________________
षड्भाषान्द्रिचकायां ग्रहणदर्शनाद्विच्प्रत्ययान्तसोमपाशब्दस्यापि ह्रखः । यद्वा 'क्विपः' इति सूत्रे क्विन्ग्रहणं विजादीनामप्युपलक्षकम् । न च सूत्रे उपलक्षकत्वमदृष्टचरमिति वाच्यम् । प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमित्यत्र साधर्म्यग्रहणं वैधर्म्यस्याप्युपलक्षणमिति सर्वसंप्रतिपन्नत्वात् । तन्न्यायेनात्राप्युपलक्षितविच्प्रत्ययान्तस्य सोमपाशब्दस्यापि हखः । तथा च सोमप सु इति स्थिते 'प्रायो लुक्-' इति पलोपे प्राप्ते 'नात्पः' इति प्रतिषेधात् पलोपाभावे ‘पो वः' इति पस्य वैः। 'सोः' इत्यादिसूत्रैर्विधीयमाना आदेशाः पूर्ववत् । सोमवो । सोमवा । इत्यादि। रामवत् । एवं कीलालपाप्रभृतयः । ___ इकारान्तः पुंलिङ्गः कविशब्दः । कवि सु इति स्थिते । 'इदुतोर्दिः' इत्यधिकृत्य
लुगनपि सोः॥२।२।२९ ॥ इदुद्भ्यां परस्य सोः शानुबन्धो लुक् स्यात् । अनपि नपुंसकलिङ्गे तु न भवति । 'शिति दीर्घः' इति दीर्घः । वलोपः । कई ॥ कवि जस् इति स्थिते 'चतुरो वा' इत्यतः 'वा' इत्यधिकृत्य 'इदुतोः-' इति च इदुतोरित्यस्य सुब्व्यत्ययेन पञ्चम्यन्तविपरिणामः ।
पुंसो जसो डउ डओ ॥२॥२२४ ॥
पुंलिङ्गादिदुतोः परस्य जसः अउ अओ इत्यादेशौ डितौ वा भवतः । कवऊ । कओ । पक्षे 'णो शसश्च' इति वा णः । कइणो । पक्षे 'श्लग्जश्शसोः' इति श्लुक् । कई । संबुद्धौ कवि सु इति स्थिते 'डोश्लुकौ तु संबुद्धेः' इति सोर्वा श्लुक् । शित्वात् 'पूर्वस्य दीर्घः ।
१ सूत्रे is dropped in P. and My. २ °लक्षणम् R., T. ३ सर्वत्र संप्रति R., T. ४ M. has नात्पः । अवर्णात् परस्य पकारस्य लोपः स्यात् इति पलोपाभावः । 'पो वः' इति &c. ५ R. drops प्रतिषेधात्. ६ भावः किंतु R., T. ७ वत्वम् । R. T. ८ भवति । R. ९M. and T. drop तु. १० इत्यधिकृत्य M., R. ११ कवओ । M. १२ णो वा। . १३ M. drops पूर्वस्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org