Book Title: Pragnapanopang Tritiya Pad Sangrahani Author(s): Vijayjinendrasuri Publisher: Harshpushpamrut Jain Granthmala View full book textPage 9
________________ अवराइ विसेसहिओ अहलोयगामसंभवा वाऊ । तत्तो वि उत्तराए भवणच्छिड्डाण बहुयत्ता ॥ १९ ॥ तत्तो वि दाहिणेणं बहुतरओ भवणछिदुबहुयत्ता | दाहिणभवणाणि जओ बहुयाई उत्तरेहिंतो ॥ २० ॥ उत्तरदिगपेक्षया दक्षिणस्यां निकाये निकाये चतुश्चतुर्लक्षभवनानां नरकावासानां चाधिकत्वात् बहूनां कृष्णपाक्षिकाणां जीवानां तत्रोत्पद्यमानत्वात् । तथा यत्र शुषिरं तत्र व्यन्तराः प्रचरन्ति यत्र घनं तत्र न इति तेऽपि यथोक्ता ज्ञातव्याः ।। १७-२० ॥ नेरइया अइथोवा दिसातिए हुति दाहिणेण पुणो । अस्संखगुणा तत्तो एवं चिय बंभलोयसुरा ॥ २१ ॥ सर्वस्तोकाः पूर्वोत्तरपश्चिमदिकाये नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् बहूनां प्रायः सङ्ख्येययोजनविस्तृतत्वाच्च । तेभ्यो दक्षिणदिग्भाविनोऽसङ्घयेयगुणाः, पुष्पावकीर्ण नरकावासानां तत्र बाहुल्यात् तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात् कृष्णपाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच्च । तथाहि - द्विविधा जन्तवः कृष्णपाक्षिकाः शुक्लपाक्षिकाश्च । उक्तं च - "जेसिमवड्डो पुग्गलपरियहो सेसओ य संसारो । ते सुक्कपक्खिया खलु अहिए पुणPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76