________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. २३
चिनाशे हेम्न इव । मलोपलेपस्यापि विलये हेतुरभिधानीय इत्याद्यपि प्रमाविद्यापरिश्रमाभावपिशुनम् । भेदेऽपि मलोपलेपविलयस्य हेतोर्यः पूर्वापराविरुद्ध सिद्धान्तप्रतिपादितः स एव रत्नत्रयरूपोऽस्य हेतुर्भविष्यति । यदि तु भवता सर्वथा संशयितेन स्थीयते । तदा सुरपुरादि५ प्राप्तेऽपि न यतनीयम् । तत्रापि प्रवादिनां परस्परं विप्रतिपत्तेः ।
एवमपि ।
३९२
१०
१५
विश्वत्रयोदरदरीविवरान्तरस्थधर्माद्यतीन्द्रियपदार्थपरम्परायाः || निर्भासमान गुणताभ्युदितः स एव
श्रीसर्ववेदिदिवसाधिपतिः प्रसिद्धः || ३४४ ॥
त्रिवर्गपरिहारेण कृतं सर्वज्ञसाधनम् || त्रिवर्गपरिहारेण स्थितायास्तु पदाय नः || ३४५ ॥
सर्वज्ञसामान्यमिदं प्रसिद्ध
मित्थंविशेषस्तु कथं प्रसिद्धयेत् ॥ तस्यापि सिद्धिर्ननु नातिदूरे
स्याद्वादिनां दर्शयतां प्रमाणम् || ३४६ ॥ २३ ॥
तदाह
॥ तद्वानर्हन्निर्दोषत्वादिति ॥ २४ ॥
तद्यथोक्तलक्षणलक्षितं केवलज्ञानं नित्यमस्यास्ति स तद्वानिति २० नित्ययोगे मत्वर्थीयः । अर्हति देवादिकृतां पूजामित्यर्हन् श्रीवर्धमानादिः । अत्र हेतुर्निर्दोषत्वादिति । दोषा रागद्वेषाज्ञानलक्षणाः निष्क्रान्तो दोषेभ्यो निर्दोषस्तस्य भावस्तत्त्वं तस्मात् । प्रयोगस्त्वेवम् । अर्हन् सर्वज्ञो निर्दोषत्वाद्यस्तु न सर्वज्ञो नासौ निर्दोषो यथा सम्प्रतिपन्नो निर्दोषश्चार्हंस्तस्मात्सर्वज्ञ इति ॥ २४ ॥
१ निर्मासनाय सतताभ्युदितः स एष ' इति प. भ. पुस्तकयोः पाठः ।
靠
"Aho Shrut Gyanam"