________________
८८
षड्भाषाचन्द्रिकायां इत्यादेशो वा स्यात् । केविणो । 'नृनपि' इति किम् । बुद्धीए । पक्षे हितोत्तोदोर्दैवश्च । केवीहितो । कइत्तो । कईओ । कईउ । ङसिङसोर्हिरिति नास्ति । अनदन्तत्वात् ॥ भ्यसि उक्ता हितोप्रभृतयः सुन्तो च । 'इदुतोर्दिः' इति दीर्घः । कईहिन्तो । इत्यादि । षष्ठ्येकवचने 'नृनपि ङसिङसोः' इति वाँ णो। कइणो । पक्षे 'ङसोस्त्रियां सर' इति द्विरुक्तः सकारः । कइस्स ॥ सप्तम्येकवचने मिरेव । कविम्मि ॥ बहुवचने 'ईदुतोर्दिः' इति दीर्घः । केवीसुं । कवीसु॥ शेषं रामवत् ॥
अथ इकारान्तेषु केचिद्विशेषाः प्रदर्श्यन्ते ॥ ध्वनि सु इति स्थिते 'उल्ध्वनि-' इत्यादिना बकारसंबन्धिनो वर्णस्योत्वम् । 'लवैराम्-' इति वलोपः । धुणी ॥
त्वथ्वदध्वां कचिच्चछजझाः ॥१।४।६५ ॥
त्वथ्वद्वध्व इत्येषां यथासंख्यं क्वचित् प्रयोगानुसारेण चछजझ इत्येते आदेशा भवन्ति । इति ध्वस्य झादेशे । झणी ॥ शेष कविवत् ॥ तित्तिरिशब्दे
रस्तित्तिरौ ॥ १।२।४४ ॥ - 'मूषिकविभीतक-' इत्यादेरदित्यनुवर्तते । 'त्वेदितः' इत्यतः 'इतः' इति च । अत्र रेफसंबन्धिनः इवर्णस्यात्वं भवति । तित्तिरो ॥ शेषं रामवत् ॥ ऋषिशब्दे 'ऋतुऋजुऋणऋषि-' इत्यादिना ऋका
१ भवति for वा स्यात् R. २ My. and P. have हरिणो in place of कविणो. ३ M. has हरिणो after it. ४ दश्च । M. ५ My., P. and M. have हरिहिंतो । हरित्तो । हरीओ । हरीउ । in place of कवीहिंतो । &c. ६ कइहिन्तो । M. ७ णो वा M. ८M., My. and P. haye हरिणो in place of कइणो। ९M., My. and P. have हरिस्स। १० My. and P. have हरिम्मि); M. has both. ११ इदुतोरिति दीर्घः। M. १२ My. and P. have हरीसुं । १३ रवलेति वलोपः। M., T. १४ My. and P. have यथासंख्यं after प्रयोगानुसारेण. १५ कविवद्धरिवच्च । My., M., P. १६ र इत्यर्नु M. १७ M. drops 'त्वेदितः' इत्यतः, १८ °ऋषिऋषभ-' M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org