________________
१२०
षड्भाषाचन्द्रिकायां राज्ञः ॥ २ । २ । ५३ ॥
राजन्शब्दस्य नलोपे सत्यन्त्यस्य सौ परे आत्वं वा स्यात् । राआ । पक्षे
पुंस्याणो राजवचानः ॥२।२। ६०॥ पुंलिङ्गे वर्तमानस्य अन् इत्यस्य स्थाने आण इत्यादेशो वा स्यात् राजवत्कार्य च यथादर्शनम् । 'टोणा' 'जश्शसूङसिङसां णोश्' इति च भवति । अत्राणादेश एव अन्यत्राणादेशो राजवत् कार्य च । आणादेशे च 'सोः' इत्यादयः प्रवर्तन्ते । राआणो। जसि 'आ सौ वा' इत्यतः 'वा' इत्यधिकृत्य
जश्शमङसिङसां णोश् ॥ २ । २ । ५५ ॥ रीज्ञः परेषामेषों णो वा स्यात् । राजन् णो इति स्थिते णोणाङिष्विदना जः॥२ । २ । ५६ ॥ 'वा' इत्यनुवर्तते । राजशब्दसंबन्धिनो जस्य अनासहितस्य णो णा इत्यादेशयोः ङि वचने च परे इकारो वा स्यात् । इतीत्वे । राइणो । इत्वाभावे । राआणाणो । राआणो। णो शभावे । राआ । आणादेशे । राआणा । संबुद्धौ । दे राआ । दे राअ । दे राओ । दे राआणो । अमि इणममामा ॥२ । २ । ५७ ॥
अनाज इत्यनुवर्तते । राजन्शब्दसंबन्धिनो जस्य अनासहितस्य अम् आम् इत्येताभ्यां सहितस्य इणमित्यादेशो वा स्यात् ॥ राइणं । पक्षे । राअं । आणादेशे । राआणं । शसि । राआणाणो । राआणो । राइणो । राआणा । 'शस्येत्' । राआणे । राआ ॥
१ च is omitted in My. २ इत्यधिकृत्य M., R. ३ M. and R. have 'राज्ञः' इत्यनुवर्तते before it. ४' मेतेषां M. ५ शित् णो बा स्यात् M., R., T. ६ My. and P. drop शब्द. ७ ङौ च My., P. ८M. drops शब्द. ९ णाआदेशे M.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org