________________
380
प्रमाणनयतत्त्वालोकालङ्कारः परि. २ सु. २३ सोपनतोऽस्मन्मनोरथः । नापि विरोधिनो धादिदर्शनस्यावबोधोऽत्र सम्भवति । सम्भवे वा नात्यन्तं तस्याभाव इति नाभावोऽपि धर्मादीनां विशदसंवेदनवेद्यतां बाधत इति न बाधितविषयोऽप्ययं हेतुः । तस्मादशेषदोषरहितत्वात् स्वसाध्यसिद्धिसौधमध्यमध्यासयन्नयं हेतु५ स्त्रिदशशापेनापि नापहस्तयितुं पार्यत इति । अथाभिधीयते भवतु धर्मादिदर्शी । तथापि धर्मादिदर्शनस्य हेतुरभिधातव्यः । स हि बाह्यन्द्रियं भावना तत्सहितं बाह्येन्द्रियं मनो विलीनमलोपलेपमात्मस्वरूपं वा । न बालेन्द्रियम् । तस्य पुरो वर्तमानरूपादिमदर्थसंदर्शनमात्रहेतुत्वेन सम
स्तात्रभुवनवर्तिधर्मादिदर्शनहेतुत्वासम्भवात् । नापि भावना, तस्याः १० स्मृतिमात्रहेतुतयाऽननुभूतपूर्वधर्मादिदर्शनं प्रत्यहेतुत्वात् । नापि भावना
सहित बाह्येन्द्रियम् । तस्य पुरोवर्तिवर्तमानार्थदर्शनहेतुतया भावनायास्त्वनुभूतविषयस्मृतिमात्रसाधनतया परस्परसहविधायित्वासम्भवात् । नापि मनो हेतुः । बाह्येन्द्रियरहितस्य मनसो बहिर्विषयेष्वप्रवृत्तेः ।
अन्यथा अन्धबधिराघभावः स्यात् । नापि विलीनमलोपलेपमात्म१५ स्वरूपमेव । मलोपलेपस्य हि सर्वथा विलयो भवेद्देशतो वा । न
प्रथमः । सर्वथा मलोपलेपस्य विलयासम्भवात् । तथा हि स मलोपलेप आत्मनोऽभिन्नो भिन्नो वा । यद्यभिन्नः । तदा तद्विलये आत्मनोऽपि विलयः स्यात् । तथा सति मूलनाशाद्विलीनं धादि
दर्शनम् । अथ भिन्नः तदा तथासत्यात्मस्वरूपस्य तदवस्थत्वात्पूर्व२० मिव तद्विलयसमयेऽपि न धर्मादिदर्शनं स्यात् । तदवस्थावत्पूर्वमपि
वा भवेत् । विशेषाभावात् । तथा स मलोपलेपः सादिरनादिर्वा । यदि सादिः । तदा मलोपलेपात्पूर्वं धादिदर्शनप्राप्तिः मलोपलेपाभावाविशेषात् । अथानादिः । तर्हि न तद्विलयः । अनादित्वादात्म
स्वरूपवत् । भवतु वा मलोपलेपविलयः । तथापि पुनर्मलान्तरोप२५ लेपसम्भवाद्धर्मादिदर्शनाभावः स्यात् । तथा मलोपलेपविलये हेतुरभि
१' तत्तथा ' इति प. पुस्तके पाठः । २. 'स' इत्याधिकं प. पुस्तके ।
"Aho Shrut Gyanam"