Book Title: Sramana 2000 07
Author(s): Shivprasad
Publisher: Parshvanath Vidhyashram Varanasi

View full book text
Previous | Next

Page 61
________________ पञ्चमकालामृतम्। पंन्यासप्रवर : श्री मुक्तिविजयजी गणिवर: समर्थ विद्वद्वर्या चार्य शिरः समर्चितशासनः स्थूलभद्र इव संनाशितसकलजगन्नाशककामदेवः समुद्र इव सम्यक्दर्शनज्ञान चारित्रलक्ष्मीप्रसूतिः, जन्मभूः तत्त्वन्यायविभाकरादिग्रन्थानाम्, समुत्पत्तिः संमतिसोपानादिशासन - प्रभावकग्रन्थानाम्, उदयशैल आराधकमित्रमंडलानाम्, धौरेयो धर्माराधनसंरक्षणप्रभावनादिकार्यरतधार्मिकाणाम्, अग्रणी न्यायादिषट् दर्शनशास्त्रपाठिनाम्, परास्तैदंयुगी नजाड्यान्धकारः, कृतानेकप्रभुप्रतिष्ठोपधानादिशासनप्रभावनाकार्यो, वर्तमानकालीनशासनप्रभावक आज्ञानिरपेक्ष द्रव्यक्षेत्रकालभावप्रभुत्वप्रतिपादकानां पुरः स्थापितशास्त्रमहत्त्वो लब्धिसूरिर्बभूव । आशैशवं पूज्यपादानां क्षयोपशमोऽसाधारण आसीत् । न्यायव्याकरणकाव्यकोशादिशास्त्राध्ययन साधुधर्मग्रहणानन्तरं सम्यक्तया सद्गुरुनिश्रायामेव तेन कृतम् । परमगुरुणा निस्पृहचुडामणिना कमलसूरिवर्येण व्याख्यानवाचस्पतिपदं तस्य वाग्लब्धिं दृष्ट्वा स्ववरदहस्तेन तस्मै दत्तम् । अनुष्ठानादिधर्मकार्यकरण तुंगिकानगरीसदृश्यां छायापुरीनगरायां स्थापितः तृतीयपदे सूरिनाम्नि तेनैव परमगुरूणा महाडबरेणैकाशित्युत्तरैकोनविंशतिशततमे वर्षे प्रभावक एष महापुरुषः । स्वसम्यक्दर्शनशुद्धये भव्यजनप्रतिबोधार्थं परमपुरुषप्रणतप्रभुशासन - प्रभावनायै च बिहृतोयं सूरि र्महाराष्ट्र - सौराष्ट्र-गुर्जरमेवाड़ मारवाड़ पंजाबादिदेशेषु । वादिमतगजकेशरी सूरिसम्राड्यं शासनप्रभावक- पूज्यपादाभयदेवसूरि-प्रतिष्ठिततभनपार्श्वनाथप्रभावित त्रंबावटीनगरीसमीपवर्तिवटादरानगरे केनचिद् विदुषा पंडितप्रवरेण वेदशास्त्रविषये वादमकार्षीत्। शासनोन्नतिकारिणी भव्यजीवमिथ्यात्वांधकारविध्वंसिनी वृता विजयवरमाला विजिगीषुणा तेनैव महात्मना । पंचविंशतिवर्षपूर्वं राजस्थाने विमानोत्तरणस्थलाद्याधुनिकरम्यस्थानसुशोभिते लक्षाधिकमानवसमूहविभूषिते योधपुरे नगरे पूज्यपादा द्विनवतियुतैकूनविंशतिशततमे वर्षे वर्षावासं बभूवुः । एकस्मिन् दिने न्यायनिपुणो व्याकरणविशारदः पंडितः कश्चित् तत्र समायतः । सूरिवर्यै: सप्रेम स आहूतः । तेन तत्कालं शास्त्रार्थाय गीर्वाणगिरा कतिपयवाक्यानि गम्भीर प्रश्नपुर्वकानि प्रोक्तानि । सूरिपुरंदरा आहुरधुना भीक्षाजेमनकालोवर्तते । पश्चादद्यैवापराहणे वयं शास्त्रविषयिणी न्यायपंचावयवाक्यपूर्विकां चर्चा कारिष्यामः । विद्यामदमतांधः सः पण्डित उवाच । अधुनैवाहं शास्त्रार्थं करिष्यामि भवतामिच्छाभवेच्चेत्, नो चेद् गच्छाम्यहम् । तत्कालं पूज्यपादैः स्याद्वादसुधावर्षिणी सप्तनयसप्तभंगीगर्भितानेकान्तवादप्रतिपादिकैकान्त-मतोन्मूलिनी मेघधारासदृशी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140