SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ परि. २ सू. २६ ] स्याद्वादरत्नाकरसहितः ३९९ तर्ह्यनुभवविशेषाणामप्युत्पत्तिमत्त्वादनैकान्तिकोऽसौ कथं न स्यात् । नानुभवस्य विशेषाः सन्तीति चायुक्तम् । वस्तुत्वविरोधात् । तथा हि नानुभवो वस्तु सकलविशेषरहितत्वात् । खरविषाणवत् । नात्मनानेकान्तः । तस्यापि सामान्यविशेषात्मकत्वात् । अन्यथा तदवस्तुत्वापत्तेः । अचेतना ज्ञानादय इति पक्षश्च प्रत्यक्षबाधितः । ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वा चेतनत्वप्रसिद्धेः । अथ चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैव । तदुक्तम् । " तस्मात्तत्संसर्गादचेतनं चेतनादिव लिङ्गम् " इति । एतदप्यचर्चिताभिधानम् | शरीरादेरप्येवं चेतनत्वप्रतीतिप्रसङ्गात् । चेतनसंसर्गाविशेषात् । I शरीराद्यसम्भवी बुद्धयादेरात्मना संसर्गविशेषोऽस्तीति चेत् । स कोड- १० न्योऽन्यत्र कथञ्चित्तादात्म्यात् । आत्मादृष्टकृतकत्वादिविशेषस्य च शरीरादावपि भावात् । ततो नाचेतना ज्ञानादयः स्वसंविदितत्वादनुभववत् । स्वसंविदितास्ते परसंवेदनान्यथानुपपत्तेरिति प्रतिपादितप्रायम् । तथा चात्मस्वभाचा ज्ञानादयश्चेतनत्वादनुभववदेचेति न चैतन्यामात्रेऽवस्थानं मोक्षः । अनन्तज्ञानादिचैतन्यविशेषावस्थानस्य मोक्षत्वप्रतीतेः । १५ एवं च । "Aho Shrut Gyanam" ५. कपिल: : कल्पयामास यदिदं मोक्षलक्षणम् ॥ परीक्षां क्षमते तन्न स्याद्वादन्यायशालिनाम् || ३४८ ॥ एतेन बुद्धयादिविशेषगुणोच्छेदादात्ममात्रेऽवस्थानमात्मनो मुक्तिरिति कणभक्षाक्षपाद मतमपि प्रमाणेन बाधितमुपदर्शितम् । पुंसोऽनन्तज्ञानादि- २० स्वरूपत्वसाधनात् । स्वरूपोपलब्धेरेव मुक्तित्वसिद्धेः । स्यान्मतम् । न बुद्ध्यादयः पुंसः स्वरूपं तद्विरुद्धधर्माधिकरणत्वात् घटादिवत् । तद्विरुद्धधर्माधिकरणत्वं पुनस्तेषामुत्पादविनाशधर्मकत्वादात्मनोऽनुत्पादविनाशधर्मकत्वात् प्रसिद्धमिति । तदयुक्तम् । विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदाभेदासिद्धेः । मेचकज्ञानतदाकारवत् । एकं हि मेचकज्ञान १ सौ. का. २०. २५
SR No.009663
Book TitleSyadvada Ratnakar Part 2
Original Sutra AuthorVadidevsuri
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages242
LanguageSanskrit
ClassificationBook_Devnagari, Metaphysics, & Philosophy
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy