा स्यात् । भवतु भवदुपरोधाद्यभिचारदर्शनस्य नियतविषयत्वम् । तथापि न सकृदेव व्यभिचारवतां तद्बोधः । किन्तु क्रमेण । व्याप्तिग्रहणकाले च व्यभिचारिणामपि व्यभिचारदर्शनमाहत्य नास्तीति धूमस्य पटादिकार्याद्विशेषाभावादहेतुत्वम् । हेतुत्वे वा धुमस्येव पटादिकार्यस्यापि हेतुत्वं स्यात् । न च सर्वम्यान्यस्य कार्यस्य व्यभिचारदर्शनाद्भूमे व्यातिविश्राम इति वाच्यम्। अशक्यो ह्ययमों व्यभिचारविषयाणामनन्तत्वादेशादिविप्रकर्षवतां गोचरीकरणकालापेक्षया पुरुषायुषः कनीयस्त्वात् । तस्माद्यभिचारदर्शन२० वन्नियतविषय एव व्याप्तिग्रहोऽपि निरपवादः । नन्वेवं केनचित् कापि व्याप्तिग्रहणे परेण व्यभिचारोपदर्शनाद्यैषा साधारणानेकान्तव्यवस्था सा दुःस्थेति चेत् । एवमेतद्यदि बुद्धिपाटवनियमः सर्वेषाम् । मन्दबुद्धिस्तु सादृश्यादिना जातिविशेषप्रवृत्तेऽपि प्रत्यक्षे जात्यन्तरेणै कीकृत्य व्याप्तिग्रहणाभिमानादनुमानमातिष्ठमानः पटुना परेण व्यभिचारमादी १ शक्तिकत्वादुभयोरिति प. भ. पुस्तकयोः पाठः । २ ' विश्राम ' इति तु अपाणिनीयम् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242