________________
परि. २ सू. २३] स्याद्वादरत्नाकरसहितः निवृत्तेरसंवेदनरूपतया धर्मादिदर्शनाभावसाधनत्वानुपपत्तेः । भवतु वा तदभावसाधनत्वम् । तथाप्यसिद्धैव तन्निवृत्तिः । प्रस्तुतानुमानस्यैव तत्र प्रवृत्तेः । तथा तन्निवृत्तिनियतदेशविशेषिता स्यादनियतदेशविशेषिता वा । न प्रथमा सर्वत्र सर्वदा धादिदर्शनाभावं साधयति । अन्यथा स्तम्भादीनां देशान्तरवर्तिनामत्र देशविशेषे स्वविषयमानाप्रवृत्तेर्देशान्तरेऽ- ५ प्यभावः स्यात् । ततो निःशेषव्यवहारविलोपः । नापि द्वितीया । सा हि विशदसंवेदनसिद्धा तदितरमानसिद्धा वा भवेत् । विशदसंवेदनमपीन्द्रियप्रभवमनिन्द्रियप्रभवं वा । इन्द्रियप्रभवमपि सर्वदेशवेदि नियतदेशवेदि वा । न प्रथमो भेदः । इन्द्रियप्रभवसंवेदनस्य सर्वदेशाविषयत्वात् । नापि द्वितीयः । सर्वदेशावेदने तद्विशेषितधर्मादिदर्शन- १० सत्तासाधनप्रमानिवृत्तेरपि वेदयितुरपार्यत्वात् । नाप्यनिन्द्रियप्रभवम् । तद्धि स्वसंवेदनरूपं तदितरद्वा । न स्वसंवेदनरूपम् । प्रमानिवृत्तेरसंवेदनरूपतया स्वसंविदितत्वासम्भवात् । नापीतरत् । तदितरस्यानिन्द्रियसम्भवस्य विशदसंवेदनस्य परेषामसिद्धेः । यदि त्वनिन्द्रियप्रभवं तत्सर्वत्र तन्निवृत्तिसाधनं सिद्धम् । तदा तद्यस्यास्ति स एव धर्मादिदी १५ प्रसिद्ध इत्यलं विवादेन । अथ तदितरमानसिद्धा । तदापि तदितरमानमनुमानं सिद्धान्तो वा । न तावदनुमानम् । प्रसिद्धाविनाभावस्य हेतोरसम्भवात् । नापि सिद्धान्तः । तस्यापि वादिप्रतिवादिसम्मतस्याभावात् । तन्न सत्तासाधनप्रमानिवृत्तिरूपोऽभावः । नाप्यमावविषयमानसप्रतीतिरूपः। सोऽपि हि नियत देशे धादिदर्शनाभावं भावयेत्स- २० र्वत्र वा । यदि नियतदेशे । तदा सिद्धसाधनम् । देशविशेषे तदभावस्य सम्मतत्वात् । अथ सर्वत्र तदनवधारिताभिधानम् । आधारविरोधिनोरेव बोधस्याभावप्रतीतिनिबन्धनस्यात्रासम्भवात् । यथा हि. नीपाभावस्य प्रतीतावाधारस्य भूतलादेविरोधिनस्तु नीपस्यावबोधोऽस्ति। नैवमिहाधारविरोधिनौरवबोधः सम्भवति । अत्र ह्याधारस्त्रिभुवनं तद्विषयोऽ- २५ प्यवबोधस्तव नास्त्येव । तद्भावे वा सर्वदर्शिता तवैव संवृत्तेत्यप्रया
"Aho Shrut Gyanam"