________________
२१४
षड्भाषाचन्द्रिकायां तिजेरोसुकः ॥३।१ । ५२॥
तिज निशातन इत्यस्य ओसुक्क इति भवति । ओसुक्कइ । पक्षे । तेअइ । अत्र 'अचोचाम्' इति इकारस्य एकारः ॥
आरोलवमालौ पुञ्जः ॥ ३ । १ । ५३ ॥
पुञ्जधातोः आरोल वमाल ईत्यादेशौ वा स्तः । आरोलइ । वमालइ । पक्षे। पुंजइ ॥
कम्मवमुपभुजिः ॥३।१। ५४ ॥
उपपूर्वको भुजिः कम्मव इत्यादेशमापद्यते । कम्मवइ । पक्षे । उवभुंजइ । पिडवमर्जिः ॥३।१। ५५ ॥ अर्जिः पिडव इत्यादेशमापद्यते । पिडवइ । पक्षे । अज्जइ ॥ लजे हः ॥३।१।५६ ॥
ओलस्जी ब्रीडायामित्यस्य जीहँ इति वा स्यात् । जीहंइ । पक्षे । लजइ ॥
स्फुटेः सहासे मुरः॥३।१।६०॥ हाससहितार्थे प्रयुक्तस्य स्फुटिधातोः मुर इत्यादेशो वा भवति । मुरइ । हासेन स्फुटतीत्यर्थः ॥
मण्डेष्टिविडिकरिडचिंचचिंचिल्लचिंचआः ॥३।१।६१॥
मडि भूषायामित्यस्य टिविडिक रिड चिंच चिंचिल्ल चिंचअ इति पञ्चादेशा वा भवन्ति । टिविडिकइ । रिडइ । एवमन्येपि । पक्षे । मंडइ।
१ क्षमानिशातन M. २ इत्यादेशः। T. ३ धातुः M. ४ इति स्तः T. ५ °देशावापद्यते M. ६ T. has धातुः after it. ७°र्जिहः M., T. ८ जिह M., T. ९ जिहइ । M. १० प्रयुज्यमानो T. ११ स्फुटतेः M. १२ °धातुः तस्य T. १३ T. drops it १४ स्यात् M. १५ T. drops. वा भवन्ति । १६ इत्यादि T.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org