________________
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः धानीयः । स तु प्रतिदर्शनभिन्न इति । तस्यापि न नैयत्यं सम्भवति । तन्न सर्वथा मलोपलेपविलये आत्मस्वरूपं धर्मादिदर्शनस्य हेतुः । नापि देशतो मलोपलेपविलयः । यतस्तस्मिन् सति यद्यात्मस्वरूपं धर्मादिदर्शनहेतुः स्यात् । तदा सर्वेषां धर्मादिदर्शनोपपत्तिः । देशतो मलोपलेपविलयस्य सर्वेषां सम्भवात् । तन्न विलीनमलोप- ५ लेपमात्मस्वरूपमपि धादिदर्शनहेतुः । ततो हेत्वभावाद्धर्मादिदर्शनाभाव इति फलितमस्मदाशावल्लरीभिः । एतदपि तरस्विनीशैवलिनीप्रवाहनीयमानदेहस्य दूर्वापल्लवलवावलम्बनम् । सिद्धे हि प्रमाबलेन धर्मादिदर्शने नूनं तदनुसारवता हेतुना भाव्यम् । साध्यं हि निःसंशयमुपलभ्य साधनं तदनुसारि सम्भाव्यते । न तु साधनानुप- १० पत्तिमात्रान्निर्मलानुमानसिद्धमपि साध्यं प्रतिषिध्यते । तत्र न बाह्येन्द्रिय भावना भावनासहित बाधेन्द्रियं मनो वा धर्मादिदर्शनहेतुरभिधीयते । येन तद्भेदोपदर्शितदोषा नः पतेयुः । विलीनमलोपलेपं चात्मस्वरूपं तस्य हेतुरिष्यत एव । तत्र तु यदुदितं मलोपलेपस्य हि सर्वथा विलयो देशतो वेत्यादि । तत्र सर्वथा मलोपलेपविलये सर्वथा देशतो १५ मलोपलेपविलये देशतः। ततो नात्र दोषलेशोऽपि । तथा यदन्यत्प्रलपितम्, स मळोपलेप आत्मनो भिन्नोऽभिन्नो वेत्यादि । तदप्यसम्बद्धम् । मलोपलेपस्यात्मनः सर्वथा भिन्नस्य अभिन्नस्य वानभ्युपेतत्वात् । भिन्नाभिन्नस्य तस्य प्रमाबलतः प्रतीतेः । अतः सर्वथा भेदेऽभेदे वा दर्शिता दोषा अनभ्युपगमपरिहता एव । तथा स मलोपलेपः सादिर- २० नादिःत्याद्यप्यवधानशून्यव्याहृतम् । प्रवाहतोऽनादेविशेषाश्रयात्तु सादेस्तस्य संदर्शितत्वात् । तपनीयोपलादौ मलोपलेपस्य तथाविधस्यैव दर्शनात् । भवतु वेत्यादिना मलोपलेपान्तरोत्पादप्रतिपादनमपि नोपपन्नम् । मलोपलेपान्तरहेतोमिथ्यादर्शनादेः पूर्वमलोपलेपस्य सर्वथा विलयात् । न हि हेतुषिनाशे साध्यं सम्भवति । सर्वथाप्यशुद्धि- २५
१ सम्भाव्यत' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"