Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 179
________________ ४२४ प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सू. २६ शक्यः । निवृत्तिमात्रं तु दासीगर्दभन्यायेनाकार्यकारणयोरपि सुलभम् । एवं च किं बुद्धिमत्कारणव्यापाराभावाद्विहायसि कार्यत्वाभाव उत कारणमात्रविप्रयोगादिति सन्देहः । तथा च स 'विफलः प्रयासः । अन्वयोऽपि हि कार्यमात्रस्य कारणमात्रेण गृह्यन्तामुतस्वित् पुरुषविशेषणेन कारणेनेति सन्देह एव । अथ दृष्ट एवायं पुरुषविशेषण. कारणरूपो विशेषः कथं परिहतुं शक्यो धूमे दहनात्मवत् । यद्येवं दृश्यशरीररूपो विशेषः प्रतीत एव कथं परिहर्तुं शक्यः । चित्रभानो सुराकास्वत् । स हि तर्हि विशेषो व्यभिचार्यते भूधरादिषु दृश्यशरीरकर्तारं विनापि कार्यत्वस्य दर्शनादिति चेत् । व्यभिचार्यता १० नाम । किन्तु यथा दृष्टत्वात्पुरुषविशेषणकारणेऽन्वयो भवताभिधीयते तथा कार्येऽपि परिदृष्टविशेषे एव पुरातनप्रासादादावन्वयोऽभिधीयतां न तु भूधरादाविति किं नश्छिन्नम् । नन्वेवं जैनानामपि कथं वाप्यनुमानादतीन्द्रियवस्तुसिद्धिः । तदसाधीयः । उपलम्भानुपलम्भप्रभव तर्कप्रमाणाध्याप्तिग्रहणवादिनामेवंविधदोषश्लेषासम्भवात् । प्रत्यक्षा१५ नुपलम्माभ्यां तु तद्रहणवादिनां नास्ति तदोषेभ्यो मोक्ष इति । अपि च कथं प्रत्यक्षानुपलम्भाभ्यां कार्यमात्रस्य बुद्धिमत्कारणविशेषण व्याप्तिग्रहणमनुगुणम् । यतोऽमू प्रत्यक्षानुपलम्भा विशिष्ट कार्यकारणजात्युल्लेखेनैव कार्यकारणभावग्रहणाय प्रवर्तते । तथा हि प्रत्यक्षानुपल म्भप्रवृत्तिसमनन्तरमीदृशात् ज्वलद्भासुरस्वरूपविशेषादीदृशकपोतकण्ठ२० धूसरमक्षिकण्ठविकारकारि वस्तु जायते । ईदृशात्पुरुषविशेषात्पृथुबुनो १. अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य-' इति कारणत्वलक्षणेऽन्यथासिद्धस्य न कारणतेति निश्चितम् । तथा च घटोत्पत्तौ शिरसि मृत्तिकामानीतवती दासी तथा तदानयनकारी गर्दभश्च न कारणं किंतु मृत्तिकैव । अन्यथासिद्धिशून्यत्वात् । भृत्तिकाही दासी गर्दभश्चान्यथासिद्धौ । उपायान्तरेणापि मृत्तिकानयनस्य सुकरत्वात् । एतद्विचार्य निवृत्तिमात्रंतु' इत्यादिनिर्देशः। २ 'सकलप्रयासः' इति प. म. पुस्तकयोः पाठः । ३ 'न तथा' इति प. पुस्तके पाठः । ४' प्रहवादिनां तेषामेवविध ' इति प. भ. पुस्तकयोः पाठः। "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242