Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 180
________________ परि. २ सू. २६ ] १० दराद्याकारमीदृशात्तु तस्मादातानवितानीभूततन्त्वात्मकमित्यनेनाकारेण हेतुफलभावः सर्वापरकार्यकारणजातिव्युदासेन विशिष्टमेव जातियुग्ममुल्लिख प्रवर्तते । इयमेव गतिः सर्वत्र हेतुफलभाववेदने विदिता ध्रुवमीश्वरानुरोधात्प्रसिद्ध नयलङ्घनमिदं वचः । अथाभिदधीथाः । कः पुनस्त्रानुरोधः । यदि तार्णादिभेदमुदस्य वह्निना धूममात्रस्येव भूधरादि - ५ भेदमुदस्य कार्यमात्रस्य बुद्धिमता व्याप्तिं प्रतीयात्प्रत्यक्षम् । यथैव तर्हि बर्हिषा कार्यजातिविशेषस्य धूमस्यावान्तर सूक्ष्मजातिमात्रमन्तर्भाव्य व्याप्तिग्रहः । तथा बुद्धिमताप्यस्तु कार्यजातिविशेषस्यैव वस्त्रादेर्न तु कार्यमात्रस्य । यथा वात्यन्तविसदृशीरपि जातीरन्तर्भाव्य कार्यमात्रस्य बुद्धिमता व्याप्तिं जिघृक्षसि तथा कार्यमात्रस्यैव यत्र कार्यमात्रं तत्र वह्निरित्येवं वह्निनापि किं न तां गृह्णीयाः । इन्द्रियप्रत्यक्षप्रत्ययस्यैव बहिर्व्यापार उभयत्र कथं भिन्नां प्रवृत्तिमाश्रयेत् । अथ कार्यमात्रं व्यभिचरति चित्रभानुं नतु बुद्धिमन्तमिति व्यभिचारदर्शनादर्शनकृतोऽयं विभाग इति चेत् । तत्तर्हि दर्शनादर्शनं विमर्शमनारूढं गच्छत्तणस्पर्शचन्न व्यवहारायेति तदनुरूपेण विमर्शेनावश्यं भाव्यम् । न चायमस्ति । १५ न हि कश्चिदभिधूमादिष्वन्वयव्यतिरेकग्राहिप्रत्यक्षानुपलम्भाप्रवृत्तौ कार्यजातिरखिलाऽनलादुत्पद्यत इति संकल्पमनुभूय भूयोव्यभिचारदर्श नाद्यतः कार्यान्तराणि वह्निमन्तरेणाप्युपलभ्यन्ते ततो धूम एवानेन जन्यत इति निश्चयं परिचिनोति । किं तु झटित्येव प्रत्यक्षानुपलम्भानन्तरमस्मादम्यादेरिदं धूमादीति जातिविशेषद्वयं हेतुफलभावतया निश्चिनोति । किं चैतव्यभिचारदर्शनं किं सत्यामेव व्याप्तावनुमानमात्रं खण्डयति यद्वा व्याप्तिरेव मिथ्येति व्यवस्थापयति । नाद्यः पक्षः | विरोधात् । न हि साध्याविनाभावलक्षणा व्याप्तिश्च हेतोः । साध्याभावसम्भवकृतश्चानुमानाभावः सङ्गच्छते । द्वितीयेऽपि स्वसामर्थ्येन स्फुरत्येव व्याप्तिग्राहिणि प्रमाणे व्याप्तिमिथ्यात्वं तदवस्थापयेत्किं वा तस्यैव २५ प्रामाण्यक्षयमादधानम् । पौरस्त्यपक्षे प्राचीन एव प्रतिक्षेपः । चरमे तु स्याद्वादरत्नाकरसहितः "Aho Shrut Gyanam" ४२५ २०

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242