________________
परि. २ सु. २६] स्थाद्वादरत्नाकरसहितः ।
३९७ रादिपरिणामवत् । सर्वथा मदजननशक्तिविकलत्वे हि कण्वादेर्मदिरादिपरिणामदशायामपि तद्वैकल्यप्रसङ्गः । नन्वेवं भूतान्तस्तत्त्वयोरपि भिन्नलक्षणत्वं माभूतत्कायाकारपरिणतभूतविशेषावस्थातः प्रागपि क्षित्यादिभूतानां चैतन्यशक्तिसद्भावात् । अन्यथा तदवस्थायामपि चैतन्योतिविरोधादिति चेत् । नैवं प्रत्यवस्थेयम् । चैतन्यस्यानाधनन्तत्वसिद्धेरात्मवादिनामिष्टप्रतिष्ठानात् । न चैवं चैतन्यस्य भूतविवर्त्तत्वापत्तिः । क्षित्यादितत्त्वस्यापि चैतन्यविवर्त्तत्वप्रसङ्गात् । अनाधनन्तत्वाविशेषात् । ततो भिन्नलक्षणत्वं तत्त्वान्तरत्वेन ब्याप्तं भूतचैतन्ययोस्तत्त्वान्तरत्वं साधयत्येवेति चैतन्यपरिणामोपादान एवाद्यचैतन्यपरिणामः । प्राणिनामन्त्यचैतन्योपादेयश्च जन्मान्तराद्यचैतन्यपरिणामः १० सिद्धः । पूर्वभवत्यागेन भवान्तरपरिग्रह एव संसार इति न संसारतत्त्वमनुमानेन बाध्यते । नाप्यागमेन । तस्य तत्प्रतिपादकतया श्रुतेः, “संसारिणत्रसस्थावराः" इति वचनात् । तथा संसारोपायतत्त्वमपि मिथ्यादर्शनादिकं न प्रमाणेन बाध्यते । प्रत्यक्षस्य तदविषयत्वेन तदबाधकत्वात् । निर्हेतुकः संसारोऽनाद्यनन्तत्वादाकाशा- १५ दिवदित्यनुमानेन । तद्बाध्यत इति चेत् । नैतदुचितम् | पर्यायार्थादेशात्संसारस्यानाद्यनन्तत्वासिद्धेः । दृष्टान्तस्यापि व्योम्नः क्षितिखननकूपोत्सेचनादौ सहेतुकतया सादिसान्ततया साध्यसाधनविकल. त्वात् । द्रव्यार्थादेशात्तु संसारस्य निर्हेतुकत्वेन सम्मतत्वात् । सुखदुःखादिभावपरिवर्तनलक्षणस्य संसारस्य द्रव्यक्षेत्रकालभावभव- २० विशेषहेतुकत्वप्रैतीतेः नाहेतुसंसारसाधनानुमानमनवद्यमिति । न किंचिदनुमानं संसारोपायतत्त्वस्य बाधकं सम्भवति । नाप्यागमः । तस्य तत्साधकत्वात् “मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” इति वचनात् । बन्धहेतूनामेव च संसारहेतुत्वात् । तदेवं
१'एव च' इति प. भ. पुस्तकयोः पाठः । २ तत्त्वार्थ. २।१२. ३ 'प्रतीतेश्व' इति प. भ. पुस्तकयोः पाठः । ४ तत्त्वार्थ. ८1१.
"Aho Shrut Gyanam"