________________
सूत्र ४८-४९।]
सभाष्यतत्त्वार्थाधिगमसूत्रम् ।
१२१
मार्थे क्षेत्रान्तरितस्य भगवतोऽर्हतः पादमूलमौदारिकेण शरीरेणाशक्यगमनं मत्वा लब्धिप्रत्यय मेवोत्पादयति दृष्ट्वा भगवन्तं छिन्नसंशयः पुनरागत्य व्युत्सृजत्यन्तर्मुहूर्तम्य ।।
तैजसमपि शरीरं लब्धिप्रत्ययं भवति ।
कार्मणमेषां निबन्धनमाश्रयो भवति । तत्कर्मत एव भवतीति बन्धे पुरस्तात् वक्ष्यति । कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामादित्यप्रकाशवत् । यथादित्यः स्वमात्मानं प्रकाशयति अन्यानि च शरीराणि न चास्यान्यः प्रकाशकः । एवं कार्मणमात्मनश्च कारणमन्येषां च शरीराणामिति । ___ अत्राह-औदारिकमित्येतदादीनां शरीरसंज्ञानां कः पदार्थः ? इति । अत्रोच्यते-उद्गतारमुदारम् , उत्कटारमुदारम् , उद्गम एव वोदारम् , उपादानात् प्रभृति अनुसमयमुद्गच्छति वर्धते जीर्यते शीर्यते परिणमतीत्युदारम् , उदारमेवौदारिकम् । नैवमन्यानि । उदारमिति स्थूलनाम । स्थूलमुद्गतं पुष्टं बृहन्महदिति, उदारमेवौदारिकम् । नैवं शेषाणि तेषां हि परं परं सूक्ष्ममित्युक्तम् ॥
वैक्रियमिति- विक्रिया विकारो विकृतिर्विकरणमित्यनान्तरम् । विविधं क्रियते। एकं भूत्वाने भवति, अनेकं भूत्वा एकं भवति, अणुभूत्वा महद्भवति महच्च भूत्वाणु भवति, एकाकृति भूत्वानेकाकृति भवति, अनेकाकृति भूत्वा एकाकृति भवति, दृश्यं भूत्वाश्यं भवति, अदृश्यं भूत्वा दृश्यं भवति, भूमिचरं भूत्वा खेचरं भवति खेचरं भूत्वा भूमिचरं भवति, प्रतिघाति भूत्वाऽप्रतिघाति भवति, अप्रतिघाति भूत्वा प्रतिघाति भवति । युगपञ्चैतान भावाननुभवति । नैवं शेषाणीति । विक्रियायां भवति विकियायां जायते विक्रियायां निर्वय॑ते विक्रियैव वा वैक्रियम् ॥
आहारकम्-आहियते इति आहार्यम् । आहारकमन्तर्मुहूर्तस्थिति । नैवं शेषाणि । तेजसो विकारस्तैजसम् तेजोमयं तेजास्वतत्त्वं शापानुग्रहप्रयोजनम् । नैवं शेषाणि । कर्मणो विकार कर्मात्मकं कर्ममयमिति कार्मणम् । नैवं शेषाणि ।
एभ्य एवचार्थविशेषेभ्यः शरीराणां नानात्वं सिद्धम् । किंचान्यत् ।-कारणतो विषयतः स्वामितः प्रयोजनतः प्रमाणतः प्रदेशसंख्यातोऽवगाहनतः स्थितितोऽल्पबहुत्वत इत्येतेभ्यश्च नवम्यो विशेषेभ्यः शरीराणां नानात्वं सिद्धमिति ।।
अर्थ-आहारकशरीर शुभ है, क्योंकि उसकी रचना जिसके वर्ण गन्ध रस स्पर्श इष्टरूप हैं, ऐसे द्रव्योंसे हुआ करती है। तथा उसका परिणाम-आकृति-संस्थान भी शुभचतुरस्र हुआ करता है, और वह विशुद्ध भी होता है, क्योंकि उसकी रचना विशुद्ध द्रव्यके द्वारा हुआ करती है । जिन पुद्गलवर्गणाओंके द्वारा वह बनता है, वे स्फटिक खण्डके समान स्वच्छ होती हैं, उसमें हरएक वस्तुका प्रतिबिम्ब पड़ सकता है । तथा इस शरीरके द्वारा हिंसा आदिक कोई भी पापरूप प्रवृत्ति नहीं हो सकती और न वह इस तरहकी किसी भी पापमय प्रवृत्तिके द्वारा उत्पन्न ही होता है, अतएव इस
१-" पृष्टाथ” इति क्वचित्पाठः । २-अष्टमोऽध्याये बन्धाधिकारे । परस्तात् इति वा पाठः । ३--कोई कोई विशुद्ध शब्दका अर्थ शुक्लवर्णका ऐसा करते हैं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org