________________
[ परि. २ सू. २६
प्रसिद्धप्रामाण्यान्मोक्षास्तित्वस्य व्यवस्थापयिप्यमाणत्वात् । अत एवामोऽपि मोक्षतत्त्वं न बाधते । तथा मोक्षकारणतत्त्वमपि न प्रमाणेन विरुध्यते । प्रत्यक्षेणाकारणकमोक्षप्रतिपत्तेरभावात्तेन तद्बाधनायोगात् । नानुमानेनापि तद्वाधनम् । ततो मोक्षस्य कारणवत्त्वप्रसिद्धेः । तथा हि सकारणको मोक्षः प्रतिनियतकालादित्वात्कलशादिवत् । तस्याकारणकत्वे सर्वदा सर्वत्र सर्वस्य सद्भावानुषङ्गः । परापेक्षारहितत्वादिति । नागमेनापि मोक्षकारणतत्त्वं बाध्यते । तस्य तत्साधकत्वात् । " सम्यग्देर्शनज्ञानचारित्राणि मोक्षमार्गः " इति वचनात् । तथा संसारमपि न प्रमाणेन बाध्यते । प्रत्यक्षतः १० संसाराभावासिद्धस्तस्य च तद्बाधकत्वाघटनात् । तथा हि स्वोपात्तकर्मवशादात्मनो भवान्तरावाप्तिः संसारः स न प्रत्यक्षविषयो येन प्रत्यक्षं तं बांधेत । अनुमानं तद्बाधकमिति चेत् । न । संसारतत्त्वाभावप्रतिबद्धलिङ्गाभावात् । ननु गर्भादिमरणपर्यन्तचैतन्यविशिष्टकायात्मनः पुरुषस्य जन्मनः पूर्वं मरणाच्चोत्तरं नास्ति भवान्तरमनुपलब्धेः १५ खपुप्पवदित्यनुपलम्भः संसारतत्त्वाभावग्राहकः संसारतत्त्वस्य बाधक इति चेत् । नैतत् । चैतन्यानुपलम्भस्यासिद्धेः । प्राणिनामाद्यं चैतन्यं चैतन्योपादानकारणकं चिद्विवर्त्तत्वान्मध्यचैतन्यविवर्त्तयत् । तथान्त्यचैतन्यं चैतन्यकार्यकं तत एव तद्वदित्यनुमानाभ्यां पूर्वोत्तर भावोपलम्भाद्यथोक्तसंसारतत्त्वसिद्धेः । गोमयादेरचेतनाचेतनस्य वृश्चिकादेरुत्पत्ति२० दर्शनात्तेन व्यभिचारी प्रथमानुमाने हेतुरिति न वाच्यम् । वृश्चिकादिचैतन्यस्य पक्षीकरणात् । तथा हि वृश्चिकादिशरीरस्याचेतनस्यैव गोमयादेरचेतनात् सम्मूर्च्छनं न पुनर्वृश्चिकादिचैतन्यविवर्त्तस्य । तस्य पूर्वचैतन्य विवर्त्तनादेवोत्पत्तिप्रतिज्ञानात् । बुद्धचरमचित्तेन चित्तान्तरस्याजनकेन व्यभिचारो द्वितीयानुमाने हेतोरित्यपि न मन्तव्यम् । बुद्धचरम
३९४
५
प्रमाणनयतत्त्वालोकालङ्कारः
१ तत्त्वार्थसू. १३१. २ ' बाधते ' इति प पुस्तके पाठ: । ३ 'नैतद्वचनीयम् । अनुपलम्भस्य ' इति प. भ. पुस्तकयोः पाठः ।
"Aho Shrut Gyanam"