________________
५६
गीर्वाणवाग्धारा छोटिता । चतुरचेत: चमत्कारकारिणीं स्वमतखण्डिनीं गुरुवाग्धारां श्रुत्वा चकितः पण्डितः पूज्यपादाननमदकथयश्चाहो मयानुचितं कृतं । क्षमयाम्यहं भवतः । पूज्यपादाः किंचित् विहस्य जगुः । भवानपि समर्थः पण्डितः । जयपराजयविचारो मनसि न कर्तव्यः । गुरुवर्याणामीदृशमौदार्यमवलोक्य पूज्यपादगुणान् मनसि धारयन स्वस्था सप्रेम जगाम । कीदृशी हृदयविशालता । अद्यापि योधपुरनगरस्थाः शरबतमल्लादिसुश्रावका गुरुगुणान् गायन्तः सन्तः सुप्रसिद्धामेतत्कथां कथयन्ति । पंजाबदेशे मुलताननगरे स्थितानां पूज्यपादानां मांसाहारनिषेधकान्यपुर्वाणि प्रवचनानि बभूवुः । तस्मिन् प्रवचने बहवो यवना अपि समाययुः । केचिद् यवनाः प्रतिबुद्धाः सन्त आजीवनं मांसाहारं तज्यजुः । केचिद् मांसविक्रेतारो यवनाः क्रुद्धाः सन्तः पूज्यपादानां प्राणनाशायागताः किन्तु पूज्यपादानां प्रसन्नं मुखं दृष्ट्वोपदेशं च श्रुत्वा भक्तिपूर्वकं नेमुः । सत्यं व्यतिकरं कथयित्वा गुरुवर्यान् क्षमयित्वा च ते गताः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org