________________
परि. २ सू. २६ ]
स्याद्वादरत्नाकरसहितः
अथ विप्रतिपन्नम्प्रति निर्दोषत्वमर्हतः प्रसाधयन्नाह -
॥ निर्दोषोऽयं प्रमाणाविरोधिवाक्त्वादिति ॥ २५॥
निर्दोष इति पूर्ववत् । अयमित्यर्हन् । अत्र हेतुः प्रमाणाविरोधि - वाक्त्वादिति । प्रमाणं प्रत्यक्षादि तेनाविरोधिनी वाग् यस्य स तथा तस्य भावस्तत्त्वं तस्मात् । प्रयोगः पुनरेवम् । अर्हन् मोक्षसंसारतत्कारणेषु निर्दोषस्तत्र प्रमाणाविरोधिवाक्त्वाद्यो यत्र प्रमाणाविरोधिवाक् स तत्र निर्दोषो यथा कचिद्याध्युपशमे भिषग्वरः । प्रमाणाविरोधि - वाक्चान् मोक्षसंसारतत्कारणेषु । तस्मान्निर्दोष इति ॥ २५ ॥ प्रमाणाविरोधिवाक्त्वमप्यर्हतः प्रसाधयन्नाह-
३९३
॥ तदिष्टस्य प्रमाणेना बाध्यमानत्वात्तद्वाचस्तेना
विरोधसिद्धिरिति ॥ २६ ॥
तस्यार्हत इष्टं प्रतिपाद्यतया सम्मतं मोक्षादितत्त्वं तस्य । प्रमाणेनाबाध्यमानत्वाद्धेतोः । तस्यार्हतो वाक् तस्याः । तेन प्रमाणेनाविरोधसिद्धिः । प्रयोगस्त्वेवम् । अर्हन् मोक्षसंसारतत्कारणेषु प्रमाणाविरोधिवाक् तत्र प्रमाणाबाध्यमानाभिमततत्तत्त्वात् । यस्य यत्राभिमतं तत्त्वं १५ प्रमाणेन न बाध्यते स तत्र प्रमाणविरोधिवाक् । यथा रोगस्वास्थ्ये तत्कारणतत्त्वे भिषग्वरः । न बाध्यते च प्रमाणेनार्हतोऽभिमतं तत्त्वं मोक्षसंसारतत्कारणेषु । तस्मात्तत्रासौ प्रमाणाविरोधिवागिति । एवं च मोक्षसंसारतत्कारणतत्त्वलक्षणस्य विषयस्य प्रमाणेनाबाध्यमानत्वाद्विषविण्या अर्हद्वाचः प्रमाणाविरोधित्वसिद्धिः ।
" Aho Shrut Gyanam"
१०
२०
तत्र न तावद्भगवतोऽभिमतं मोक्षतत्त्वं प्रमाणेन बाध्यते । प्रत्यक्षस्य तदविषयत्वेन तद्वाधकत्वानुपपत्तेः । अनुमानभगवतोऽभिमतं मोक्षतत्त्वं न प्रत्यक्षादिप्रमाणेन मपि मोक्षप्रतिक्षेपदक्षं न सम्भवत्येव । नास्ति बाधितमित्युपकस्यचिन्मोक्षः सदुपलम्भकप्रमाणपञ्चकागोचरत्वात् कूर्मरोमादिवदित्यत्रानुमानं बाधकमस्तीति २५
पादनम् ।
चेत् । मैचम् । असिद्धसाधनत्वादस्यानुमानस्य | अनुमानादागमाच्च
1
1