________________
प्रमाणनयतत्त्वालोकालङ्कारः
[ परि. २ सू. २३
विषयदर्शनोत्थस्य धर्म्माद्युपदेशस्य सर्वविदैव विधीयमानत्वात् । अनित्योऽपि संवादशाली सिद्धान्तः सुरपुरसर्वदर्शनार्थिनां तपोध्यानादि विधेयमित्यादिः सर्वदर्शिनमभिदधानः शतशो दृश्यते । नाप्यत्रेतरेतराश्रयम् । सर्ववित्समयपरम्पराया अनादित्वात् । इति सिद्धान्ते ५ सर्वदर्शिप्रतिपादनप्रसिद्धया न शाब्दमपि धर्मादीनां विशदसंवेदनवेद्यतां बाधितुं समर्थम् । नाप्युपमानम् । तथा हि यद्युपमानभूताः सर्व एवेदानीन्तनाः पुरुषा अपरे वोपमेयास्त्रिभुवनान्तर्वर्त्तिनोऽवधारिता भवेयुस्तदेदानीन्तनपुरुषसादृश्योपमानेनान्येषामपि धर्मादिदर्शित्वाभावसाधनं भवेत् । यावता परिमितदेशविशेषिताः पुरुषा इदानीन्तना १० विभाविता न सर्वे । विभाविता अपि न धर्माद्यदर्शित्वेनावधारिताः । परात्मधर्मस्य धर्मादिदर्शनाभावस्य पिशितनयनैर्वैशद्येन प्रतिपत्तुमपर्यासत्वात् । नापि शेषाः प्रमिताः । तस्मादुपमानोपमेययोर्वैशद्येनाप्रतिपत्तेर्नोपमानमत्र सम्भवति । अथोपमानभूतानामिदानीन्तनानामुपमेयभूतानामन्येषां वा पुंसामसर्वदर्शित्वेन विशदा प्रतीतिरिष्यते । तत्रापि १५ नोपमानेन फलम् । विशददर्शनेनैव सर्वेषाम सर्वदर्शित्वसिद्धेः । ततोऽपीदानीन्तनानन्यान्या सर्वान सर्वदर्शित्वेन पश्यन् भवानेन सर्वदर्शी स्यादिति सिद्धं नः समीहितम् । ततो नोपमानमपि धर्मादीनां विशदसंवेदनवेद्यतां बाधते । नाप्यर्थापत्तिः । सा हि सर्वदर्यसाधनतया सर्वदभावसाधनतया वा तां बाधेत । न तावत् सर्वदर्श्यसाधनतया । २० असिद्धत्वात् । धर्म्मादिदर्शिसाधनोद्धुराया अर्थापत्तेः पूर्वं प्रतिपादितत्वात् । नापि सर्वदर्श्यभावसोधननया । असिद्धत्वात् । न हि नाम सोऽर्थः सम्भवति यः सर्वविदभावं विना नोपपद्यते । नाप्यभावस्तां बाधितुमीशः । स हि सत्तासाधनप्रमानिवृत्तिरूपो वा स्यादभावविषयमानसप्रतीतिरूपो वा । न तावदाद्यो भवति भेदः । सत्तासाधनप्रमा
३८८
१ 'बेदित्वाभाव' इति प. भ. पुस्तकयोः पाठः । २ 'सर्वदर्श्यसाधनतया' इति भ. पुस्तके पाठः ।
"Aho Shrut Gyanam"