________________
पञ्चमकालामृतम्।
पंन्यासप्रवर : श्री मुक्तिविजयजी गणिवर:
समर्थ विद्वद्वर्या चार्य शिरः समर्चितशासनः स्थूलभद्र इव संनाशितसकलजगन्नाशककामदेवः समुद्र इव सम्यक्दर्शनज्ञान चारित्रलक्ष्मीप्रसूतिः, जन्मभूः तत्त्वन्यायविभाकरादिग्रन्थानाम्, समुत्पत्तिः संमतिसोपानादिशासन - प्रभावकग्रन्थानाम्, उदयशैल आराधकमित्रमंडलानाम्, धौरेयो धर्माराधनसंरक्षणप्रभावनादिकार्यरतधार्मिकाणाम्, अग्रणी न्यायादिषट् दर्शनशास्त्रपाठिनाम्, परास्तैदंयुगी नजाड्यान्धकारः, कृतानेकप्रभुप्रतिष्ठोपधानादिशासनप्रभावनाकार्यो, वर्तमानकालीनशासनप्रभावक आज्ञानिरपेक्ष द्रव्यक्षेत्रकालभावप्रभुत्वप्रतिपादकानां पुरः स्थापितशास्त्रमहत्त्वो लब्धिसूरिर्बभूव ।
आशैशवं पूज्यपादानां क्षयोपशमोऽसाधारण आसीत् । न्यायव्याकरणकाव्यकोशादिशास्त्राध्ययन साधुधर्मग्रहणानन्तरं सम्यक्तया सद्गुरुनिश्रायामेव तेन कृतम् । परमगुरुणा निस्पृहचुडामणिना कमलसूरिवर्येण व्याख्यानवाचस्पतिपदं तस्य वाग्लब्धिं दृष्ट्वा स्ववरदहस्तेन तस्मै दत्तम् । अनुष्ठानादिधर्मकार्यकरण तुंगिकानगरीसदृश्यां छायापुरीनगरायां स्थापितः तृतीयपदे सूरिनाम्नि तेनैव परमगुरूणा महाडबरेणैकाशित्युत्तरैकोनविंशतिशततमे वर्षे प्रभावक एष महापुरुषः ।
स्वसम्यक्दर्शनशुद्धये भव्यजनप्रतिबोधार्थं परमपुरुषप्रणतप्रभुशासन - प्रभावनायै च बिहृतोयं सूरि र्महाराष्ट्र - सौराष्ट्र-गुर्जरमेवाड़ मारवाड़ पंजाबादिदेशेषु । वादिमतगजकेशरी सूरिसम्राड्यं शासनप्रभावक- पूज्यपादाभयदेवसूरि-प्रतिष्ठिततभनपार्श्वनाथप्रभावित त्रंबावटीनगरीसमीपवर्तिवटादरानगरे केनचिद् विदुषा पंडितप्रवरेण वेदशास्त्रविषये वादमकार्षीत्। शासनोन्नतिकारिणी भव्यजीवमिथ्यात्वांधकारविध्वंसिनी वृता विजयवरमाला विजिगीषुणा तेनैव महात्मना ।
पंचविंशतिवर्षपूर्वं राजस्थाने विमानोत्तरणस्थलाद्याधुनिकरम्यस्थानसुशोभिते लक्षाधिकमानवसमूहविभूषिते योधपुरे नगरे पूज्यपादा द्विनवतियुतैकूनविंशतिशततमे वर्षे वर्षावासं बभूवुः । एकस्मिन् दिने न्यायनिपुणो व्याकरणविशारदः पंडितः कश्चित् तत्र समायतः । सूरिवर्यै: सप्रेम स आहूतः । तेन तत्कालं शास्त्रार्थाय गीर्वाणगिरा कतिपयवाक्यानि गम्भीर प्रश्नपुर्वकानि प्रोक्तानि । सूरिपुरंदरा आहुरधुना भीक्षाजेमनकालोवर्तते । पश्चादद्यैवापराहणे वयं शास्त्रविषयिणी न्यायपंचावयवाक्यपूर्विकां चर्चा कारिष्यामः । विद्यामदमतांधः सः पण्डित उवाच । अधुनैवाहं शास्त्रार्थं करिष्यामि भवतामिच्छाभवेच्चेत्, नो चेद् गच्छाम्यहम् । तत्कालं पूज्यपादैः स्याद्वादसुधावर्षिणी सप्तनयसप्तभंगीगर्भितानेकान्तवादप्रतिपादिकैकान्त-मतोन्मूलिनी मेघधारासदृशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org