________________
२८२
षड्भाषाचन्द्रिकायां भवतः । अहवइ कामसरतिव्वु रमणीकडक्खु । अथवा कामशरतीव्रः रमणीकटाक्षः । मणाउं दिण्णु । मनाग्दत्तम् ॥
इतसेत्तहे ।। ३।३।४८ ॥ इत इत्यस्य स्थाने एत्तहे इति भवति । एत्तहे सुघु । इतः सुखम् ॥ पश्चात् पच्छइ ॥३।३।४९ ॥
पश्चादित्यस्य स्थाने पच्छइ इति भर्वति । पच्छइ पहादु । पश्चात् प्रभातम् ॥
ततस्तदा तो ॥३।३। ५० ॥
ततः तदा इत्येतयोः स्थाने तो इति भंवति । तो गदु । ततो गतः । तदा गतो वा ॥
वनुसाहावन्यथासवौं । ३ । ३ । ५१ ॥
अन्यथा सर्व इत्येतयोः स्थाने यथाक्रममनु साह इत्यादेशौ वा भवतः । अनुकदु । अन्यथा कृतम् ॥
हुहुरुधिग्घिगाश्शब्दचेष्टानुकृत्योः ॥३।३। ५७॥ हुहुर्वादयः शब्दानुकरणे घिग्घ्यादयश्चेष्टानुकरणे प्रयोज्याः । अनर्थका घइमादयः ॥३।३ । ५८ ॥ घई इत्यादयो निपाता अनर्थका प्रयुज्यन्ते ।
इत्यव्ययानि ।
अथ तद्धितेषु विशेषाः कैथ्यन्ते । उत्तुलडेवडावियत्कियति च व्यादेवतुपः ॥३।३।१२॥ १ स्तः T. २ कामसरतिव्वु अहवइ तरुणीकडक्खु । कामशरस्तीव्रः अथवा तरुणीकटाक्षः। T. ३ स्यात् T. ४ स्यात् T. ५ पञ्चइ होदे वहादु । पश्चाद्भवति प्रभातम् । T. ६ स्यात् T. ७ अणु T. ८ मणु T. ९ अणु T. १० च प्रयोज्याः T. ११ T. drops निपाताः, १२ T. drops कथ्यन्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org