________________
३९६
प्रमाणनयतत्वालोकालङ्कारः [परि. २ सू. २६ तत्त्वान्तरं भूतेभ्यश्चैतन्यं तद्भिन्नलक्षणत्वान्यथानुपपत्तेः । नात्रासिद्धो हेतुः । क्षित्यादिभूतेभ्यो रूपादिसामान्यलक्षणेभ्यः स्वसंवेदनलक्षणस्य चैतन्यस्य भिन्नलक्षणत्यसिद्धेः । न हि भूतानि स्वसंवेदनलक्षणानि अस्मदायनेकप्रतिपतृप्रत्यक्षत्वात् ! यत्पुनः स्वसंवेदनलक्षणं तन्न तथा प्रतीतं यथा ज्ञानम् । तथा च भूतानि तस्मान्न स्वसंवेदनलक्षणानि । अनेकयोगिप्रत्यक्षण सुखादिसंवेदनेन व्यभिचारी हेतुरिति न शङ्कनीयम् । अस्मदादिग्रहणात् । न च ज्ञानस्थ स्वसंवेदनलक्षणत्वमसिद्धम् ! अधस्तात्सप्रपञ्चमुपपादितत्वात् । तदेवं भूतचैतन्ययोभिन्नलक्षणत्वं प्रसिद्धं सत्तत्त्वान्तरत्वं तयोः साधयति । तच्चासजातीयत्वम् । तदप्युपादानोपादेयभावाभावम् । उपादानोपादेयभावस्य सजातीयत्वप्रयोजकत्वात् । तदेवं भूतचेतनयोर्नास्त्युपादानोपादेयभावो भिन्नलक्षणत्वादिति । व्यापकविरुद्धम्य व्याप्तोपलब्धिः । उपादानोपादेयभावव्यापकस्य सजातीयत्वविशेषस्योपादानोपादेयभावव्यापकत्वमसिद्धम् ।
विजातीयत्वाभिमतयोः पयःपावकयोः सत्त्वादिना सजातीययोरप्युपादा१२ नोपादेयभावानभ्युपगमात् । कथंचिद्विजातीययोरपि मृद्धटाकारयोः पार्थि
वत्वादिना विशिष्टसामान्येन सजातीययोरुपादानोपादेयभावसिद्धेः । कथं तर्हि सजातीयत्वविशेषस्य तत्त्वान्तरभावेन विरोध इति चेत् । तत्त्वान्तरभूतयोर्जलानलयोः सजातीयत्वविशेषस्य जलत्वादेरनुपलम्भात् । पूर्वाकारापरित्यागाज द्वृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः । परित्यक्तपूर्वाकारेण द्रव्येणात्मसाक्रियमाणोत्तराकारस्योपादेयत्वविज्ञानात् । अन्यथातिप्रसङ्गात् । कथं तत्त्वान्तरभावेन भिन्नलक्षणत्वं व्याप्तमिति चेत् । उच्यते । तत्त्वान्तरभावस्याभावे भिन्नलक्षणत्वस्यानुपपद्यमानत्वात् । किण्वादिमदिरादिपरिणामयोरतत्त्वान्तरभावेऽपि
भिन्नलक्षणत्वस्य दर्शनात्तस्य तत्त्वान्तरभावेनाव्याप्तिरिति चेत् । न । २५ तयोभिन्नलक्षणत्वासिद्धेः । किप्वादिरपि मदजननशक्तिसद्भावान्मदि.
१ तस्मान' इत्यधिक प. भ. पुस्तकयोः ।
"Aho Shrut Gyanam"