________________
अनैकांतिकश्च पुनर्द्विधा - निश्चितसंभाव्यव्यभिचारविकल्पात् |निश्चितश्च व्यभिचारस्य' क्च्चित्पक्षैकदेशे, यथा-पक्वान्येतानि फलान्येकशाखाप्रभवत्वादुप भुक्तफलवदिति । अस्ति ह्यत्र तत्रैव तन्निश्चयः पक्षीकृतेष्वेव बहुलमामेव प प्रकृतस्य हेतोर्भावात् । क्वचिदन्यत्र यथा सः श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदिति । अत्र ह्यन्यत्रैव तन्निश्चयस्तत्रैवाश्यामेऽपि तत्पुत्रस्यावलोकनात् । । 105 ||
अनैकान्तिक भी दो प्रकार का है - निश्चित व्यभिचार और संभाव्य व्यभिचार के विकल्प से। किसी अनुमान में पक्ष के एक देश में निश्चित व्यभिचार । यथा-पक्कान्येतानि फलान्येकशाखा प्रभवत्वादुपभुक्तफलवत् । इस अनुमान में पक्ष के एक देश में व्यभिचार का निश्चय है। पक्षीकृत एक शाखा में ही प्रायः कच्चे आमों में भी एक शाखा प्रभवत्व हेतु होने से । कहीं दूसरे अनुमान में यथा “सः श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत्" यहां अन्यत्र ही व्यभिचार का निश्चय है अश्याम में भी तत्पुत्रत्व हेतु के होने से । 1105 ।।
भागासिद्धत्व गमकत्व के प्रति दोष का कारण नहीं है । इसी प्रकार शब्द के अनित्यत्व में कृतकत्व हेतु को भागासिद्ध होने पर भी निर्दोषत्व की कल्पना होती है। कृतत्व हेतु भागासिद्ध है, समुद्र की गर्जना और बादलों की गड़गड़ाहट में कृतकत्व नहीं होने से । विपर्यस्ता सिद्ध तो अज्ञातासिद्ध ही है । अग्नि के बिना प्रतीत होता हुआ घूआं स्वरूप से ज्ञात नही है, अतः स्वरूपासिद्ध से पथक असिद्ध नहीं कहा जा सकता ।।104 ।।
संभाव्यव्यभिचारो यथा- विवादापन्नः पुरुषः किंचिज्ज्ञो रागादिमान्वा वक्तृत्वादे रथ्यापुरूषवदिति । संभावनाऽत्र व्यभिचारस्य, सर्वज्ञादपि विरोधाभावेन वक्तृत्वादेः संभवाविरोधात् । विरोधे वा ज्ञानप्रकर्षतारतम्ये वक्तृत्वस्या - पकर्षतारतम्यमुपलभ्येत न चैवं सति तस्मिन् तत्राऽप्यतिशयतारतम्यस्यैव प्रतिपत्तेस्ततोऽतिशयपर्यंतगतज्ञानस्यापि संभवत्येव वक्तृत्वं । न संभवति" तस्य वीतरागत्वेन रागविशेषात्मनो विवक्षाया अभावात्तनिबंधनत्वाच्च वक्तृत्वस्येति चेत् न, तदभावेऽपि गोत्रस्खलनादौ तस्य प्रतिपत्तेः । न हि तत्र यद्विषयं वचनं तद्विवक्षा विद्यते।विवक्षान्तरस्य सतोऽपि हि न तद्धेतुत्वमतिप्रसंगात् " |विवक्षापूर्वकत्वे च वक्तृत्वस्यानभ्यस्तस्यापि शास्त्रार्थस्य कश्चिद्वक्ता भवेत् तद्विवक्षायास्तत्राऽपि संभवान्नचैवं व्याख्यातृसेवावैफल्यप्रसंगात् । अभ्याससाहाय्ये भवत्येवेति चेन्न,
अनुमाने ।
2 अनुभूतफलवत् ।
अनुमाने ।
अपक्केष्वपि ।
अनुमाने ।
3
5
6 विपक्षे ।
7
वीतरागे ।
• असंभवादिति भावः ।
9 नुः ।
10
11
वृक्तत्वमिति शेषः ।
घटादिकारणस्य मृदादेः पटादिकारणत्वप्रसंगात् ।
74