________________
१२२ , षड्भाषाचन्द्रिकायां याम्-' इति मलोपे शेषद्वित्वे अत्ता । अत्र राजवदित्यतिदेशात् 'आ सौ वा' इत्यनुवर्तमाने राज्ञ इत्यात्वं विकल्पेन भवति । पक्षे । अप्पो । अत्तो । 'पुंस्याणो राजवच्चानः' इत्याणादेशे राजवत्कार्य च । अप्पाणो । अत्ताणो। जसि । 'जश्शस्ङसिङसां णोश्' । अप्पाणो । अप्पा । आणादेशे । अप्पाणा । संबुद्धौ । दे अप्प । दे अप्पा । दे अप्पो । दे अप्पाण । जसि । तान्येव । अमि । अप्पं । अप्पाणं । शसि । अप्पादेशे आणादेशे च रामवत् । टा टो वात्मनो णिआणइआ ॥२।२। ६१॥
आत्मनः परस्य टावचनस्य णिआ णइआ इत्यादेशौ वा स्तैः। अप्पणिआ। अप्पणइआ । अयमेव विशेषः । इतरत् सर्वमाणादेशे अप्पादेशे च रोमवद्रूपम् । एवमत्तशब्दोपि ॥ युवन्शब्दस्य जुवाणो । जुवा । जुवो ॥ पूषन्शब्दस्य पूणिो । पूसा। पूसो ॥ तक्षन् । क्ष्वेडकादित्वात् क्षस्य खः। तक्खाणो । तक्खा । तक्खो ॥ मूर्धन्शब्दस्य रेफलोपहखौ । वक्रादित्वाद्विन्दुः । मुंधाणो । मुंधा । मुंधो । 'ढोर्धर्द्धि-' इत्यादिना स्तोढत्वे । मुंढाणो। इत्याद्यपि ॥ श्वशब्दस्य साणो । सा । इत्यादि ॥ सुकर्मन्शब्दस्य सुकम्माणो । सुकम्मो । इत्यादि । एतेषामात्मशब्दवत् प्रक्रिया । अन्येषां नपुंसकलिङ्गानामपि नकारान्तानाम् स्त्रमदामशिरोनभो नरि ॥१।१। ४९ ॥ सान्तं नान्तं च यच्छब्दरूपं तन्नरि पुंलिङ्गे प्रयोक्तव्यं दामन्
१ आणादेशे च is omitted in M. २ भवतः M. ३ अन्यत् R., T. ४ सर्व रामवद्रूपम् R., T. ५ रामवद्रूपम् is dropped in R., T. ६ °मुत्तर for मत्त My.; मत्ता M.; "मुत्ता R.; 'मंता T. ७ शब्दस्य is dropped in M., R., T. ८ पूसानो M. ९ सासो M. १. M. has सुकम्मा before it. ११ एतेषाम् is dropped in M., My., P.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org