Book Title: Pramana Nirnay
Author(s): Vadirajsuri, Surajmukhi Jain
Publisher: Anekant Gyanmandir Shodh Sansthan
View full book text
________________
3
तच्च प्रत्यक्षं द्विविधं, सांव्यवहारिकं मुख्यं चेति । सांव्यवहारिकमपि द्विविधं, इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षं चेति । तत्रेंद्रियस्य चक्षुरादेः कार्य यद्बहिनीलादिसंवेदन तदिन्द्रियप्रत्यक्षम् । कथं पुनस्तस्य विषयनियमः ? कथं च न स्यात् ? संवेदनात्मना नीलादिवत्तदपरनिरवशेषविषयापेक्षयाऽपि तस्य तुल्यत्वादिति चेन्न शक्तिनियमतस्तदुपपत्तेः ।नियतशक्तिका हि संवित्तयः “स्वहेतुसामर्थ्यादुपजायंते संसारिणामतो नियतस्यैव विषयस्य प्रतिपत्तिर्न सर्वस्य । यावन्नियतशक्तिकत्वात्तत्र विषयनियम'स्तावन्नियतविषयसारूप्यादेवेति कुतो न भवेत् । भवति हि नीलसारूप्ये संवेदनस्य नीलस्यैवेदं संवेदनं न पीतादेरिति तन्नियम, इति चेत्, किं पुनस्तस्य तत्सारूप्यं? न तावत्सदादिरूपं तस्यापिसर्वत्र साधारणत्वेन नियामकत्वानुपपत्तेः । नीलरूपमेव तदिति चेन्न तस्य बहिरेव दर्शनान्न संवेदने, तस्या'न्तरत'द्रूपस्यैवोपलंभात् । प्रतिपादितश्च तस्य संवेदनबहिर्भावः पुरस्तात् । कुतो न वा नीलसंवेदनं नीलेनैव पीतादिनाऽपि "संरूपं ? तस्यैव तत्कारणत्वादिति चेत्, किं न चक्षुरादिनापि तस्यापि तद्धेतुत्वाविशेषत् । नीलानुकरण एव तस्य शक्तिरिति चेत्, व्यर्थमिदानीं तत्र तत्सारूप्यं, शक्तित एव नियमवत्या विषयनियमोपपत्तेः । एवं हि पारंपर्यपरिश्रमः परिहृतो भवति, शक्तिनियमात्सारूप्यनियमस्ततोऽपि विषयनियम इति । सत्यपि सारूप्ये किंवा तन्नीलंयन्नीलस्येत्युक्तं । न संवेदनगतं तत्र भेदाभावेन व्यतिरेकविभक्तेरनुपपत्तेः। बहिर्गतमिति चेत्, तत्रापि कुतः संवेदनं? तस्य तद्विषयत्वादिति चेत्तदपि कुतः ? साक्षादेव तेन तस्य ग्रहणादिति चेन्न बहिरन्तारूपतया नीलद्वयस्याप्रतिवेदनात् । तत्सरूपत्वात्तद्विषयत्वं न साक्षादिति चेन्न, तथा तदप्रतिपत्तौ तत्सरूपत्वस्यैव दुख बोधत्वात् । द्वयोर्हिप्रतिपत्तौ भवति तद्गतस्य सारूप्यस्य प्रतिपत्तिर्नाप्रतिपत्तौ, "द्विष्ठसारूप्यसंवित्तिर्नैकरूपप्रवेदनात्, द्वयोः स्वरूपग्रहणे सति सारूप्यवेदनम्" इति न्यायात् । ततो युक्तं शक्तिनियमादेव विषयनियमः संवेदनस्येति | 150 ||
1
सौगतः पृच्छति ।
2
जैनः पृच्छति ।
3
4
अथ प्रत्यक्षस्य भेदद्वयवर्णनं विधीयते । अब प्रत्यक्ष के दो भेदों का वर्णन करते हैं
1
6
5 यथा ।
तथा ।
7 विषयनियमः ।
8 सति ।
' मध्ये इत्यर्थः ।
10 अनीलरूपस्य ।
चक्षुरादिकार्यसंवेदनस्य । ज्ञानावरणवीर्यातरायकर्मक्षयोपशमसामर्थ्यात् ।
11 समानरूपं ।
12
शक्तिप्रतिपादनसमये ।
32

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140