Book Title: Pramana Nirnay
Author(s): Vadirajsuri, Surajmukhi Jain
Publisher: Anekant Gyanmandir Shodh Sansthan
View full book text
________________
मान्यस्यैव निर्देशादिति चेत्, विफलमिदानीं सत्वाद्यनुमानमपि वस्तुन्यवस्थां त्यनंगत्वात् । वस्तुनि हि शब्दविशेषै ततो नित्यत्वव्यवस्थितौ तस्य तदंगत्वं वस्तुनि सामान्ये । नायं दोषः सामान्यानित्यत्वेन विशेषानित्यत्वस्य लक्षणादिति ' वेत्, लिंगादेव कुतो न तल्लक्षणं * ? विशेषाणामानंत्येन तत्र लिंगप्रतिबंध दुरवगमादिति चेत् न, सामान्यप्रतिबंधस्यापि ' तदविशेषात् । तन्न सामान्यस्य धर्मित्वं विशेषस्यैव तत्त्वात् । कथं तस्य प्रतिज्ञार्थैकदेशत्वेनासिद्धत्वे सामान्यस्यापि तत्त्वं ? ' विशेषादन्यस्य सामान्यस्यैवाभावादिति चेन्न किंचिदिदानी लेंग नाम सत्वादेरपि तथा विधस्याभावात् । भाव एव सत्सदित्यनुगमप्रत्ययस्य तद्विषयस्य भावादिति चेत् न, शब्दः शब्द इति तत्प्रत्ययस्याविशेषात् । तन्न शब्दानित्यत्वे 'शब्दत्वस्यासिद्धत्वं । नाऽपि रूपाद्यनित्यत्वे रूपादित्वस्य शब्दत्वेन " समानयोगक्षेमत्वात् । नाऽप्यनित्यः शब्दोऽनित्यत्वादित्यस्य प्रतिज्ञार्थैकदेशत्वेना सिद्धत्वं शब्देऽपि तदापत्त्या तस्य धर्मित्वाऽभावप्रसंगात्, समुदायापेक्षयाऽपि तस्यापि तदवयवत्वाविशेषात् । कुतस्तर्हि 2 तस्यासिद्धत्वमिति चेत्, तर्हि स्वरूपत एवा निर्णयाद्भवतु । स्वरूपासिद्धत्वादेवायमहेतुरिति चेत् न, शब्दावच्छिन्न“स्यानित्यत्वस्य साध्यत्वात् । न च तस्य हेतुत्वं अनित्यमात्रस्य तत्वात्, तत्र's च मीमांसकस्याप्यविवादात्, अन्यथा घटादावपि तदभावापत्तेः " । कथं पुनः शब्दानित्यत्वाभावे तन्मात्रस्यानुपपत्तिर्यतस्तदनित्यत्वे तस्य हेतुत्वमिति चेत
10.
16
न,
”शब्दवत्तदभावेऽपि
घटादेर्वस्तुत्वाव्याघातात्.
1
यत्सत् तत्क्षणिकं यथा जलधरः सँश्च शब्द इत्याद्यनुमानं ।
" शब्दत्वलक्षणे ।
3 अनित्यः शब्दः कृतकत्वादित्यनुमानात् शब्दसामान्यस्यानित्यत्वेन साधितेन तद्विशेषाणामनित्यत्वस्य लक्षितलक्षणतया लक्षणात्परिज्ञानात्कुतः शब्दसामान्यस्य शब्दविशेषैः सहाविनाभावात् ।
4 विशेषनित्यत्वपरिज्ञानं ।
' अविनाभावस्य ।
• सामान्येन सह सत्वस्याविनाभावे दुरवगमत्वाविशेषात् कुतस्तस्याप्यानंत्यात् ।
7 परवादी ।
• परो वक्ति तथाविधसत्वादिरेव ।
9 साधनस्य ।
10
" अन्यथेति शेषः ।
12
आक्षेपसमाधानात् ।
साध्यरूपस्य साधनस्य ।
तटस्थो ब्रूते ।
14 विशिष्टस्य ।
15 शब्दस्यैव नाभ्युपगम्यते नित्यत्वं नान्यत्र ।
16
अनित्यत्वस्य मात्र विवादाविशेषात् ।
17 शब्देनित्यत्वमेव वस्तुत्वमिच्छतां घटादावप्यनित्यत्व मंतरेण वस्तुत्वमिष्यतां तथाचानित्यमात्रमवलोकेन सिद्ध्यति, अन्यथाऽनुपपत्ति प्रतिपादिता भवतीत्यत्राव गंतव्यम् ।
18 शब्दवदिति, यथा शब्दस्यानित्यत्वाभावेऽपि वस्तुत्वमुपपन्नं तथा घटादेरपि, अनित्यत्वाभावेऽपि वस्तुत्वमव्याहतमिति वस्तु किमप्यनित्य न स्यात्, नचैवं ततः कारणाद्वस्तुत्वस्य घटादावनित्यत्वेन
71
13

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140