SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ मान्यस्यैव निर्देशादिति चेत्, विफलमिदानीं सत्वाद्यनुमानमपि वस्तुन्यवस्थां त्यनंगत्वात् । वस्तुनि हि शब्दविशेषै ततो नित्यत्वव्यवस्थितौ तस्य तदंगत्वं वस्तुनि सामान्ये । नायं दोषः सामान्यानित्यत्वेन विशेषानित्यत्वस्य लक्षणादिति ' वेत्, लिंगादेव कुतो न तल्लक्षणं * ? विशेषाणामानंत्येन तत्र लिंगप्रतिबंध दुरवगमादिति चेत् न, सामान्यप्रतिबंधस्यापि ' तदविशेषात् । तन्न सामान्यस्य धर्मित्वं विशेषस्यैव तत्त्वात् । कथं तस्य प्रतिज्ञार्थैकदेशत्वेनासिद्धत्वे सामान्यस्यापि तत्त्वं ? ' विशेषादन्यस्य सामान्यस्यैवाभावादिति चेन्न किंचिदिदानी लेंग नाम सत्वादेरपि तथा विधस्याभावात् । भाव एव सत्सदित्यनुगमप्रत्ययस्य तद्विषयस्य भावादिति चेत् न, शब्दः शब्द इति तत्प्रत्ययस्याविशेषात् । तन्न शब्दानित्यत्वे 'शब्दत्वस्यासिद्धत्वं । नाऽपि रूपाद्यनित्यत्वे रूपादित्वस्य शब्दत्वेन " समानयोगक्षेमत्वात् । नाऽप्यनित्यः शब्दोऽनित्यत्वादित्यस्य प्रतिज्ञार्थैकदेशत्वेना सिद्धत्वं शब्देऽपि तदापत्त्या तस्य धर्मित्वाऽभावप्रसंगात्, समुदायापेक्षयाऽपि तस्यापि तदवयवत्वाविशेषात् । कुतस्तर्हि 2 तस्यासिद्धत्वमिति चेत्, तर्हि स्वरूपत एवा निर्णयाद्भवतु । स्वरूपासिद्धत्वादेवायमहेतुरिति चेत् न, शब्दावच्छिन्न“स्यानित्यत्वस्य साध्यत्वात् । न च तस्य हेतुत्वं अनित्यमात्रस्य तत्वात्, तत्र's च मीमांसकस्याप्यविवादात्, अन्यथा घटादावपि तदभावापत्तेः " । कथं पुनः शब्दानित्यत्वाभावे तन्मात्रस्यानुपपत्तिर्यतस्तदनित्यत्वे तस्य हेतुत्वमिति चेत 10. 16 न, ”शब्दवत्तदभावेऽपि घटादेर्वस्तुत्वाव्याघातात्. 1 यत्सत् तत्क्षणिकं यथा जलधरः सँश्च शब्द इत्याद्यनुमानं । " शब्दत्वलक्षणे । 3 अनित्यः शब्दः कृतकत्वादित्यनुमानात् शब्दसामान्यस्यानित्यत्वेन साधितेन तद्विशेषाणामनित्यत्वस्य लक्षितलक्षणतया लक्षणात्परिज्ञानात्कुतः शब्दसामान्यस्य शब्दविशेषैः सहाविनाभावात् । 4 विशेषनित्यत्वपरिज्ञानं । ' अविनाभावस्य । • सामान्येन सह सत्वस्याविनाभावे दुरवगमत्वाविशेषात् कुतस्तस्याप्यानंत्यात् । 7 परवादी । • परो वक्ति तथाविधसत्वादिरेव । 9 साधनस्य । 10 " अन्यथेति शेषः । 12 आक्षेपसमाधानात् । साध्यरूपस्य साधनस्य । तटस्थो ब्रूते । 14 विशिष्टस्य । 15 शब्दस्यैव नाभ्युपगम्यते नित्यत्वं नान्यत्र । 16 अनित्यत्वस्य मात्र विवादाविशेषात् । 17 शब्देनित्यत्वमेव वस्तुत्वमिच्छतां घटादावप्यनित्यत्व मंतरेण वस्तुत्वमिष्यतां तथाचानित्यमात्रमवलोकेन सिद्ध्यति, अन्यथाऽनुपपत्ति प्रतिपादिता भवतीत्यत्राव गंतव्यम् । 18 शब्दवदिति, यथा शब्दस्यानित्यत्वाभावेऽपि वस्तुत्वमुपपन्नं तथा घटादेरपि, अनित्यत्वाभावेऽपि वस्तुत्वमव्याहतमिति वस्तु किमप्यनित्य न स्यात्, नचैवं ततः कारणाद्वस्तुत्वस्य घटादावनित्यत्वेन 71 13
SR No.090368
Book TitlePramana Nirnay
Original Sutra AuthorVadirajsuri
AuthorSurajmukhi Jain
PublisherAnekant Gyanmandir Shodh Sansthan
Publication Year
Total Pages140
LanguageHindi
ClassificationBook_Devnagari & Philosophy
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy