Book Title: Raichandra Jain Shastra Mala Syadwad Manjiri
Author(s): Paramshrut Prabhavak Mandal
Publisher: Paramshrut Prabhavak Mandal
View full book text
________________
बनजावे तो भी वह अपने पुत्रको मारनेके कलंकसे नहीं बच सकता है; इसीप्रकार यद्यपि वेदोक्त हिंसाको करके वे मीमांसक नीच देवताओंको प्रसन्न करलेते हैं; तथापि वे मीमांसक उस हिंसाजनित पापसे रहित नहीं हो सकते हैं ॥ ११ ॥
व्याख्या । इह खल्वचैिर्मार्गप्रतिपक्षधूममार्गाश्रिता जैमिनीया इत्थमाचक्षते । या हिंसा गार्ह्राद् व्यसनितया वा क्रियते सैवाऽधर्मानुबन्धहेतुः । प्रमादसंपादितत्वात् । शौनिकलुब्धकादीनामिव । वेदविहिता तु हिंसा प्रत्युत | धर्म्महेतुः । देवतातिथिपितॄणां प्रीतिसंपादकत्वात् । तथाविधपूजोपचारवत् । न च तत्प्रीतिसम्पादकत्वमसिद्धम् । कारीरीप्रभृतियज्ञानां स्वसाध्ये वृष्ट्यादिफले यः खल्वव्यभिचारः स तत्प्रीणितदेवताविशेषानुग्रहहेतुकः । एवं त्रिपुरार्णववर्णितच्छगलजाङ्गलहोमात्परराष्ट्रवशीकृतिरपि तदनुकूलित दैवतप्रसादसंपाद्या। अतिथिप्रीतिस्तु मधुपर्क| संस्कारादिसमास्वादजा प्रत्यक्षोपलक्ष्यैव । पितॄणामपि तत्तदुपयाचितश्राद्धादिविधानेन प्रीणितात्मनां स्वसन्तानवृ | द्धिविधानं साक्षादेव वीक्ष्यते । आगमश्चात्र प्रमाणम् । स च देवप्रीत्यर्थमश्वमेधैगोमेधादिविधानाभिधायकः प्रतीत | एव । अतिथिविषयस्तु 'महोक्षं वा महाजं वा श्रोत्रियाय प्रकल्पयेत् ।” इत्यादिः । पितृप्रीत्यर्थस्तु " द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु । १ । इत्यादिः ।
व्याख्यार्थ — यहा पर अर्चिर्मार्गसे विरुद्ध ( प्रतिकूल ) धूममार्गके धारक जैमनीय ( जेमनिऋषीके शिष्य मीमांसक ) ऐसा कहते है कि, कसाई व शिकारी के समान जो हिंसा लोभीपनेसे अथवा व्यसनीपनेसे की जाती है, वही पापके बंधकी कारण है । क्योंकि; प्रमादसे की जाती है । और जो वेदोक्त हिसा है, वह तो पापके बंधकी कारण नहीं है किन्तु उल्टी उस प्रकारकी पूजा
१ कं जलं ऋच्छतीति कारो मेघस्तमीरयतीतिकारीरी इति व्युत्पत्तेः कारीरीनामा वृष्टिकारको यज्ञविशेषः । २. त्रिपुरार्णवो ग्रन्थविशेषः । ३. दक्षा तु मधु संयुक्त मधुपर्कम् । ४. अश्वो मेध्यते हिंस्यते यत्रेत्यश्वमेध यज्ञविशेषः । एवमन्यत्रापि । ५. प्राघूर्णिक श्रोत्रियाय । ६ पण्मासांश्छाग| मासेन पार्षतेन हि सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु । २ । दशमासांस्तु तृप्यन्ति वराहमहिषामिपैः । शशकूर्मस्य मांसेन मासानेकादशैव तु । ३ । संवत्सर तु गव्येन पयसा पायसेन वा । वार्षीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी । ४ । इति पूर्णपाठः ।