Book Title: Pramana Nirnay
Author(s): Vadirajsuri, Surajmukhi Jain
Publisher: Anekant Gyanmandir Shodh Sansthan

View full book text
Previous | Next

Page 103
________________ ननु एवं पाकान्वितस्यैवानित्यत्वस्य घटे दर्शनात्तस्यैव शब्देऽपि कृत कत्वात्साधनं तदिति चेत् न, तत्रान्य'त्र च तदन्वितस्यापि तस्य प्रतिपत्तेः । न चैवं चंद्रद्वयादन्यत्र तात्विकस्योभयाभेदस्य प्रतिपत्तिर्यदवष्टंभेन नीलतद्वेदनयोरपि तन्नियमतस्यैव हेतुर्भवेत्तो विरुद्धत्वम् । ।111 ।। युक्तं धर्मविशेषविपरीतसाधनत्वेनास्य शंकाकार कहते हैं कि इस तरह पाक क्रिया से अन्वित अनित्यत्व को ही घड़े में देखा जाने से उसी अनित्य को शब्द में भी कृतकत्व हेतु से सिद्ध किया जाता है, अतः वह धर्मविशेष विपरीत साधन है, यह कहना ठीक नहीं है, घड़े में तथा पट आदि में अन्यत्र भी कृतकत्व हेतु से अन्वित अनित्यत्व की प्रतिपत्ति होने से इस प्रकार चन्द्रद्वय के अतिरिक्त अन्यत्र तात्विक दोनों के अभेद की प्रतिपत्ति नहीं होती, जिसके आधार पर नील और नील ज्ञान में सहोपलंभ नियम अभेद का हेतु हो । अतः धर्म विशेष विपरीत साधन होने के कारण सहोपलंभ नियम हेतु को विरूद्धत्व ठीक ही है । ।111 ।। किमुदाहरणम् ? इदं - न धर्मिविपरीतसाधनस्य द्रव्यं भाव एकद्रव्यवत्त्वाद्द्रव्यत्ववदिति । द्रव्यत्वं हि यथा न द्रव्यं तथा न भावोऽपि तत्र यदि तद्वेदकद्रव्यवत्वाद्भावोऽपि न द्रव्यं स भावोऽपि न भवेदिति, तन्न, कृत कत्वस्याप्येवं तत्साधनत्वापत्तेः । शक्यं हि वक्तुं घटस्यानित्यत्वमिवाशब्दत्वमपि । तत्र' यदि तद्वत्कृतकत्वादनित्यत्वं शब्दस्याशब्दत्वमपि भवेदिति । यदि शब्दस्या प्रतिपत्तिराश्रयासिद्धिर्लिंगस्य, प्रतिपत्तावपि न तत्राशब्दत्वसाधनम् तत्पक्षस्य तत्प्रतिपत्त्यैव प्रतिक्षेपात् । तत्कथं कृतकत्वस्य धर्मिविपरीत साधनत्वमिति चेत् न, भावेऽप्येवमभावरूपत्वसाधनस्यानुपपत्तेरेकद्रव्यवत्त्वस्यापि तत्साधनत्वाभाव प्रसंगात् । किं तर्हि तत्रोदाहरणमिति चेत्, क्षणभंगे सर्वोऽपि सत्वादिः, ततो हि धर्मिणः शब्दादेस्तत्क्षण एव भंगे तदभावसिद्धेरवश्यंभावादन्यदा भंगस्य च तत्क्षणभंगत्वानुपपत्तेः ।तत्क्षणभंगोऽपि तस्य क्षणांतरादेव व्यावृत्तिर्न स्वरूपात् तन्नायं प्रसंग इति चेत् न, ततोऽपि तस्यानर्थांतरत्वे प्रसंगस्यानिवृत्तेः " तथा क्षणांतरादपि व्यावृत्तिः स्वरूपादपि तत्प्रसंगात्कथंचिदर्थातरत्वस्य च स्याद्वाद 1 पादौ । 2 सहायेन । पर्यायः । 3 धर्मिविपरीतस्योदाहरणमुक्तम् । धर्मिविपरीतसाधनत्वापत्तेः । 4 5 कृतकत्वानुमाने । परो वक्ति । सर्वस्मिन्पदार्थेपि सत्वादिहेतुनाविनाशस्वभावत्वसाधनस्यानुपपत्तेः कुतः प्रतिपत्त्यप्रत्तिपत्तिपक्षस्याविशेषत् । परवादी वक्ति तत्र विपरीतसाधने किमुदाहरणमिति । 6 7 8 9 10 10 11 उत्पत्तिमत्वादिः 1 उत्पत्तिसमये । त्वद्भावसिद्धयोरेवावश्यंभावलक्षणप्रसंगस्य । 80

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140