SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ 3 तच्च प्रत्यक्षं द्विविधं, सांव्यवहारिकं मुख्यं चेति । सांव्यवहारिकमपि द्विविधं, इन्द्रियप्रत्यक्षमनिन्द्रियप्रत्यक्षं चेति । तत्रेंद्रियस्य चक्षुरादेः कार्य यद्बहिनीलादिसंवेदन तदिन्द्रियप्रत्यक्षम् । कथं पुनस्तस्य विषयनियमः ? कथं च न स्यात् ? संवेदनात्मना नीलादिवत्तदपरनिरवशेषविषयापेक्षयाऽपि तस्य तुल्यत्वादिति चेन्न शक्तिनियमतस्तदुपपत्तेः ।नियतशक्तिका हि संवित्तयः “स्वहेतुसामर्थ्यादुपजायंते संसारिणामतो नियतस्यैव विषयस्य प्रतिपत्तिर्न सर्वस्य । यावन्नियतशक्तिकत्वात्तत्र विषयनियम'स्तावन्नियतविषयसारूप्यादेवेति कुतो न भवेत् । भवति हि नीलसारूप्ये संवेदनस्य नीलस्यैवेदं संवेदनं न पीतादेरिति तन्नियम, इति चेत्, किं पुनस्तस्य तत्सारूप्यं? न तावत्सदादिरूपं तस्यापिसर्वत्र साधारणत्वेन नियामकत्वानुपपत्तेः । नीलरूपमेव तदिति चेन्न तस्य बहिरेव दर्शनान्न संवेदने, तस्या'न्तरत'द्रूपस्यैवोपलंभात् । प्रतिपादितश्च तस्य संवेदनबहिर्भावः पुरस्तात् । कुतो न वा नीलसंवेदनं नीलेनैव पीतादिनाऽपि "संरूपं ? तस्यैव तत्कारणत्वादिति चेत्, किं न चक्षुरादिनापि तस्यापि तद्धेतुत्वाविशेषत् । नीलानुकरण एव तस्य शक्तिरिति चेत्, व्यर्थमिदानीं तत्र तत्सारूप्यं, शक्तित एव नियमवत्या विषयनियमोपपत्तेः । एवं हि पारंपर्यपरिश्रमः परिहृतो भवति, शक्तिनियमात्सारूप्यनियमस्ततोऽपि विषयनियम इति । सत्यपि सारूप्ये किंवा तन्नीलंयन्नीलस्येत्युक्तं । न संवेदनगतं तत्र भेदाभावेन व्यतिरेकविभक्तेरनुपपत्तेः। बहिर्गतमिति चेत्, तत्रापि कुतः संवेदनं? तस्य तद्विषयत्वादिति चेत्तदपि कुतः ? साक्षादेव तेन तस्य ग्रहणादिति चेन्न बहिरन्तारूपतया नीलद्वयस्याप्रतिवेदनात् । तत्सरूपत्वात्तद्विषयत्वं न साक्षादिति चेन्न, तथा तदप्रतिपत्तौ तत्सरूपत्वस्यैव दुख बोधत्वात् । द्वयोर्हिप्रतिपत्तौ भवति तद्गतस्य सारूप्यस्य प्रतिपत्तिर्नाप्रतिपत्तौ, "द्विष्ठसारूप्यसंवित्तिर्नैकरूपप्रवेदनात्, द्वयोः स्वरूपग्रहणे सति सारूप्यवेदनम्" इति न्यायात् । ततो युक्तं शक्तिनियमादेव विषयनियमः संवेदनस्येति | 150 || 1 सौगतः पृच्छति । 2 जैनः पृच्छति । 3 4 अथ प्रत्यक्षस्य भेदद्वयवर्णनं विधीयते । अब प्रत्यक्ष के दो भेदों का वर्णन करते हैं 1 6 5 यथा । तथा । 7 विषयनियमः । 8 सति । ' मध्ये इत्यर्थः । 10 अनीलरूपस्य । चक्षुरादिकार्यसंवेदनस्य । ज्ञानावरणवीर्यातरायकर्मक्षयोपशमसामर्थ्यात् । 11 समानरूपं । 12 शक्तिप्रतिपादनसमये । 32
SR No.090368
Book TitlePramana Nirnay
Original Sutra AuthorVadirajsuri
AuthorSurajmukhi Jain
PublisherAnekant Gyanmandir Shodh Sansthan
Publication Year
Total Pages140
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy