Book Title: Syadvada Ratnakar Part 2
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 178
________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः ४२३ योग्यज्वलद्भासुराकारपुरस्कारेण प्रवर्तमानाध्यक्षकृता व्याप्तिः सप्तार्चिषि न जठरानलसाधारणरूपपर्यवसायिनी । अन्यथा तार्णादिभेद इवाभिमतेऽपि रूपे सन्दिहानो न तत्साध्यार्थक्रियालाभैकाग्रबुद्धिः प्रवर्तते । यथा वा पल्लवोल्लासने समीरणेन व्याप्तिरध्यक्षकृता स्पृश्यरूपपुरस्कारान्न स्तिमितमारुतसाधारणरूपपर्यवसायिनी । अन्यथा किसलयकम्पेन ५ पवनमनुमिन्वन् स्पृश्यप्रभञ्जनानुरूपे प्रवृत्तिनिवृत्ती निश्चयेन नाचरेत् । तथा बुद्धिमत्यपि प्रत्यक्षकृता व्याप्तिर्नादृश्यमाधारणरूपपर्यवसायिनी । तम्मात्, प्रत्यक्षव्याजेन यदि प्रमितिमात्रमेव व्याप्तिसिद्धावभिधीयते । तदा प्रत्यक्षकृतकारणत्वनिश्चयस्य तस्य दृश्यादृश्यरूपपर्यवसायित्वाभावेन व्याप्तत्वात् । प्रयोगः-यो यः प्रत्यक्षकृतः कारणत्वनिश्चयो १० नासो दृश्यादृश्यरूपपर्यवसायी । यथाग्नौ जठरजातजातवेदःसाधारणरूपं परिहरन्प्रत्यक्षकृतश्चासौ बुद्धिमतीति व्यापकविरुद्धोपलब्धिः । दृश्यादृश्यरूपपर्यवसायित्वं हि प्रत्यक्षाकृतत्वेन व्याप्तं तद्विरुद्धश्च प्रत्यक्षकृतकारणत्वनिश्चय इति व्याप्तेरभावात्सन्दिग्धविपक्षव्यावृत्तिकत्वमेव कार्यत्वस्य । किं च यदि दृश्यादृश्यविशेषणमवधूय धीम- १५ न्मात्रेण व्याप्तिर्विवक्षिता । तर्हि यदा बुद्धिमदभावे कुम्भकार्यस्याभावमुपदर्शयेद्वादी व्यतिरेकप्रतिपादनाय । तदा दृश्यादृश्यविशेषणशून्यचेतनमात्रस्याभावः केन प्रमाणेन सिद्धः। दृश्यानुपलब्धेश्यस्यैव प्रतिषेधेड़धिकारात् । अन्यथा तृणादिना व्यभिचारस्याशक्यपरिहारत्वात् । न हि दृश्यपुरुषविषयैवानुपलब्धिर्बुद्धिमन्मात्रस्य व्यतिरेकबोधसाधनीभावितु- २० मर्हति । आत्यन्तिकविषयभेदस्य व्यक्तत्वात् । अन्यथा तृणादिजन्मन्यपि दृश्यपुरुषविषयैवानुपलब्धिः कार्यत्वन्यभिचारस्थिरीकरणकारणं किं न स्यात् । तयैव तत्राप्यदृश्यस्यापि कर्तुः प्रतिषेधसम्भवात् । नं हि लाभे प्रवेशश्छेदे निःसरणमिति न्याय्यम् । तस्माद्दश्यविशेषणापोहे व्यतिरेकग्रहणोपायाभावाव्याप्तेः पुनरपि विपक्षव्यावृत्ति- २५ सन्देहः । न च नभस्युभयाभावविभावनभुपायो व्यतिरेकग्रहणस्य । कार्यत्वाभावस्य बुद्धिमध्यापाराभावप्रयुक्तत्वनिश्चयानुपपत्तेः । तदपरकारणसाकल्ये हि तन्मात्राभावेऽभावः कार्यस्य तदभावप्रयुक्तः प्रत्येतुं .१ स्वार्थबुद्धयः पुरुषाः स्वार्थ सिद्धिसमये प्रवर्तन्ते स्वार्थविनाशमालोच्य निवर्तन्त तद्वत् । "Aho Shrut Gyanam"

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242