________________
परि. २. सू. २६ ] स्याद्वादरत्नाकरसहितः
३९५ चित्तस्यैव चित्तान्तराजनकस्य प्रमाणतोऽप्रसिद्धत्वात् । निरन्वयक्षणक्षयस्य प्रतिक्षेप्स्यमानत्वात् । अथ यथा प्रथमः पथिकाग्निररणिनिमन्थनसमुत्थो नाग्निपूर्वको दृष्टः । परस्त्वग्निपूर्वक एव । तथाचं चैतन्य कायाकारपरिणतभूतेभ्यो भविष्यति । परं तु चैतन्यपूर्वकं विरोधाभावादिति चेत् । अनुत्तरमेतत् । चिद्विवर्त्तत्वस्य हेतोः साध्येन ५ व्याप्तेरखण्डनात् । प्रथमपथिकानेरनम्न्युपादानत्वे च जलादीनामप्यजलाधुपादानत्वापत्तेः पृथिव्यादिभूतचतुष्टयस्य तत्त्वान्तरभावविरोधः । तथा हि येषां परस्परमुपादानोपादेयभावस्तेषां न तत्त्वान्तरत्वम् । यथा क्षितिविवर्तानाम् । परस्परमुपादानोपादेयभावश्च पृथिव्यादीनामित्येकमेव पुद्गलतत्त्वं पृथिव्यादिविवर्त्तमवतिष्ठेत । अथ क्षित्यादीनां न परस्पर- १० मुपादानोपादेयभावः सहकारिभावोपगमादित्युच्यते । तर्हि कथमपावकोपादानः प्रथमः पथिकपावकः प्रसिद्धयेत् । यतस्तद्वदचेतनपूर्वकं प्रथमं चैतन्यं प्रसज्येत । यथैव हि प्रथमाविर्भूतपावकादेस्तिरोहितपावकान्तरादिपूर्वकत्वम् । तथा गर्भचैतन्यस्याविर्भूतस्वभावस्य तिरोहितचैतन्यपूर्वकत्वमिति किं न व्यवस्था स्यात् । स्यान्मतं सहकारिमात्रादेव १५ प्रथमपथिकामेरुत्पादस्वीकारात्तिरोहिताम्यन्तरोपादानत्वमसिद्धमिति । तद्नुपपन्नम् । अनुपादानस्य कस्यचिदुत्पादादर्शनात् । शब्दविद्युदादेरुपादानादर्शनाददोषश्चेत् । नैवं वाच्यम् । शब्दादिः सोपादान एवं कार्यत्वात्कुम्भादिवदित्यनुमानात्तस्यादृश्योपादानस्यापि सोपादानत्वसाधनात् । नन्वस्तु सर्वोऽनिरम्यन्तरोपादान एव । सर्वस्य सजातीयोपा- २० दानत्वव्यवस्थितेः । चेतनस्य चेतनान्तरोपादानत्वनियमो न युक्तः । तस्य भूतोपादानवघटनात् । भूतचेतनयोः सजातीयान्तरत्वासिद्धेरिति चेत् । तदपि न न्यायसङ्गतम् । तयोभिन्नलक्षणत्वात्तत्त्वान्तरत्वोपपत्तेः। तोयपावकयोरपि भिन्नलक्षणत्वादेव परैस्तत्त्वान्तरत्वसाधनात् । तथा हि
१ सपूर्वस्य ' इति प. भ. पुस्तकयोः पाठः । २ 'चेतनस्य तु' इति प. भ. पुस्तकयोः पाठः।
"Aho Shrut Gyanam"