________________
३९८
प्रमाणनयतत्वालोकालङ्कारः
[ परि. २ सू. २६
मोक्षसंसारतत्कारणतत्त्वं भगवतोऽभिमतं प्रमाणेन प्रत्यक्षादिनाऽबाध्यं सिध्यत्तद्वाचस्तेनाविरोधित्वं साधयति । तच्च निर्दोषत्वम् । तदपि सर्वज्ञत्वमिति । एवं च ।
खण्डनम् ।
निष्कण्टकेन ऋजुना तदनेन तूर्णं निष्कम्पयुक्तिसुपथा निरुपद्रवेण ॥ अर्हन्महीधरशिखाशिखरे सुखेन सर्वज्ञता समधिरोहति नेतरत्र ॥३४७॥ ननु निर्दोषत्वेन कपिलादयोऽपि किमिति सर्वज्ञा न भवन्ति । उच्यते । तेषां प्रमाणविरुद्धभाषित्वेन निर्दोषकपिलादीनां सर्वज्ञत्वस्य मोक्षतत्त्वस्य च त्वसिद्धेः । तथा हि कपिलादयो न निर्दोषाः प्रमाणविरुद्धभाषित्वाचे प्रमाणविरुद्धभाषिणस्ते न निर्दोषा यथा दुर्वेधादयस्तथा च कपिलादयस्तस्मान्न निर्दोषा इति । न चात्र प्रमाणविरुद्वभाषित्वं कपिला - दीनामसिद्धम् । तदभिमतस्य मोक्षसंसारतत्कारणतत्त्वस्य प्रमाणेन बाधनात् । तत्र कपिलस्य तावत्स्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इत्यभिमतम् । तत्प्रमाणेन बाध्यते । चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपा1 १५ वस्थानस्य मोक्षत्वस्य साधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपम् । सर्वज्ञत्वादिस्वरूपं नात्मन इति च मिथ्या । तस्याचेतनत्वादाकाशवत् । ज्ञानादेरप्य चेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेत्यपि विचारबाह्यम् । प्रमाणाभावात् । नन्वचेतना ज्ञानादय उत्पत्तिमत्त्वाद्धादिवदित्यनुमानं प्रमाणमस्त्येवेति चेत् । नैतद्वाच्यम् । हेतोरनुभवेन व्यभिचारात् । २० तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । कथमुत्पत्तिमाननुभव इति चेत् । परापेक्षत्वात् युद्धादिवत् । परापेक्षोऽसौ, “ बुद्धयध्यवसितमर्थं पुरुष - तयते " इति वचनात् । बुद्धयध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा पुंसोऽनुभवप्रसङ्गात् सर्वस्य सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात् । यदि पुनरनुभवसामान्यं नित्यमनुत्पत्तिमदेवेति मतम् । २५ तदा ज्ञानादिसामान्यमपि नित्यत्वादनुत्पत्तिमद्भवेदित्यसिद्ध उत्पत्तिमत्त्वादिति हेतुः । ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति चेत् ।
fo
" Aho Shrut Gyanam"