Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________
७०
सूक्ष्मवनस्पतयोऽपर्याप्ता असङ्ख्येयगुणाः ८२ ॥ १३०॥ सामान्यतः सूक्ष्मापर्याप्ता विशेषाधिकाः, सूक्ष्मापर्याप्तपृथि व्यादीनामपि तत्र प्रक्षेषात् ८३ | पर्याप्तसूक्ष्मवनस्पतयः सङ्घयेयगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्मेभ्यः स्वभावत एव सङ्घयेयगुणत्वात् ८४ | सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात ८५ । सामान्येन सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात ८६ | भवसिद्धिका भव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् ८७ । सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्या अभव्याश्चातिप्राचुर्येण बादरसूक्ष्मनिगोदजीव राशावेव प्राप्यन्ते नान्यत्र । अन्येषां सर्वेषामपि मिलितानामसङ्ख्येयलो काकाशप्रदेशराशिप्रमाणत्वात् । अभव्याश्च युक्तानन्तकसङ्ख्यामात्रपरिमाणास्ततो भव्यापेक्षया ते किंचिन्मात्राः । भव्याश्च प्रागभव्यपरिहारेण चिन्तिताः । इदानीं तु बादरसूक्ष्मनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्ते इति विशेषाधिकाः ८८ । सामान्यतो वनस्पतयो विशेषाधिकाः, प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् ८६ ॥ १३१ ॥
एगिंदि ९० तिरिक्खा है? मिच्छ
हिट्ठी ९२ अविरय ९३ तहेव सकसाया ९४ । छउमत्थ ९५ सजोगि ९६ भवत्थ
९७ सव्व ९८ सव्वे विसेसहिया ॥ १३२ ॥

Page Navigation
1 ... 71 72 73 74 75 76