Book Title: Pragnapanopang Tritiya Pad Sangrahani
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
Catalog link: https://jainqq.org/explore/022608/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ ... श्री हर्षपुष्पामृत जैन ग्रन्थमाला ग्रन्थाकः १९३ ॥ श्री महावीरजिनेन्द्राय नमः ॥ श्रीमणिबुद्ध्याणंद हर्ष कर्पूरामृतसूरिभ्यो नमः । नवाङ्गवृत्तिकार श्रीमदभयदेवसूरीश्वररचिता प्रज्ञापनोपाङ्ग-तृतीयपद संग्रहणी ( श्रवचूरिभूषिता ) संपादक : संशोधकश्च तपोमूर्ति पूज्याचार्यदेव श्रीविजयकर्पूरसूरीश्वर पट्टधरहालारदेशोद्धारक - पूज्याचार्यदेव श्रीविजयामृतसूरीश्वर-पट्टधरः पूज्याचार्यदेव श्री विजय जिनेन्द्रसूरीश्वरः सहायकः पूज्याचार्यदेवश्री विजय जिनेन्द्रसूरीश्वर सुपदेशेन मुंबई चोपाटीस्थः श्री कल्याणपार्श्वनाथ जैन सङ्घः । प्रकाशिका श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल - शांतिपुरी (सौराष्ट्र) मुद्रक :- गौत्तम आर्ट प्रिन्टर्स नेहरु गेट बाहर, ब्यावर "☺☺☺☺ j;;" * Page #2 -------------------------------------------------------------------------- ________________ 1000 ... श्री हर्षपुष्पामृत जैन ग्रन्थमाला ग्रन्थाक: १९३ ॥ श्री महावीरजिनेन्द्राय नमः ॥ श्रीमणिबुद्ध्याणंदहर्ष कर्पूरामृतसूरिभ्यो नमः । नवाङ्गवृत्तिकार श्रीमदभयदेवसूरीश्वररचिता प्रज्ञापनोपाङ्ग-तृतीयपद संग्रहणी ( श्रवचूरिभूषिता ) संपादक : संशोधकश्च तपोमूर्ति पूज्याचार्यदेव श्रीविजयकर्पू रसूरीश्वर - पट्टधरहाला रदेशोद्धारक - पूज्याचार्यदेव श्रीविजयामृतसूरीश्वर पट्टधरः पूज्याचार्यदेव श्री विजय जिनेन्द्रसूरीश्वरः सहायक: पूज्याचार्यदेवश्री विजय जिनेन्द्रसूरीश्वर - सुपदेशेन मुंबई चोपाटीस्थ : श्री कल्याणपार्श्वनाथ जैन संङ्गः । प्रकाशिका श्री हर्षपुष्पामृत जैन ग्रन्थमाला लाखाबावल - शांतिपुरी ( सौराष्ट्र ) मुद्रक :- गौत्तम श्रार्ट प्रिन्टर्स नेहरु गेट बाहर, ब्यावर * Page #3 -------------------------------------------------------------------------- ________________ प्रकाशिकाश्री हर्षपुष्पामृत जैन ग्रन्थमाला ( लाखाबावल ) ___c/o श्रुत ज्ञान भवन ४५ दिग्विजय प्लोट जामनगर ( सौराष्ट्र ) वीर सं० वि. सं... सन् प्रथमावृत्तिः २५१५ २०४५ . १९८६ प्रतयः ७५० . आभारदर्शन अमारी ग्रन्थमाला तरफथी प्राचीन साहित्यप्रकाशन योजनामा श्री प्रज्ञापनोपाङ्ग-तृतीयपद संग्रहणी प्रगट करतां आनंद अनुभवीए छाए-तेनु संपादन हालारदेशोद्धारक पूज्याचार्यदेव श्री विजयअमृतसूरीश्वरजी महाराजाना पट्टधर पूज्याचार्यदेव श्रीविजयजिनेन्द्रसूरीश्वरजी महाराजे कयु छे. तेश्रोश्रीना उपदेशथी आ ग्रन्थ मुंबइ चोपाटी श्री कल्याणपार्श्वनाथ जैन संघ तरफथी प्रगट करीए बीए श्री चोपाटी कल्याणपार्श्वनाथ श्री संघनो सहकार माटे आभार मानीए छोए. महेता मगनलाल चत्रभुज ता० २-६-८६ शाकमारकेट सामे जामनगर व्यवस्थापक : श्री हर्षपुष्पामृत जैन ग्रन्थमाला ॥ शुद्धिपत्रकम् ॥ पृष्ठं पंक्तिः शुद्धम् २४ १७ गर्भव्यूत्क्रांतिकेषु ४३ ११ पञ्चेन्द्रिय ४६ १० . समुद्घातेन ७१ ४ सामान्यतस्तिर्यञ्चो Page #4 -------------------------------------------------------------------------- ________________ ॥अहम् ।। पू० प्रा० श्रीविजयभुवनतिलकसूरिभ्यो नमः । नवांङ्गवृत्तकारश्रीमदभयदेवसूरीश्वररचिता प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी। ( अवचूरिभूषिता) दिसि १ गइ २ इंदिय ३ काए ४, .. . जोए ५ वेए ६ कसाय ७ लेसा य ।' सम्मत्त ९ नाण १० दसण ११ संजम १२ उवओग १३ आहारे १४ ॥१॥ भासग १५ परित्त १६ पज्जत्त १७ सुहम .. १८ सन्नी १९ भवि (भव) २० ऽथिए २१, चरिमे २२ जीवे य २३ खित्त २४ बंधे २५ पुग्गल २६ महदंडए २७ चेव ॥२॥ ___'परित्त' इति परीताः प्रत्येकशरीरिणः शुक्लपाक्षिकाच तद् द्वारम् १६ । 'भवि' इति भवसिद्धिकद्वारम् २० । अस्तीति अस्तिकायद्वारम् २१ । एतैर्दिग्विभागादि २७ द्वारैः पृथिव्यादीनामन्पबहुत्वादिनिरूपणाय द्वारसंग्रहगाथाद्वयम् ॥१-२॥ रुयगा पच्छिमपुव्वा दाहिणओ उत्तरेण जहसंखं । थोवा पहुआ बहुतर बहुतमगा हुंति जीपाओ॥३॥ Page #5 -------------------------------------------------------------------------- ________________ जत्थ व (ज) णं तत्थ जिया, बहुया तं पुण जलस्स निस्साए । ता जत्थ जलं थोवं तत्थ, उ जीवा उ थोवयरा ॥ ४ ॥ पुव्वावसु चंदिमरविदीवा अस्थि तेण जलमप्पं । गोयमदीवो अवराइ अस्थि तं तेण अप्पयरं ॥ ५ ॥ तिर्यग्लोकमध्यगतादष्टप्रदेशाद् रुचकात् 'अठ्ठपएसो रुगो' । इदं ह्यल्पबहुत्वं बादरानधिकृत्य न सूक्ष्माँस्तेषां सर्वलोकापन्नत्वेन प्रायः सर्वत्रापि समत्वात् || ३ || जलेऽवश्यं पनक सेवालादीनां भावात् । ते च पनकादयो बादरनामकर्मोदयेऽपि अत्यन्त सूक्ष्मावगाहनत्वादतिप्रभूतपिण्डीभावाच्च सर्वत्र सन्तोऽपि न चक्षुषा ग्राह्याः || ४ || समुद्रेषु प्रत्येकं प्राचीप्रतीचीदिशोर्यथाक्रमं चन्द्रसूर्यद्वीपाः । ' लवणसमुद्राधिपसुस्थितदेवावासभूतो गोतमद्वीपः प्रतीच्यामधिकः ॥ ५ ॥ चंदाइदीवविरहाउ दाहिणे होइ बहुतरं तोयं । तत्तो य उत्तरेणं माणससरसंभवा बहुयं ॥ ६ ॥ बारस य सहस्साइं वित्थरओ जोयणाण लवणजले । अस्थि ह गोयमदीवो उच्चो छावत्तरसहस्सं ॥ ७ ॥ १. इतः प्राक् 'यत्र द्वीपा : तत्रोदकाभावः, तस्याभावाद्वनस्पतेरभावः । केवल' इत्यधिक क्वचित् । Page #6 -------------------------------------------------------------------------- ________________ 'जोयण कोडी 'उण संख्या उ विक्खंभदीहरतेहिं । माणससरत्थि दीवंमि बाहिरे उत्तराइ तहा ॥ ८ ॥ एवं जलवणविगला तेरिच्छिपणिंदिया य बोधव्वा । सव्वेसिमेसि मेवं पभूयउप्पायसंभवओ ॥ ९॥ जम्माइ पुढवि थोवा विसेसअहिया उ होइ उत्तरओ । ततो वि हु पुव्वेणं तत्तो वि य होइ पच्छिमओ ॥ १०॥ सुसिरे थोवा पुढवी घर्णमि बहुग त्ति तेण दाहिणओ । भवणाणं बहुयत्ता उत्तरओ भवणथोवत्ता ॥ ११ ॥ संख्येययोजनेषु द्वीपेषु मध्ये कस्मिश्चिद्वीपे ॥ ८ ॥ दक्षिणस्यां बहूनि भवनपतीनां भवनानि बहवो नरकावासास्ततः शुषिरप्राभूत्यम् ॥ ११ ॥ चंदाइदीवभावा पुवाए पच्छिमे वि तब्भावा । गोयमदीवो य तहा पुढवि जहुत्ता भवे एवं ॥ १२ ॥ यावन्तो रविशशिद्वीपाः पूर्वस्यां दिशि तावन्तः पश्चिमायामपि तत एतावता साम्यम् परं लवणसमुद्रे गौतमद्वीपः पश्चिमायामधिकोऽस्ति, तेन विशेषाधिकाः । ननु यथा , १. संख्येययोजनकोटाकोटी प्रमाणमित्यर्थः । २. 'पुण' इत्यपि । ३. इतोऽग्रे क्वचित्पुस्तके -- "आयाम विष्कम्भाभ्यां संख्येययोजनकोटीप्रमाणं मानसनाम सरोऽस्ति" इत्यधिकम् । ४. क्वचित्“प्राभूत्यसंभवाद्दकं स्तोकम्" इत्यधिकम् । Page #7 -------------------------------------------------------------------------- ________________ पश्चिमायाँ गौतमद्वीपोऽभ्यधिकः समस्ति तथा तस्यामधोलौकिकग्रामा अपि योजनसहस्त्रावगाहाः सन्ति, ततः खातपूरितन्यायेन तत्र तुल्या एव पृथिवीकायिकाः प्राप्नुवन्ति न विशेषाधिकाः । नैवम् , यथाऽधोलौकिकामावगाहो योजनसहस्रम्, गौतमद्वीपस्य पुनः षट्सप्सत्यधिकं योजनसहस्रमुच्चैस्त्वम् । विष्कम्भस्तस्य द्वादशयोजनसहस्राणि, ततो यद्यघोलौकिकग्रामच्छिद्रेषु बुद्धया गौतमद्वीपः प्रक्षिप्यते तथापि समधिक एव प्राप्यते न तुल्य इति ॥१२॥ तेऊ १ मणया २ सिद्धा ३, उत्तर १ जम्मासु २ हुँति थोष त्ति । पुव्वाए संखगुणा अवरेण पुण विसेसहिया ॥१३ ।। पायारंभा मणुया ते पुण थोवा दिसादुगे हुंति । भरहाइसु खित्तस्सप्पभावओ ते उ ता थोवं ॥ १४॥ ___'तेऊ सुगमा ॥१३॥ दक्षिणस्यां पञ्चसु भरतेषु उत्तरस्यां पश्चस्वैरवतेषु क्षेत्रस्याल्पत्वात् स्तोका मनुष्याः, तेषां स्तोकत्वेन तेजस्कायिका अपि स्तोका अल्पपाकारम्भसंभवात् । ततः स्तोका दक्षिणोत्तरयोर्दिशोस्तेजस्कायिकाः । स्वस्थाने तु प्रायः समानाः ॥ १४ ॥ Page #8 -------------------------------------------------------------------------- ________________ खित्तबहुत्तेण विदेहवासिणो हुंति बहुतरा पुरिसा। अवरेण अहोलोइयगामेसु बहुत्तमा हुंति ॥ १५ ॥ तम्हा तेऊ मणुया, सिद्धा विहु हुँति भणियपरिमाणा। . मणुयगईए सिडा, . हवंति जं तेण मणुयसमा ॥ १६ ॥ इह मनुष्या एव सिध्यन्ति नान्ये । मनुष्या अपि सिध्यन्तो येवाकाशप्रदेशेविह चरमसमयेऽवगाढास्तेष्वेवाकाशप्रदेशेपूर्ध्वमपि गच्छन्ति तेष्वेव चोपर्यवतिष्ठन्ते, न मनागपि वङ्क गच्छन्ति सिध्यन्ति वा, इत्यतो मनुष्यसमत्वं सिद्धानामल्पबहुत्वमाश्रित्य । अयमर्थः-यस्यां दिशि मनुष्याः स्तोकास्तस्यां सिद्धा अपि स्तोकाः, यस्यां, दिशि मनुष्या अधिकास्तस्यां सिद्धा अप्यधिकाः ॥ १६ ॥ वाऊ १ पंतरदेवा २, पुव्वेण १ ऽवरेण २ उत्तरेणं ३ तु । दाहिणओ ४ य कमेणं थोवा १, बहु २ बहुग ३ बहुग ४ त्ति ॥१७॥ सुसिरंमि होइ वाऊ घणंमि सो नत्यि तेण पुवाए । सुसिरअभावा वाऊ थोवो तह वंतरसुरा य ॥१८॥ Page #9 -------------------------------------------------------------------------- ________________ अवराइ विसेसहिओ अहलोयगामसंभवा वाऊ । तत्तो वि उत्तराए भवणच्छिड्डाण बहुयत्ता ॥ १९ ॥ तत्तो वि दाहिणेणं बहुतरओ भवणछिदुबहुयत्ता | दाहिणभवणाणि जओ बहुयाई उत्तरेहिंतो ॥ २० ॥ उत्तरदिगपेक्षया दक्षिणस्यां निकाये निकाये चतुश्चतुर्लक्षभवनानां नरकावासानां चाधिकत्वात् बहूनां कृष्णपाक्षिकाणां जीवानां तत्रोत्पद्यमानत्वात् । तथा यत्र शुषिरं तत्र व्यन्तराः प्रचरन्ति यत्र घनं तत्र न इति तेऽपि यथोक्ता ज्ञातव्याः ।। १७-२० ॥ नेरइया अइथोवा दिसातिए हुति दाहिणेण पुणो । अस्संखगुणा तत्तो एवं चिय बंभलोयसुरा ॥ २१ ॥ सर्वस्तोकाः पूर्वोत्तरपश्चिमदिकाये नैरयिकाः, पुष्पावकीर्णनरकावासानां तत्राल्पत्वात् बहूनां प्रायः सङ्ख्येययोजनविस्तृतत्वाच्च । तेभ्यो दक्षिणदिग्भाविनोऽसङ्घयेयगुणाः, पुष्पावकीर्ण नरकावासानां तत्र बाहुल्यात् तेषां च प्रायोऽसङ्ख्येययोजनविस्तृतत्वात् कृष्णपाक्षिकाणां तस्यां दिशि प्राचुर्येणोत्पादाच्च । तथाहि - द्विविधा जन्तवः कृष्णपाक्षिकाः शुक्लपाक्षिकाश्च । उक्तं च - "जेसिमवड्डो पुग्गलपरियहो सेसओ य संसारो । ते सुक्कपक्खिया खलु अहिए पुण Page #10 -------------------------------------------------------------------------- ________________ किण्हपक्खीओ" ॥१॥ एवं ब्रह्मलोकसुरा अपि । यतः कृष्णपाक्षिकतिर्यग्योनीनां बहुत्वात् दिक्त्रयोत्पदिष्णुशुक्लपाक्षिकाणां स्तोकत्वात् ॥२१॥ नैरियिकाणां सामान्यतो दिग्विभागेनाल्पबहुत्वमुक्तम् । अथ सप्तम्यादिपृथिवीविभागेनाहअहसत्तमाइ दिसितियनेरइएहिं तआ असंखगुणा । दाहिणओ तेहिंतो छठीइ दिसातिउप्पन्ना ॥ २२ ॥ तेहिंतो दाहिणया असंखगुणिया उ हुंति छडीए । एएणेव कमेणं सव्वासु वि जाव रयणपहा ।। २३ ॥ . अधःसप्तमपृथिव्यां पूर्वोत्तरपश्चिमदिग्भाविनैरयिकेभ्यो दाक्षिणात्या असङ्खयेयगुणाः । तेभ्यः षष्ठपृथिवीपूर्वोत्तरपश्चिमनैरयिका असङ्खयेयगुणाः। कथम् ? सर्वोत्कृष्टपापकारिणः संज्ञिपञ्चेन्द्रियतियग्मनुष्याः सप्तमपृथिव्यामुत्पद्यन्ते, किश्चिद्धीनहीनतरपापकारिणश्च षष्ठयादिषु सर्वोत्कृष्टपापकारिणश्च स्तोकाः, बहवश्व हीनहीनतरपापकारिणः । ततो युक्तमसङ्खयेयगुणत्वं सप्तमपृथिवीदाक्षिणात्यनारकेभ्यः षष्ठपृथिव्यां दिकत्रयभाविनारकाणाम् । एवमुत्तरोत्तरपृथिवीरधिकृत्य भावयितव्यम् ॥ २२ ॥ २३ ॥ दाहिणया नेरइया असंखगुणिया य थोवया अण्णे । ते पावाओ तह किन्ह पक्खियत्तेण जं हुंति ॥ २४ ॥ Page #11 -------------------------------------------------------------------------- ________________ कृष्णापाक्षिका दीर्घतरसंसारभाजिन उच्यन्ते । दीर्घतरसंसारभाजिनश्च बहुपापोदयाः स्युः। ते च क्रूरकर्माणः । ते च प्रायस्तथास्वाभाव्यात् तद्भवसिद्धिका अपि दक्षिणस्यां दिशि समुत्पद्यन्ते न शेषासु दिनु। यदुक्तम्-"पायमिह कूरकम्मा भवसिद्धीयावि दाहिणिल्लेसु । नेरइयतिरियमणुयासुराइठाणेसु गच्छंति ॥ १ ॥” ततो दक्षिणस्यां बहूनां कृष्णपाक्षिकाणामुत्पादात्पूर्वोक्तकारणद्वयाच्च संभवन्ति पूर्वोत्तरपश्चिमदिग्भाविभ्यो दाक्षिणात्या असङ्खयेयगुणाः॥ २४ ॥ 'तह किन्हपक्खतिरिया उववज्जे दाहिणेण ते बहुया। इयरा उत्तरओ तो जहउत्ता धमलोयसुरा ।। २५ ।। ... ब्रह्मलोककल्पे सर्वस्तोकाः पूर्वोत्तरपश्चिमदिग्भाविनो देवा, यतो बहवः कृष्णपाक्षिकास्तियग्योनयो दक्षिणस्यामुत्पद्यन्ते, शुक्लपाक्षिकाश्च स्तोका इति. शेषदिक्त्रयभाविनः स्तोकाः । तेभ्यो दक्षिणस्यां सङ्ख्येयगुणाः ॥२५॥ भवणवई १ सोहम्मा २, थोवा पुव्वावरेण उत्तरओ। अस्संखा दाहिणओ कम सोऽसंखिज्ज १ अहिया २ य ॥ २६ ॥ १. "जं किण्हप०" इत्यपि पाठः । Page #12 -------------------------------------------------------------------------- ________________ पुव्वावरासु भवणा थोवा बहुया उ उत्तराइ तओ। दाहिणओ बहुतरया भवणवई तो 'जहुत्त त्ति ॥२७॥ आवलियठिया तुल्ला सव्वदिसासु सुहम्मसुरभवणा। पुप्फावकिन्नगा पुण बहुतरया दाहिणुत्तरओ॥ २८ ॥ तेण जहुत्ता देवा सोहंमा जं पुणिस्थ दाहिणओ। अहिगयरत्तीतं पुण दाहिणगामि त्ति किण्हजिया ॥२९ - आवलिकाप्रविष्टानि विमानानि चतसृष्वपि दिक्षु तु. ल्यानि । यानि पुनः पुष्पावकीर्णानि तानि प्रभूतान्यसङ्खयेययोजनविस्तृतानि । तानि च दक्षिणस्यामुत्तरस्यां च नान्यत्र । ततः सर्वस्तोकाः पूर्वापरभाविनः सौधर्मदेवाः । तेभ्य उत्तरस्यामसङ्ख्येयगुणाः, असङ्खयेययोजनविस्तृतपुष्पावकीर्णानां बाहुल्यात् । तेभ्यो दक्षिणस्या विशेषाधिकाः, कृष्णपाक्षिकाणां प्राचुर्येण तत्र गमनात् । भवनपतयोऽप्युत्तराभाविभ्यो दक्षिणस्यामङ्खयेयगुणाः, तत्र भवनानामतीवबाहुल्यात् । यतस्तत्र प्रतिनिकायं चत्वारि भवनानां लक्षाण्यतिरिच्यन्ते कृष्णपाक्षिकाणां बहूनां तत्रोत्पादाच । अतः क्रमशो भवनपतिसौधर्मा उत्तराभाविभ्यो दक्षिणस्यामसङ्ख्यया अधिकाश्च भवन्ति ॥ २६-२६ ॥ ९. "जहन्नु त्ति-जुहुत्तु त्ति" इत्यपि पाठः । Page #13 -------------------------------------------------------------------------- ________________ पुव्वावरासु थोवा जोइसिया दाहिणे विसेसहिया । तत्तो विसेसअहिया उत्तरओ हुंति जोइसिया ॥३०॥ जोइसिया दाहिणो बहुतरगा किण्हपक्खिउप्पाया। माणससरम्मि कीडत्थमागया उत्तरि त्ति बहू ॥३१॥ उप्पाया उ तदुभवविहिय नियाणाण मच्छजीवाण । पुवावरासु ते पुण अइथेवा पारिसेसा उ ॥ ३२ ॥ ... सर्वस्तोका ज्योतिकाः पूर्वस्यामपरस्यां च, चन्द्रादित्यद्वीपेषधानकल्पेषु कतिपयानामेव तेषां भावात् । तेभ्योऽपि दक्षिणस्यां विशेषाधिकाः, विमानबाहुल्यात्कृष्णपाक्षिकाणां तदिग्भावित्वाच्च । तेभ्योऽप्युत्तररयां विशेषाधिकाः, यतो मानसे सरसि बहवो ज्योतिष्काः क्रीडाव्यावृत्ता नित्यमासते, मानससरसि च ये मत्स्यादयो जलचरास्ते आसन्नविमानदर्शनतः समुत्पन्नजातिस्मरणाः किश्चिद्वतं प्रतिपद्यानशनादि च कृत्वा कृतनिदानास्तत्रोत्पद्यन्ते ॥ ३०-३२ ॥ सोहंमे इव तदुवरि तिगंमि बंभे व जा सहस्सारो। तेण परं जे देवा बहुसम उववन्नया ते उ ॥ ३३ ॥ उप्पज्जति नरा एव जेण तेसं ति तो जहुत्ता ते । उक्कमभणणं पुढवाइयाणमिह लाघवस्थित्ति ॥३४॥ . || दारं ॥ Page #14 -------------------------------------------------------------------------- ________________ ११ सौधर्म इव तदुपरि त्रिके ईशानसनत्कुमारमाहेन्द्ररूपे भावना । ब्रह्मलोक इव लान्तक्शुक्रसहस्रारेषु भावना कार्या ॥ ३३ ॥ ततः परमानतादिषु पुनर्मनुष्या एवोत्पद्यन्ते तेन प्रतिकल्पं प्रतिवेयकं प्रत्यनुत्तरविमानं च चतसृषु दिक्षु प्रायो बहुसमा वेदितव्याः । क्रमन्तु पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुरिन्द्रियनरकसप्तमपृथिवीपञ्चेन्द्रियतिर्यग्मनुष्य भवनपतिव्यन्तरज्योतिष्कसौधर्मादिदेवसिद्धरूपः प्रज्ञापनातृतीयपदोक्तः ॥ ३४ ॥ द्वारम् १॥ नर १ नेरइया २ देवा ३, सिद्धा ४ तिरिया ५ जहुत्तरं नेया। थोषा १ दुन्नि ३ असंखा अणंतगुणिया ४ अणंतगुणा ५॥ ३५ ॥ सर्वस्तोका मनुष्याः, षण्णवतिच्छेदनकछेद्यराशिप्रमाणत्वात् १ । तेभ्यो नैरयिका असङ्खयेयगुणाः, अङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि प्रथमवर्गमूले द्वितीयवर्गमूलेन गुणिते यावान्प्रदेशराशिर्भवति तावत्प्रमाणासु धनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणत्वात् २ । तेभ्यो देवा असङ्खयेयगुणाः, व्यन्तराणां ज्योतिष्काणां च प्रत्येकं प्रतरासङ्ख्येयभागवर्तिश्रेणिगताकाशप्रदेशराशिप्र.. माणत्वात् ३ । तेभ्यः सिद्धा अनन्तगुणाः, अभव्येभ्योऽनन्त Page #15 -------------------------------------------------------------------------- ________________ गुणत्वात् ४ । तेभ्यस्तियग्योनिका अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ५ ॥३५॥ नारी १ नर २ नेरइया ३, तेरिक्खी ४ सुर ५ सुरी ६ सिवा ७ तिरिया ८ । थोवा १ चउर ५ असंखा, संखगुणा ६ दो ८ अणंतगुणा ॥ ३६ ॥ नारीण असंखगुणा, . मणुया जवनिया तदित्थमहो। संमुच्छिमगहणाओ, न विवक्खा संढवेयंमि ॥३७॥ दारं २॥ नार्यो मनुष्यस्त्रियः स्तोकाः, सङ्खधेयकोटीकोटीप्रमाणत्वात् १। ताम्यो 'नर'इति मनुष्या अङ्खयेयगुणाः। इह मनुष्या इति संमूर्छनजा अपि गृह्यन्ते, वेदस्याविवक्षणात् । ते च संमूर्छनजा. वान्तादिषु नगरनि मनान्तेषु जायमाना असङ्खयेयगुणाः प्राप्यन्ते २। तेभ्यो नैरयिका असङ्खयेय. गुणाः, मनुष्या ह्युत्कृष्टपदेऽपि श्रेण्यसङ्खथेयभागगतप्रदेशराशिप्रमाणा लभ्यन्ते । नैरयिकास्त्वगुलमात्रक्षेत्रप्रदेशराशिसत्कतृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशप्रदेशराशिप्रमाणाः, अतो भवन्त्यसङ्खयेयगुणाः ३ । तेभ्यस्तिर्यकस्त्रियोऽसङ्खथेयगुणाः, प्रतरासङ्घयेयभागवय॑सङ्खथेयश्रेणिनमः Page #16 -------------------------------------------------------------------------- ________________ प्रदेशराशिप्रमाणत्वात् ४। तेभ्योऽपि देवा असङ्ख्यगुणाः, प्रतरासङ्खयेयभागव_सङ्खयेयश्रेणिगतप्रदेशराशिमानत्वात् ५। तेभ्योऽपि देव्यः सङ्खयेयगुणाः, द्वात्रिंशद्गुणत्वात् ६ । ताभ्यः 'सिवा' इति सिद्धा अनन्तगुणाः, अभव्यानन्तगुणत्वात् ७। तेभ्योऽपि तियग्योनिका अनन्तगुणाः ॥ ३६ ॥३७॥ द्वारं २॥ पण १ चउ २ ति ३ दु४ अक्खाणिं. दिया ५ य एगिदिया ६ य सिंदियया ७ । थोवा १ तिनि ४ समहिया, - दुन्नि ६ अणंता विसेसहिया ७॥ ३८ ॥ एगिदिएसु सेसगपक्खेवा सिंदिया विसेसहिया। सह इंदिएहिं जम्हा सइंदिया ते अ 'सव्वजिआ ॥३९ __सर्वस्तोकाः पञ्चेन्द्रियाः, सङ्खयेययोजनकोटीकोटीप्रमाणविष्कम्भसूचीप्रमितायाः प्रतरासङ्खयेयभागवर्तिन्योऽसङ्ख्येयश्रेण्यस्तद्गताकाशप्रदेशराशिप्रमाणत्वात् १ । तेभ्यश्चतुरिन्द्रिया विशेषाधिकाः, तेषां विष्कम्भसूच्याः प्रभृतसङ्ख्येययोजनकोटीकोटीप्रमाणत्वात् २ । तेभ्योऽपि त्रीन्द्रिया विशेषाधिकाः, तेषां विष्कम्भवच्याः प्रभूततरसङ्खयेययोजनकोटीकोटीमान १. सिद्धवर्जाः इत्यर्थः । Page #17 -------------------------------------------------------------------------- ________________ १४ त्वात् ३ । तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तद्विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटी कोटीमानत्वात् ४ । तेभ्योनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् ५ । तेभ्योऽप्येकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ६ । तेभ्यः सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ७ ॥ ३८ ॥ ३६ ॥ पज्जत्ता चउकरणा थोवा पंचिंदिया विसेसहिया | बेइंदिया उ तत्तो तत्तो तेइंदिया अहिया ॥ ४० ॥ सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्ताः, यतस्तेऽल्पायुषोऽतः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते । ते च प्रतरे यावन्ङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणा ज्ञातव्याः । तेभ्यः पञ्चेन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूतप्रतराङ्गुलसङ्ख्येयभागमात्रखण्डप्रमाणत्वात् । , तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतरा'गुलसङ्खयेयभागखण्डमानत्वात् । तेभ्योऽपि त्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव प्रभूततमप्रतराङ गुलसङ्ख्येयभाग खण्डमानत्वात् ॥ ४० ॥ तेहिंतो पंचक्खा असंखगुणिया भवंत पज्जन्ता । चउकरण विसेसहिया तत्तो तिकरण दुकरणा य ॥ ४१ Page #18 -------------------------------------------------------------------------- ________________ ततस्त्रीन्द्रियपर्याप्तेभ्योऽपर्याप्ताः पञ्चेन्द्रिया असङ्खयेयगुणाः, एकस्मिन् प्रतरे यावन्त्यगुलासङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात् । तेभ्योऽपर्याप्तचतुरिन्द्रयाः, तेभ्यस्त्रीन्द्रिया अपर्याप्ताः, तेभ्योऽपर्याप्ता द्वीन्द्रियाः यथोत्तरं विशेषाधिका वाच्या; प्रभूतप्रभूततरप्रभूततमप्रतराङगुलासङ्खयेयभागखण्डप्रमाणत्वात् ।। ४१ ॥ एगक्ख अपज्जत्ता अर्णतगुण सिंदिया य तेहहिया। पज्जत्ता एगखा संखिज्जा सिंदिआ अहिया ॥४२।। . तेभ्य एकेन्द्रिया अपर्याप्ता अनन्तगुणाः, वनस्पतिकायिकानामपर्याप्तानामनन्ततया सदा प्राप्यमाणत्वात् । तेभ्यः सेन्द्रिया अपर्याप्ता विशेषाधिकाः, द्वीन्द्रियादीनामप्यपर्यासानां तत्र प्रक्षेपात् । तेभ्यः पर्याप्ता एकेन्द्रियाः सङ्खयेयगुणाः। तेभ्यः सेन्द्रियाः पर्याप्ता विशेषाधिकाः ॥ ४२ ॥ एतद्गाथात्रयोक्तभावनाय गाथाचतुष्कमाहअप्पाउ चउकरणा पज्जत्ता ते चिरं न जीवंति । तेण पणिंदियपज्जत्तयाण थेव त्ति ते भणिया ॥४३॥ तेइंदियाण ते पुण थोवा बेइंदिय त्ति पज्जत्ता। तत्थ न वुत्ता जुत्ती वित्तीफारेण किं भणिमो ॥४४॥ एगिदिय अपज्जत्ता थोवा पज्जत्तया य संखगुणा । सुहमे पडुच्च एयं इयरे बहुया अपज्जत्ता ॥४५॥ Page #19 -------------------------------------------------------------------------- ________________ १६ जं भणियं पज्जत्तयनिस्साए वक्कमंतपज्जत्ता । जत्थेगो पज्जत्तो तत्थ असंखा अपज्जन्ता ॥ ४६ ॥ दारं ३ || थोवा १ य असंखगुणा २, तिनि य अहिया ५ अनंत ७ दो अहिया । तस १ ते २ पुढवि ३ आऊ ४, वाउ ५ अकाया ६ तरु ७ सकाया ८ ||४७ || सर्वस्तोकाखसकायिकाः, द्वीन्द्रियादीनामेव त्रसकायिकत्वात् तेषां च शेषकायापेक्षयाऽत्यल्पत्वात् १ । तेभ्यस्तेजस्कायिका असङ्ख्य गुणाः, असङ्ख्थेयलोकाकाशप्रदेशप्र माणत्वात् २ । तेभ्यः पृथिवी कायिकाः, तेभ्योऽष्कायिकाः, तेभ्यो वायुकायिका यथोत्तरं प्रभूतप्रभूततरप्रभूततमासङ्ख्येयलोकाकाशप्रदेश मानत्वाद्विशेषाधिकाः ५ । तेभ्योऽकायिका अनन्तगुणाः, सिद्धानामनन्तत्वात् ६ । तेभ्यो वनस्पतिकायिका अनन्तगुणाः, अनन्तलोकाकाशप्रदेशराशिमानत्वात् ७ । तेभ्यः सकायिका विशेषाधिकाः, पृथिव्यादीनामपि तत्र प्रक्षेपात् ८ ॥ ४७ ॥ ओघेनोक्तं कायिकानामल्पबहुत्वम् । इदानीं विशेषेणाह थोवा तेऊ बायर पज्जत्ता १ ते तओ त एव तसा २ । अपज्जत्ता य तसा ३ पज्जत्ता तह परित्ततरू ४ ॥४८ Page #20 -------------------------------------------------------------------------- ________________ निग्गोय ५ भू ६ जला ७, मिल ८ अप्पज्जन्त्तागणी ६ परिततरू १० । निग्गोय ११ भू १२ जला १३ मिल १४, सुमाऽगणिणो १५ असंखगुणा ॥ ४९ ॥ तत्तो य अपज्जत्ता सुहुमा भू १६, जल १७ समीरणा १८ अहिया । तेऊ पज्जत्ता संखगुणा १९ भू २०, जल २१ निला २२ अहिया ॥ ५० ॥ अप्पज्जत्त निगोया २३, 'असंवगणिया त एव पज्जन्ता २४ । १७ संविज्जगुणा वायर पज्जन्त्तवणा २५ अनंतगुणा ।। ५१ ।। बायरपज्जत्त जिया २६, अहिया तरु २७ बायरा अपज्जन्ता । अस्संखगुणा बायर अप्पज्जन्त्ता जिया २८ अहिया ॥ ५२ ॥ तरु २९ अपजत्ता सुहुमा, असंख सुहमा ३० हिया अपज्जन्ता । सुहुमा तक ३१ पज्जन्ता संखाहिय सुहुम ३२ पज्जन्ता ।। ५३ ।। दारं ४ | १. "अस्संखगुणा" इत्यपि । Page #21 -------------------------------------------------------------------------- ________________ सर्वस्तोका बादरतेजस्कायिकाः पर्याप्ताः, आवलिकासमयवर्गे कतिपयसमयन्यूनरावलिकासमयैर्गुणिते यावान समयराशिस्तावत्प्रमाणत्वात् तेषाम् १ । तेभ्यो बादरत्रसकायिकाः पर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्य गुलसङ्खयेयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् २ । तेभ्यो बादरत्रसकायिका अपर्याप्ता असङ्खयेयगुणाः, प्रतरे यावन्त्यगुलासङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणत्वात्तेषाम् ३। ततः प्रत्येकबादरवनस्पतिकायिकाः ४ बादरनिगोदाः ५ बादरपृथिवीकायिकाः ६ बादराप्कायिकाः ७ बादरवायुकायिकाः ८ पर्याप्ता यथोत्तरमसङ्खयेयगुणाः। यद्यप्येते प्रत्येक प्रतरे यावन्त्यगुलासङ्ख्थेयभागमात्राणि खण्डानि तावत्प्रमाणास्तथाप्यङ् गुलासङ्खयेयभागस्यासङ्खयेयभेदभिन्नत्वादित्थं यथोत्तरमसङ्ख्यगुणत्वमभिधीयमानं न विरुध्यते ८ । तेभ्यो बादरतेजस्कायिका अपर्याप्ता असङ्खयेय गुणाः, असङ्खयेयलोकाकाशप्रदेशप्रमाण त्वात् ह । ततः प्रत्येकशरीरबादरवनस्पतिकायिकाः १० बादरनिगोदाः ११ बादरपृथिवीकायिकाः १२ बादराप्कायिकाः १३ बादरवायुकायिकाः १४ अपर्याप्ता यथोतरमसङ्खयेय गुणाः। ततो बादरवायुकायिकेभ्योऽपर्याप्तेभ्यः सूक्ष्मतेजस्कायिका अपर्याप्ता असङ्खयेयगुणाः १५ । ततः सूक्ष्मपृथिवीकायिकाः १६ सूक्ष्मा कायिकाः १७ सूक्ष्मवायुकायिकाः १८ अपर्याप्ता यथोत्तरं विशेषाधिकाः। ततः Page #22 -------------------------------------------------------------------------- ________________ सूक्ष्माः पर्याप्तास्तेजस्कायिकाः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघत एव सङ्खयेयणगुणत्वात् १६ ततः सूक्ष्मपृथिवीकायिकाः २० सूक्ष्माप्कायिकाः २१ सूक्ष्मवायुकायिकाः २२ पर्याप्ता यथोत्तरं विशेषाधिकाः । तेभ्यः सूक्ष्मनिगोदा अपर्याप्ता असङ्खयेयगुणाः, तेषामपि प्राभूत्येन लोके सर्वस्मिन भावात् २३ । तेभ्यः सूक्ष्मनिगोदाः पर्याप्तकाः सङ्खयेयगुणाः, सूक्ष्मेष्वपर्याप्तेभ्यः पर्याप्तानामोघत एव सदा सङ्खयेयगुणत्वात् । एते च बादरापर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यवसानाः षोडश पदार्था यद्यप्यन्यत्राविशेषेणासङ्खयेयलोकाकाशप्रदेशप्रमाणतया संगीयन्ते, तथाप्यसङ्खयेयत्वस्यासङ्ख्येयमेदभिन्नत्वादित्थमसङ्खयेयगुणत्वं विशेषाधिकत्वं सङ्ख्येयगुणत्वं विशेषाधिकत्वमसङ्खयेयगणत्वं सङ्खये गुणत्वं प्रतिपाद्यमानं न विरोधभागिति २४ । तेभ्यः पर्याप्तसूक्ष्मनिगोदेभ्यो बादरखनस्पतिकायिकाः पर्याप्ता अनन्तगुणाः, प्रतिवादरैककनिगोदमनन्तजीवानां भावात् २५ । तेभ्यः सामान्यतो बादरपर्याप्ता विशेषाधिकाः, बादरपर्याप्ततेजस्कायिकादीनामपि तत्र प्रक्षेपात्' २६ । तेभ्यो बादरवनस्पतिकायिका अपर्याप्तका असङ्खयेयगुणाः, एकैकपर्याप्तबादरनिगोदनिश्रयाऽसङ्ख्येयानां बादरनिगोदापर्याप्तानामुत्पादात् २७। तेभ्यः सामान्यतो बादरापर्याप्तका विशेषाधिकाः, बादरतेजस्कायिकादीनामप्यपर्याप्तानां तत्र प्रक्षेपात् २८। तेभ्यः Page #23 -------------------------------------------------------------------------- ________________ सामान्यतो बादरा विशेषाधिकाः, पर्याप्तानामपि तत्र प्रक्षेपात् । इदं चात्र संग्रहिण्यामसंगृहीतमपि सूत्रोक्तत्वाइम्यम् २६ । तेभ्यः सूक्ष्मवनस्पतिकायिका अपर्याप्ता असङ्खयेयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामपर्याप्तानामप्यसवयेयगुणत्वात् ३० । ततः सामान्यतः सूक्ष्मापर्याप्तका विशेषाधिकाः, सूक्ष्मपृथिवीकायिकादीनामप्यर्याप्तकानां तत्र प्रक्षेपात् ३१ । तेभ्यः सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खधेयगुणाः, सूक्ष्मवनस्पतिकायिकापर्याप्तेभ्यो हि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्खथेयगुणाः सूक्ष्मेष्वोधतोऽपर्याप्तेभ्यः पर्याप्तानां सङ्खथेयगुणत्वात् । तेन सूक्ष्मापर्याप्तेभ्योऽपि सूक्ष्मवनस्पतिकायिकाः पर्याप्ताः सङ्ख्येयगुणाः विशेषाधिकत्वस्य सङ्ख्य यगु णत्वबाधनायोगात् ३२ । तेभ्यः सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ३३ । ततः सामान्यतः सूक्ष्माः पर्याप्तापर्याप्तविशेषणरहिता विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात् । एतेऽप्यत्रासंगृहीता सूत्रोक्तत्वाल्लिखिताः ३४॥४८-५३॥ द्वारम् ॥४॥ मणजोगीण असंखा वयजोगि अजोगिणो अणंतगुणा। तणुजोगिणो अणंता विसेसअहिया सजोगि त्ति ॥५५ ।। . Page #24 -------------------------------------------------------------------------- ________________ २१ जड वि निगोयजियाणं णंताणोदीरिया तणू एगा । नह विहु कम्मणजोगा तणुजोगीणं अनंतत्तं ॥५५॥ केवलनणुजोगी मणवयजोगेहिं खित्तएहिं तु । हुति सजोगीजीवा पुच्चेहिंतो विसेसहिया ॥ ५६ ॥ दारं ५ ॥ 1 सर्वस्तोका मनयोगिनः । संज्ञिनः पर्याप्ता एव हि मनोयोगिनः, ते च स्तोका इति । तेभ्यो वाग्योगिनोऽसङ्घयेयगुणाः, द्वीन्द्रियादीनां वाग्योगिनां संज्ञिभ्योऽसङ्ख्यातगु णस्वात् । तेभ्योऽयोगिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । नेभ्यः काययोगिनोऽनन्ताः, वनस्पतिकायिकानामनन्तत्वात् । यद्यपि निगोदजीवानामनन्तानामेकं शरीरं तथापि तेनैकेन शरीरेण सर्वेऽप्याहारादिग्रहणं कुर्वन्तीति सर्वेषामपि काययोगित्वान्नानन्नगुणत्वव्याघात इति वृत्तिकारोक्तो हेतुः । तेभ्यः मामान्यतः सयोगिनो विशेषाधिकाः, द्वीन्द्रियादीनामपि वाग्योगिकादीनां तत्र प्रक्षेपात् ५ ।। ५४-५६ ।। द्वारम् ५ ।। पुरिसेहिंतो श्रीओ संखगुणा पंतया अवेया उ । संढा उ अतगुणा विसेसअहिया सवेया उ ॥ ५७ ॥ सर्वस्तोकाः पुरुषवेदाः, संज्ञिनामेव तिर्यग्मनुष्याणां देवानां च पुरुषवेदभावात् । तेभ्यः स्त्रीवेदाः सङ्ख्ये यगुणाः । अवेदका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो नपुं - Page #25 -------------------------------------------------------------------------- ________________ २२ सकवेदा अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगु णत्वात् । सामान्यतः सवेदा विशेषाधिकाः, स्त्रीवेदay वेदकानामपि तत्र प्रक्षेपात् ॥ ५७ ॥ पुरुषेभ्यः स्त्रीणां विशेषाधिकभावनायाहतिगुणा तिरूवअहिया तिरियाणां इत्थिया मुणेयव्वा । सत्तावीसगुणा पुण मणुयाणं तदहिया चेव ॥ ५८ ॥ बत्तीसगुणा बत्तीसरूवअहिया य तह य देवाणं । देवीओ इइ वत्तं सुत्ते जीवाभिगमनामे ॥ ५९ ॥ दारं ६ | अकसाई अइथोवा माणकसाई तओ अनंतगुणा । कोही माई लोही सकसाई तह विसेसहिया ॥ ६० ॥ गयरागा अकसाई तेणं ते अप्पय त्ति तेहिंतो । छक्काएसु वि भावा माणकसाई अनंतगुणा ॥ ६१ ॥ न उ सत्तामित्तणं सकसायित्तं इहं अहिप्पेअं । किंतु तहापरिणामो स हि माणे अप्पकालीणो ॥ ६२॥ सेसाणं परिणामो जह्नुत्तरं होइ बहुअकालीणो । तेण जह्रुतं सव्वं कसायसुत्तं तु निरवज्जं ॥ ६३ ॥ दारं ७ । Page #26 -------------------------------------------------------------------------- ________________ २३ अकषायिणोऽतिस्तोकाः, सिद्धानां कतिपयानां च मनुध्याणामकषायित्वात् । तेभ्यो मानकषायिणो मानकषायपरिणानवन्तोऽनन्तगणाः, षट्स्वपि जीवनिकायेषु मानकषायपरिणामस्यावाप्यमानत्वात् । तेभ्यः क्रोधकषायिणो विशेषाधिकाः तेभ्यो मायाकषायिणो विशेषाधिकाः। तेभ्योऽपि लोभकषायिणो विशेषाधिकाः, मानकषायपरिणामकालापेक्षया क्रोधादिकषायपरिणामकालस्य यथोत्तरं विशेषाधिकतया क्रोधादिकषायाणामपि यथोत्तरं विशेषाधिकत्वात् । लोभकषायिभ्यः सामान्यतः सकषायिणो विशेषाधिकाः, मानादिकषायाणामपि तत्र प्रक्षेपात् । सकषायिण इत्यत्रैवं व्युत्पत्तिः-सह कषायेण कषायोदयेन वर्तन्ते ते सकषायोदया:, विपाकावस्था प्राप्ताः कषायकर्मपरमाणवः। तेषु सत्सु जीवस्यावश्यं कषायोदयसंभवात् । सकषाया विद्यन्ते येषां ते सकषायिणः कषायोदयसहिता इत्यर्थः ॥ ६०-६३ ॥ द्वारम् ७॥ सुका १ पम्हा २ तेज ३, अल्लेसा ४ काउ ५ नील ६ किण्हा ७ य । थोवा १ दो संखगणा ३, दोऽणंता ५ दो विसेसहिया ७ ॥ ६४ ॥ इह लंतगाइदेघा कम्मगनरतिरिंगसंखवासाक। केर वि सुक्किललेसा थोवा तो सुक्कलेस त्ति ॥६५॥ Page #27 -------------------------------------------------------------------------- ________________ इत्तो उ पम्हलेसा बहुया जेणं तु लंनगाईणं। देवाणं संखगुणा सणंकुमाराइणो देवा ॥ ६६ ॥ चोएइ असंखगणा तेउलेसा कहं न हुज्जेह । ताराउ असंखगुणा भवणव ईण विजओ भणिया॥६७॥ किं पुण सणंकुमारगमाईदेवाण ते अकिल भणिया। तेऊलेसाइजुया एयं तु, न संगयं जम्हा ॥ ६८ ॥ लेमामुत्ते वुत्तं इत्थीणं. पम्हलेसजुत्ताणं। तेउलेसा इत्थी हवंति संखिजगुणियाओ ॥ ६९ ॥ तिरियाणं जोइसिया संखेयगणा य दंडए वुत्ता। ता कह पम्हगलेसाहितो तेऊ असंखगुणा ॥ ७० ॥ दारं ८। - सर्वस्तोकाः शुक्ललेश्याः, लान्तकादिष्वेवानुत्तरपर्यवसानेषु वैमानिकेषु देवेषु कतिपयेषु च गर्भव्युत्क्रान्तिषु कर्मभूमिकेषु सङ्घय यवर्षायुष्केषु मनुष्येषु तिर्यस्त्रीनपुसकेषु कतिपयेषु सङ्ख्य यवर्षायुप्केषु तस्याः संभवात् । तेभ्यः पद्मलेश्याकाः सङ्ख्य यगणाः, सा हि पद्मलेश्या सनत्कुमारमाहेन्द्रब्रह्मलोककल्पवासिषु देवेषु तथा प्रभृतेषु गर्भव्यतिक्रान्तिकेषु कर्मभूमिजेषु सङ्घय यवर्षायुध्केषु मनुष्य स्त्रीपुसकेषु तथा गर्भजतिर्यग्योनिकस्त्रीपुसेषु सङ्खये यवर्षायुष्केष्ववाप्यते । सनकुमारादिदेवादयश्च समुदिता लान्तकदेवादिभ्यः सङ्खये य Page #28 -------------------------------------------------------------------------- ________________ - २५ गणा इति भवन्ति शुक्ललेश्याकेभ्यः पालेश्याकाः सङ्ख्य यगणाः । तेभ्यस्तेजोलेश्याकाः सङ्ख्य यगणाः, सर्वेषां सोधमेंशानज्योतिष्कदेवानां कतिपयानां च भवनपतिव्यन्तरगर्मजतियक्पञ्चेन्द्रियमनुष्याणां बादरापर्याप्तैकेन्द्रियाणां च तेजोलेश्याभावात् । नन्वसङ्घय यगुणाः कस्मान्न भवन्ति ?, कथं भवन्तीति चेदुच्यते, इह ज्योतिष्का भवनवासिभ्योऽप्यसङ्खये यगुणाः किं पुनः सनत्कुमारादिदेवेभ्यस्ते च ज्योतिकास्तेजोलेश्याकास्तथा सौधर्मेशानकल्पदेवाश्च ततः प्राप्नुवन्त्यसङ्ख्य यगुणाः, तदयुक्त, वस्तुतत्त्वापरिज्ञानात् लेश्यापदे हि गर्भजतियग्योनिकानां संमृच्छिमपञ्चेन्द्रियतियग्योनिकानां च कृष्णलेश्याद्यल्पबहुत्वे सूत्रं वक्ष्यति-"सव्वथोवा गम्भवक्कंतियतिरिक्खजोणिया सुक्कलेसातिरि खजोणिणीओ संखिजगणाओ। पम्हलेसागम्भवक्कंतियतिरिक्खजोणिया संखेनगुणा तिरिक्खजोणिणीओ संखिजगुणाओ। तेउलेसागम्भवक्कंतियतिरिक्खजोणिया संखिजगुणा तेउलेसाओ तिरिक्खजोणिणीओ संखिज्जगुणाओ।” इति महादण्डके च तिर्यग्योनिकस्त्रीभ्यो व्यन्तरा ज्योतिष्काश्च सङ्ख्य यगुणा वश्यन्ते । ततो - यद्यपि भवनवासिभ्योऽप्यसवय यग णा ज्योतिष्कास्तथापि पद्मलेश्याकेभ्यस्तेजोलेश्याकाः संख्येयग णा एव । इदमत्र तात्पर्यम्-यदि केवलान् देवानेव पद्मलेश्या Page #29 -------------------------------------------------------------------------- ________________ २६ , कानधिकृत्य देवा एव तेजोलेश्याकाश्चिन्त्यन्ते ततो भवन्त्यसङ्ख्ये यग ुणाः । यावता तिर्यक्सम्मिश्रया झलेश्याकेभ्यस्तिर्यक्सम्मिश्रा एव तेजोलेश्याकाश्विन्त्यन्ते ते तिर्यश्चश्च पद्मलेश्या अध्यति बहवस्ततः सङ्ख्यं यग ुणा एव लभ्यन्ते नासंङ्घये यग गा इति । तेभ्योऽलेश्याका अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यः कापोतलेश्या अनन्तगुणाः, वनस्पतिकायिकानामपि कापोतलेश्यायाः संभवात् वनस्पतिकायानां च सिद्ध ेभ्योऽप्यनन्तत्वात् । तेभ्योऽपि नीललेश्या विशेषाधिकाः, प्रभूततराणां नीललेश्यासंभवात् । तेभ्योऽपि कृष्ण लेश्याका विशेषाधिकाः प्रभूततमानां कृष्णलेश्याकत्वात् । तेभ्यः सामान्यतः सलेश्या विशेषाधिकाः, नीललेश्यादीनामपि तत्र प्रक्षेपात् ॥ ६४-७० ॥ द्वारम् ८ ॥ सम्मामिच्छदिडीहिंतो सम्मत्तिणो अनंतगुणा । तत्तो मिच्छद्दिडी अनंतगुणिया मुणेयव्वा ॥७१॥९॥ 6 सर्वस्तोकाः सम्यग्मिथ्यादृष्टयः, सम्यग्मिथ्यादृष्टिपरिणामकालस्यान्तर्मुहूर्त्त प्रमाणत्वादतिस्तोकत्वेन तेषां पृच्छासमये स्तोकानामेव तत्र लभ्यमानत्वात । तेभ्यः सम्यग्दृष्टयोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽपि मिथ्यादृष्टयोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तत्वात् तेषां च मिध्यादृष्टित्वात् ॥ ७१ ॥ द्वारम् ६ ॥ Page #30 -------------------------------------------------------------------------- ________________ २७ मणनाणीणं ओहिन्नाणि असंखा तओ मइ सुया उ । तुल्ला उ विसेसहिया विभंगनाणी असंखगुणा ॥७२॥ तेहिंतो केवलिणो अणंतगुणिया उ हुंति तेहिंतो । हुँति अणंता दो विहु महसुअन्नाणिणो तुल्ला ॥७॥१०॥ ___ सर्वस्तोका मनःपर्यवज्ञानिनः, संयतानामेवामपोषध्यादिऋद्धिप्राप्तानां मनःपर्यवज्ञानसम्भवात् । तेभ्योऽसवयेयगुणा अवधिज्ञानिनः, नैरयिकतिर्यक्पञ्चेन्द्रियमनुष्याणामेवावधि'ज्ञानविकलानामपि सम्भवात् । तेभ्यो मतिश्रुतज्ञानिनो विशेषाधिकाः, संज्ञितियक्पञ्चेन्द्रियमनुष्याणामेवावधिज्ञानविकलानामपि केषाश्चिन्मतिश्रुतज्ञानभावात् , स्वस्थाने तु द्वयेऽपि परस्परं तुल्याः। तेभ्योऽसङ्ख्येयगुणा विभङ्गज्ञानिनः, सुरनरकेषु सम्यग्दृष्टिभ्यो मिथ्यादृष्टयो विभङ्गज्ञानिनोऽसङ्खयेयगुणाः ॥ ७२ ॥ तेभ्यः केवलिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्यो मत्यज्ञानिनः श्रुताज्ञानिनश्चानन्तगुणाः, वनस्पतीनामपि मत्यज्ञानश्रुताज्ञानभावात् तेषां चानन्तत्वात् । स्वस्थाने तु परस्परं तुल्याः ॥ ७३ ॥ द्वारम् १० ॥ थोवा उ ओहिदंसी चक्खुसी भवे असंखिजा।। केवलदंसि अणंता अचक्खुदंसी अणंतगुणा ।। ७४ ॥ ॥दारं ११ । १. "मनुष्यदेवानामपि तत्सम्भवात्" इति प्रज्ञापनावृत्तिपाठः । २. वनस्पतीनामित्यर्थः । Page #31 -------------------------------------------------------------------------- ________________ २८ सर्वस्तोका अवधिदर्शिनः देवनैरयिकाणां कतिपयानां च संज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्याणामवधिदर्शनभावात् । तेभ्यचतुर्दर्शिनोऽसङ्कथेयगुणाः सर्वेषां देवनैरयिकगर्भज मनुष्याणां संज्ञितिय कृपञ्चेन्द्रियाणामसंज्ञितिर्यक्पञ्चैन्द्रियाणां चतुरिन्द्रियाणां च चतुर्दर्शनभावात् । तेभ्यः केवलदर्शिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽचक्षुर्दशिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धभ्योऽप्यनन्तत्वात् ॥ ७४ ॥ द्वारम् ११ ॥ थोव त्ति संजया तह य संजयाऽसंजया असंखगुणा । पडिसेहत्तियख्वा सिडाऽणता अविरया य ॥ ७५ ॥ ।। दारं १२ ॥ सर्वस्तोकाः संयताः, उत्कृष्टपदेऽपि तेषां कोटिसहस्रपृथक्त्व प्रमाणतया लभ्यमानत्वात् । तेभ्यः संयतासंयता देशविरता असङ्खयेयगुणाः, तिर्यक्पञ्चेन्द्रियाणामसङ्ख्यातानां देशविरतिसद्भावात् । तेभ्यो नोसंयता नोअसंयता नोसंयतासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता इति । तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ।। ७५ ।। द्वारम् १२ ॥ अणगारुवउत्ताणं सागारवओगिणो उ संखगुणा । दंसणवओगकालो थोवो जं इयर इयरु न्ति ॥ ७६ ॥ ॥ दारं १३ ॥ Page #32 -------------------------------------------------------------------------- ________________ २६ अनाकारोपयुक्तेभ्यः साकारोपयुक्ताः सङ्ख्येयगुणाः, यतोऽनाकारोपयोगकालः सर्वस्तोकोऽतस्ते पृच्छासमये स्तोका एव प्राप्यन्ते । इतरः साकारोपयोगकाल इतरो दीर्घ इति पृच्छासमये साकारोपयोगिनो बहवः प्राप्यन्तेऽतस्ते सङ्ख्यातगुणाः ।। ७६ ।। द्वारम् १३ ॥ थोवाणाहारजिया तत्तो आहारगा असंखगुणा । विग्गहगहणो जम्हा णाहारा तेण ते थोवा ॥ ७७ ॥ अंनोमुहुत्त समयप्यमाणया विग्गहम्मि वहति । सुहमनिगोआ उ जिया तेहिं हीणा उ सेसजिया ॥७८ ते विग्गही निगोआ णाहारा 'पढमविग्गहं मुत्तं । सेस अविग्गहवित्ती अस्संखाहारगा ते य ॥ ७९ ॥ ॥ दारं १४ ॥ सर्वस्तोका अनाहारका जीवाः, विग्रहगत्यापन्नादीनामेवानाहारकत्वात । उक्तं च- "विग्गहगहमावना केवलिणो समुहया अजोगी य। सिद्धा य अणाहार सेसा आहारगा जीवा ।" इत्यादि । तेभ्य आहारका असङ्घयेयगुणाः । ननु वनस्पतिकायानां सिद्धेभ्योऽप्यनन्तत्वात्तेषां I १. यत एकवक्रायां गतौ समयद्वयेऽप्याहारक एव आद्यसमये प्राग्भवस्याहारः । द्वितीयसमये परभवस्य । अतः प्रथमविग्रहं मुक्त्वेत्युक्तम् । Page #33 -------------------------------------------------------------------------- ________________ चाहारकतया लभ्यमानत्वात् कथमनन्तगुणा न भवन्ति ?, तदयुक्तम् , वस्तुतत्त्वापरिज्ञानात् । इह सूक्ष्मनिगोदाः सर्वसङ्ख्ययाप्यसङ्ख्थेयाः। तत्राप्यन्तमुहूर्तसमयराशितुल्याः सूक्ष्म निगोदाः सर्वकालं विग्रहे वर्तमाना लभ्यन्ते । ततोऽनाहारका अप्यतिबहवः । सकलजीवराश्य सङ्खयेयभागतुल्या इति । तेभ्य आहरका असङ्खयेयगुणा एव नानन्तगुणा भवन्तीति भावः ॥ ७७-७६ ॥ द्वारं १४ । भासगजोवेहिन्तो अभासगा हुंति गंतगुणिया उ । ॥दारं १५ । सर्वस्तोका भाषका भाषालब्धिं सम्पन्नाः, द्वीन्द्रियादीनामेव भाषकत्वात् । तेभ्योऽभाषका भाषालब्धिहीना अनन्तगुणाः, वनस्पतिकायिकानामनन्तत्वात् । द्वारम् १५ । नो अपरित्त परित्ता परित्तया गंतगुणिया उ ॥ ८० ॥ अपरित्ता गंतगुणा तस्थ परित्ता हवंति दुविहा उ । कायपरित्ता एगे अन्ने पुण भवपरित्त त्ति ॥ ८१॥ पत्तेअतणूकाया परित्तया, सुक्कपक्खिया इयरे ॥ दारं १६ ॥ इह परीत्ता द्विविधा, भवपरीताः कायपरीत्ताश्च । तत्र मवपरीत्ता येषां किश्चिदुनापाद्धपुद्गलपरावत्तमात्रसंसारः । कायपरीताः प्रत्येकशरीरिणः । तत्रोभयेऽपि परीत्ताः सर्वस्तोकाः, Page #34 -------------------------------------------------------------------------- ________________ शुक्लपाक्षिकाणां प्रत्येकशरीरिणां वाशेषजीवापेक्षयातिस्तोकत्वात् । ततो नोपरीत्ता नोअपरीत्ता उभयप्रतिषेधवृत्ता हि सिद्धा अनन्तगुणाः ॥८०॥ तेभ्योऽपरीत्ता अनन्तगुणाः, कृष्णपाक्षिकाणां साधारणवनस्पतिकायानां वा सिद्ध भ्योऽप्यनन्तगुणत्वात् ॥ ८१॥ द्वारम् १६ ॥ सिडाणमपज्जत्ता, गंता पज्जत्तया संखा ।। ८२ ।। दारं १७ ॥ .... सर्वस्तोका नोपर्याप्तका नोप्तिकाः, उभयप्रतिषेधवतिनो हि सिद्धाः, ते चापर्याप्तकादिभ्यः सर्वस्तोका इति । तेभ्योऽपर्याप्तका अनन्तगुणाः, साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणानां सर्वकालमपर्याप्तत्वेन लभ्यमानत्वात् । तेभ्यः पर्याप्ताः सङ्ख्येयगुणाः। इह सर्वबहवो जीवा सूक्ष्माः। सूक्ष्माश्च सर्वकालमपर्याप्तेभ्यः पर्याप्ताः सङ्खयेयगुणा इति ॥८२॥ द्वारम् १७॥ नोसुहुमबायराणं बायरगा हुंत गंतगुणिया उ। सुहुमा असंखगुणिया मुहुमनिगोए पडुच्चेवं ।।३।। - दारं १८ ॥ सर्वस्तोका नोसूक्ष्मा नोबादरा जीवाः सिद्धा इत्यर्थः, तेषां सूक्ष्मवादरजीवराशेरनन्तभागकल्पत्वात् । तेभ्यो बादरा अनन्तगुणाः, बादरनिगोदजीवानां सिद्ध भ्योऽप्यनन्तगुण Page #35 -------------------------------------------------------------------------- ________________ ३२ त्वात् । तेभ्यः सूक्ष्मा असङ्ख्येयगुणाः, बादरनिगोदेभ्यः सूक्ष्मनिगोदानामसङ्घयेयगुणत्वात् ॥ ८३ ॥ द्वारम् १८ ॥ सन्नी थोवा सिद्धा, ता अस्सन्निणो अनंतगुणा ।। दारं १९ ॥ सर्वस्तोकाः संज्ञिनः, समनस्कानामेव संज्ञित्वात् । तेभ्यो नोसंज्ञिनो नोऽसंज्ञिनोऽनन्तगुणाः, उभयप्रतिषेधवृत्ता हि सिद्धास्ते च संज्ञिभ्योऽनन्तगुणा एवेति । तेभ्योऽसंज्ञिनोऽनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् ॥ द्वारम् १६ अन्भव्वाणं सिडा, तगुणा तया भव्वा ।। ८४ ।। दारं २० ।। सर्वस्तोका अभवसिद्धिका अभव्याः, जघन्ययुक्तानन्तपरिमाणत्वात् । तेभ्यो नोभवसिद्धिका नोऽभवसिद्धिकाः सिद्धाः अनन्तगुणाः, अजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् । तेभ्यो भव्या अनन्तगुणाः, यतो भव्यनिगोदस्यैकस्यानन्तभागकल्पाः सिद्धाः, भव्यजीवराशिनिगोदावासङ्घयेया लोक इति ॥ ८४ ॥ द्वारम् २० ॥ धमाधम्मागासा इक्किक्का दव्वयाइ ते थोवा । धम्माधम्माय' समा पएसओ ते असंखगुणा ||८६५ || १. " मागासा" इत्यपि पाठः । Page #36 -------------------------------------------------------------------------- ________________ जीवा दव्वा णंता ते चेव पएसओ असंखगुणा। पुग्गलदव्वा शंता पएसओ ते असंखगुणा ॥ ८६ ॥ अहासमया गंता नहप्पएसा, तओ अणंतगुणा ॥ दारं २१॥ धर्मास्तिकायाधर्मास्तिकायाकाशास्तिकाया एते त्रयोऽपि द्रव्यार्थतया, द्रव्यमेवाओं द्रव्यार्थस्तस्य भावो द्रव्यार्थता तया द्रव्यरूपतयेत्यर्थः, तुल्या समाः प्रत्येकमेकैकसङ्ख्याकत्वात् , अत एव सर्वस्तोकाः ३ । तेभ्यो धर्मास्तिकायाधर्मास्तिकायौ प्रदेशार्थतयाऽसङ्खयेयगुणो, परस्परं तुल्यौ, द्वयोरपि लोकाकाशप्रदेशप्रमाणप्रदेशत्वात् ५। ताभ्यां जीवास्तिकायो द्रव्यातयानन्तगणः, जीवानां प्रस्तेकं द्रव्यत्वात् तेषां चानन्तत्वात् ६ । ततः स एव प्रदेशार्थतयाऽसङ्खयेयगणः, प्रतिजीवं लोकाकाशप्रदेशप्रमाणप्रदेशभावात् ७। ततः पुद्गलास्तिकायो द्रव्यार्थतयाऽनन्तगणः कथम् , इति चेदुच्यते-यत इह परमाणुद्विप्रदेशकादीनि पृथक्पृथग्द्रव्याणि, तानि च सामान्यतस्विधा, प्रयोगपरिणतानि मिश्रपरिणतानि विस्रसापरिणतानि च । तत्र प्रयोगपरिणताण्येव 'तावज्जीवप्रदेशेभ्योऽनन्तगणानि । एकैकस्य जीवप्रदेशस्या १. “जीवेभ्योऽनन्तगुणानि । एकैकस्य जीवस्यानन्तैः” इति पाठः प्रज्ञापनाटीकायाम् । Page #37 -------------------------------------------------------------------------- ________________ नन्तैः प्रत्येकं ज्ञानावरणीयादिकर्मपुद्गलस्कन्धेरावेष्टितत्वात , कि पुनः शेषाणि १। ततः प्रयोगपरिणतेभ्यो मिश्रपरिणतान्यनन्तग णानि । तेभ्यो विस्रसापरिणतान्यग णानि ८। तस्मादपि पुद्गलास्तिकायः स्व(सत्)द्रव्यापेक्षया प्रदेशार्थतया चिन्त्यमानोऽसङ्खयेयगुणः । ननु कथं नानन्तगुणोऽनन्तप्रदेशकानामपि स्कन्धानां बहूनां भावात , नैवं, स्वल्पा अनन्तप्रदेशकाः स्कन्धाः, परमाण्वादयस्त्वतिबहवः, तथा च वक्ष्यति सूत्रम्-"सव्वत्थोवा अणंतप्पएसिया खंधा दवट्ठयाए। परमाणपोग्गला दवट्ठयाए अणंतगुणा । संखिज्जपएसिया खंधा दवट्ठयाए संखिजगणा । असंखिज्जपएसिया खंधा दव्वयाए असंखिज्जगणा।” इति । ततश्चात्रानन्तप्रदेशकानामतिस्तोकत्वात् परमाणूनां चातिबहुत्वात्तेषां च पृथक् पृथग्द्रव्यत्वादसङ्खथेयप्रदेशकानां च स्कधानां परमाण्वपेक्षयाऽसङ्खयेयगु णत्वादस येयगुण एवोपपद्यते पुद्गलास्तिकायः प्रदेशार्थतया नानन्तगुणः । । तस्मादप्यद्धासमयो द्रव्यार्थतयाऽनन्तगुणः । कथम् ?, इति चेदुच्यते-इहैकस्यैव परमाणोरनागते काले, तत्तद्विप्रदेशक-त्र्यणुक-सङ्ख्याताऽसुक-असङ्ख्याताऽणुक-- अनन्ताऽणुकस्कन्धान्तपरिणामतयाऽनन्ता भाविनः संयोगाः पृथक् पृथक कालाः। यथा चैकस्य परमाणोस्तथा सर्वेषां प्रत्येकं द्वयणुकादिस्कन्धानामनन्ताः संयोगाः पुरस्कृताः, सर्वे Page #38 -------------------------------------------------------------------------- ________________ ३५ षामपि मनुष्य क्षेत्रान्तर्वर्त्तितया परिणामसम्भवात् । तथा क्षेत्रतोऽप्ययं परमाणुरमुष्मिनाकाशप्रदेशेऽमुष्मिन् कालेऽवगाहिष्यत इत्येवमनन्ता एकस्याणोर्भाविनः संयोगाः । यथैकस्याणोस्तथा सर्वेषां परमाणूनां तथा द्विप्रदेशकादीनामपि स्कन्धानामनन्ताणुपर्यन्तानां प्रत्येकं तत्तदेकप्रदेशाद्यवगाहमेदतो भिन्नभिन्नकाला अनन्ता भाविनः संयोगाः । तथा काल तोstrयं परमाणुरमुष्मिन्नाकाशप्रदेशे एकसमयस्थितिको द्विसमयस्थितिक इत्येवमेकस्यापि परमाणोरेकस्मिनाकाशप्रदेशेSसङ्घयेया भाविनः संयोगाः । एवं सर्वेष्वपि आकाशप्रदेशेषु प्रत्येकमसङ्ख्येया भाविनः संयोगाः । ततो भूयो भूयस्तेष्वाकाशप्रदेशेषु परावृत्तौ कालस्यानन्तत्वादनन्ताः कालतो भाविनः संयोगाः । यथा चैकस्याणोस्तथा सर्वेषामप्यणूनां सर्वेषां प्रत्येकं द्वयणुकादीनां च भावतोऽप्ययं परमाणुरम्मुमिन् काले एकगुणकालको द्विगुणकालको भावीत्येवमेकस्याप्यणोर्भिन्नभिन्नकाला अनन्ताः संयोगाः । यथा चैकस्याणोस्तथा सर्वेषामरणूनां सर्वेषां च द्वयणुकादीनां पृथक् पृथगनन्ता भावतः पुरस्कृताः संयोगाः । तदेवमेकस्याप्यणोद्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽतीताश्च समया उपलब्धाः । यथैकस्याणोस्तथा सर्वेषामरणूनां सर्वेषां च प्रत्येकं द्वयणुकादीनां स्कन्धानाम् । न 'चैतत्परिणामि१. कालानन्तत्वमित्यर्थः । Page #39 -------------------------------------------------------------------------- ________________ ३६ कालवस्तुव्यतिरेके परिणामिपुद्गलास्तिकायादिव्यतिरे के चोपपद्यते । ततः सर्वमिदं तात्त्विकमव सेयम् । यथा सर्वेषां परमाणूनां सर्वेषां च द्वयणुकादीनां स्कन्धानां प्रत्येकं द्रव्यक्षेत्रकालभावविशेषसम्बन्धवशादनन्ता भाविनोऽद्धासमयास्तथाऽतीता अपीति सिद्धः पुद्गलास्तिकायादनन्तगुणोऽद्धासमयो द्रव्यार्थतयेति । इह कालमाश्रित्य प्रदेशार्थतयाऽल्पबहुत्वविचारणा न कृता, कालप्रदेशानामभावात् । आह - कोऽयमद्धासमयानां द्रव्यार्थतानियमः ? यावता प्रदेशार्थतापि तेषां विद्यत एव । तथाहि - यथाऽनन्तानां परमाणूनां समुदायः स्कन्धो भण्यते । स च द्रव्यं तदवयवाश्च प्रदेशाः । तथेहापि सकलः कालो द्रव्यं तदवयवाश्च समयाः प्रदेशा इति । तदयुक्तम्, दृष्टान्तदान्तिकवैषम्यात् । परमाणूनां समुदाय - स्तदा स्कन्धो भवति यदा ते परस्परसापेक्षतया परिणमन्ते । परस्परनिरपेक्षाणां केवल परमाणूनामिव स्कन्धत्वायोगात् । - अद्धासमयास्तु परस्परनिरपेक्षा एव, वर्तमानसमयभावे पूर्वा - परसमययोरभावात् । ततो न स्कन्धत्व परिणामः, तदभावाच्च नाद्वासमयाः प्रदेशाः, किन्तु पृथग् द्रव्याण्येवेति १० । तस्मादप्यद्धासमयादाकाशास्तिकायः प्रदेशार्थतयाऽनन्तगणः, सर्वास्वपि दिक्षु विदिक्षु च तस्यान्ताभावात्, अद्धासमयस्य च मनुष्यक्षेत्रमात्र भावात् ।। ११ ।। ८५-८६ ।। द्वारम् २१ ।। Page #40 -------------------------------------------------------------------------- ________________ ३७ चरिमाउ अचरिमाणं, गंतगणा हुंति सिद्धसमा ।। ८७ ॥ इह अचरिमा अभव्या, .. चरिमा पुण भावि चरमभवगहणा । ते सिद्धसमा तुल्ला, जमईयाणागयडा. य ।। ८८ ॥ दारं २२ ॥ - येषां चरमो भवः संभवी योग्यतयापि । ते चरमा उच्यन्ते ते चार्थाद्भव्याः । इतरेऽचरमा अभव्या सिद्धाश्च । उभयेषामपि चरमभवाभावात् । तत्र सर्वस्तोका अचरमाः, अभव्यानां च समुदितानामप्यजघन्योत्कृष्टयुक्तानन्तकपरिमाणत्वात् । तेभ्योऽनन्तगणाश्चरमाः, अजघन्योत्कृष्टानन्तानन्तकपरिमाणत्वात् । 'इह' एतद्गाथोक्ता "जमईआणागयडा य” इति युक्तिरत्राधिकारे वृत्तौ न दृष्टेति ॥ ८७ -८८ ॥ द्वारम् २२ ॥ जीवा १ पुग्गल २ समया ३, दव्व ४ पएसा ५ य पज्जवा ६ चेव । थोवा १ गंता २ पंता ३, विसेसेमहिआ ४ दुवे गंता ६ ॥८९॥ इविकको जियदेसो गंताणतेहि कम्मगअणहिं। परिवेदिउ त्ति तेणं जीवाणं पुग्गला णंता ॥ ९० ॥ Page #41 -------------------------------------------------------------------------- ________________ ३८ दव्वाईभावाणं संबंधविसेसओ अणंताओ। हुंति हु अडासमया एगम्मि वि सुद्धअणुयंमि ॥९१।। जमणंता वि हु समया दव्वाइं तेसि मज्झयारंमि। जीवाइपञ्च दव्वा छूढा तो बहुतरा दव्वा ॥ ९२ ॥ आगासाणंतत्ता दव्वपएसा भवंत गंतगुणा। पज्जवया वि अणंता पहप्पएसं जओ णंता ।। ९३ ॥ ॥दारं २३ ।। सर्वस्तोका जीवाः १ । तेभ्यः पुद्गला अनन्तगुणाः २ । तेभ्योऽद्धासमया अनन्तगुणाः ३ । अत्र भावना प्रागेवोक्ता। तेभ्योऽद्धासमयेभ्यः सर्वद्रव्याणि विशेषाधिकानि । कथम् ?, इति चेदुच्यते-इह येऽनन्तरमद्धासमयाः पुद्गलेभ्योऽनन्तग णा उक्तास्ते प्रत्येकं द्रव्याणि, ततो द्रव्यचिन्तायां तेऽपि परिगृह्यन्ते । तेषु च मध्ये सर्वजीवद्रव्याणि सर्वपुद्गलद्रव्याणि धर्माधर्माकाशास्तिकायद्रव्याणि च प्रक्षिप्यन्ते, तानि च समुदितान्यद्धासमयानामनन्तभागकल्पानीति तेषु प्रक्षिप्तेयपि मनागधिकत्वं जातमित्यद्धासमयेभ्यः सर्वद्रव्याणि विशेपाधिकानि ४ । तेभ्यः सर्वप्रदेशा अन्तगुणाः, आकाशानन्तत्वात् ५। तेभ्यः सर्वपयवा अनन्तगुणाः, एकैकस्मिन्नाकाशप्रदेशेऽनन्तानामगुरुलघुपर्यायाणां भावात् ॥८६-६३ ॥ द्वारम् २३॥ Page #42 -------------------------------------------------------------------------- ________________ उड्डतिरियमि थोवा १ w ३६ अह तिरिए हुति तो विसेसहिआ २ । तिरियंमि अरुंखगुणा -३, असंखगुणिया उ तेलोए ४ ।। ९४ ।। उडुमि असंखगुणा ५, जिआ विसेसाहिआ अहोलोए ६ । वित्तबहुत्तणेण य, जह्नुत्तरं जीवबहुयत्तं ।। ९५ ।। तिरियलोयस्स उ अंतो आई उड्डस्स पयरदुगमेयं । उड्डतिरियं ति भिन्नइ एवं चिय होइ अहतिरियं ॥ ९६ समुघायविग्गहेहिं फुसंति जे देहिणो उ तियलोयं । तेलुक्कत्था ते इह भावत्थो वित्तिओ नेओ ॥ ९७ ॥ सर्वस्तोका ऊर्ध्वतिर्यग्लोके । इहोर्ध्वलोकस्य यदधस्तनमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वोपरितनमा - काशप्रदेशप्रतरमेष ऊर्ध्वतिर्यग्लोकः । इयमत्र भावनाइह सामस्त्येन चतुर्दशरज्ज्वात्मकलोकस्त्रिधा भिद्यते, ऊर्ध्वलोकः १ तिर्यग्लोकः २ अधोलोकश्च ३ । रुचकाच्चैतेषां विभागः, तथाहि - रुचकस्याधस्तान्नवयोजनशतानि रुचकस्योपरिष्टान्नवयोजनशतानि तिर्यग्लोकः, तस्याधस्तादधोलोकः, उपरिष्टादूर्ध्वलोकः । तत्र रुचकसमाद्भूभागान्नवयोजनश Page #43 -------------------------------------------------------------------------- ________________ ४० तानि गत्वा ज्योतिश्चक्रस्योपरितनं तिरंग्लोकसम्बन्धि एकप्रादेशिकाकाशप्रतरं तिर्यग्लोकप्रतरं, तस्य चोपरि यदेकप्रादेशिकमाकाशप्रतरमूवलोकप्रतरम् , एते च द्वे अप्यू तिर्यग्लोक इति व्यवहि, ते । तत्र वर्तमाना जीवाः सर्वस्तोकाः । कथम् ?, इह ये ऊर्ध्वलोकात्तिर्यग्लोके तिर्यग्लोकाद्वो लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्ति, ये च तत्रस्था एव केचन तत्प्रतरद्वयाध्यासिनो वर्तन्ते ते किल विवक्षितप्रतरद्वये वर्तन्ते नान्ये । ये पुनरूद्धलोकादधोलोके समुत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति ते न गण्यन्ते, तेषा' त्रैलोक्यस्पर्शित्वात् । ततः स्तोका एवाधिकृतप्रतरद्वयवर्तिनो जीवाः । ननू लोकगतानामपि सर्वजीवानामसङ्ख्ययो भागोऽनवरतं म्रियमाणोऽवाप्यते, ते च तिर्यग्लोके समुत्पद्यमाना विवक्षितं प्रतरद्वयं स्पृशन्तीति कथमधिकृतप्रतरद्वयस्पर्शिनः स्तोकाः १, तदयुक्तं, यद्यप्यू लोकगतानां सर्वजीवानामसङ्ख्ययो भागोऽनवरतं म्रियमाणोऽवाप्यते तथापि न ते सर्व एव तिर्यग्लोके समुत्पद्यन्ते, प्रभूततराणामूर्ध्वलोकेऽधोलोके च समुत्पादादिति १।। तेभ्योऽधोलोकतिर्यग्लोके विशेषाधिकाः, इह यधोलोकस्योपरितनमेकप्रादेशिकमाकाशप्रदेशप्रतरं यच्च तिर्यग्लोकस्या१. "तेषां सूत्रान्तरविषयत्वात् ।" इति प्रज्ञापनाटीकायाम् । Page #44 -------------------------------------------------------------------------- ________________ धस्तनमेकप्रादेशिकमाकाशप्रदेशप्रतरं,एतद्वयमप्यधोलोकतियग्लोक उच्यते। तत्र ये विग्रहगत्या तत्रस्थतया वा वर्तन्ते ते विशेषाधिकाः । कथम् ?, इह येऽधोलोकात्तिर्यग्लोके तिर्यग्लोकाद्वाऽधोलोके इलिकागत्या समुत्पद्यमाना अधिकृतप्रतरद्वयं स्पृशन्ति, ये च तत्रस्था एव केचन तत्प्रतरद्वयमध्यासीना वर्त्तन्ते ते विवक्षितप्रतरद्वयवर्तिनः । ये पुनरधोलोका - लोके उत्पद्यमानास्तत्प्रतरद्वयं स्पृशन्ति न ते गृह्यन्ते, तेषां' त्रैलोक्यस्पर्शित्वात् । केवलमू लोकादधोलोको विशेषाधिक इत्यधोलोकात्तिर्यग्लोक उत्पद्यमाना ऊर्ध्वलोकापेक्षया विशेपाधिकाः २ । तेभ्यस्तिर्यग्लोकवर्तिनोऽसङ्खयेयगुणा इति, उक्तक्षेत्रद्विकात्तिर्यग्लोकक्षेत्रस्यासङ्घयेयगुणत्वात् ३। तेभ्यस्त्रैलोक्यसंस्पर्शिनोऽसङ्खयेयगुणाः, इह ये केवले ऊ लोकेऽधोलोके तिर्यग्लोके वा वर्तन्ते, ये च विग्रहगत्यो लोकतिर्यग्लोकावधोलोकतिर्यग्लोको वा स्पृशन्ति ते न गण्यन्ते । किन्तु ये विग्रहगत्यापन्नास्त्रीनपि लोकान् स्पृशन्ति ते परिग्राह्याः । ते च तिर्यग्लोकवर्तिभ्योऽसङ्खयेयगुणा एव । कथम् १, इह बहवः प्रतिसमयमलोकेऽधोलोके च सूक्ष्मनिगोदा उद्वर्तन्ते । ये तु तिर्यग्लोकवर्तिनः सूक्ष्मनिगोदा उद्वर्त्तन्ते तेऽधो१. "तेषां सूत्रान्तरविषयत्वात् ।" इति प्रज्ञापनाटीकायाम् । Page #45 -------------------------------------------------------------------------- ________________ ४२ लोके उर्ध्वलोके वा केचित्तस्मिन्नेव वा तिर्यग्लोके समुत्पद्यन्ते ततो न ते लोकत्रयसंस्पर्शिनः । तत्रोद्ध्वलोकाधोलोकगतानां सूक्ष्मनिगोदानामुद्वर्तमानानां मध्ये केचिस्वस्थान एवो लोकेऽधोलोके वा समुत्पद्यन्ते, केचित्तिर्यग्लोकेऽधोलोके वा । तेभ्योऽसङ्खयेयगुणा अधोलोकगता ऊर्ध्व लोके ऊवलोकगता अधोलोके वा समुत्पद्यन्ते, ते च तथोत्पद्यमाना स्त्रीनपि लोकान् स्पृशन्तीत्यसङ्खयेयगुणा । कथं पुनरेतदेवमवसीयते ? यदुत एवंप्रमाणा बहवो जीवाः सदा विग्रहगत्यापन्ना लम्यन्ते, इति चेदुच्यते युक्तिवशात्, तथाहि-प्रागुक्तं प्रज्ञापनायामेव पर्याप्तद्वारे-"सव्वत्थोवा जीवा नोपजत्ता नोअपज्जत्ता सिद्धा, अपज्जत्ता अणंतगुणा, पज्जत्ता संखिज्जगुणा” इति । तत एवं नामाऽपर्याप्ता बहवो येनैतेभ्यः पर्याप्ताः सङ्खयेयगुणा एव नासङ्ख्येयगुणा नाप्यनन्तगुणाः। ते चापर्याप्ता बहवोऽन्तरगतौ वर्तमाना लभ्यन्ते ४ इति । तेभ्य ऊर्ध्वलोके ऊर्ध्वलोकावस्थिता असङ्खयेयगुणाः, उपपातक्षेत्रस्यातिबहुत्वादस थेयानां च भागानामुद्वर्तनायाः सम्भवात् ५। तेभ्योऽधोलोकेऽधोलोकस्था विशेषाधिकाः, ऊर्ध्वलोकक्षेत्रादधोलोकक्षेत्रस्य विशेषाधिकत्वात् ६ ॥१७॥ तदेवं सामान्यतो जीवानां क्षेत्रानुपातेनाल्पबहुत्वमुक्तं, अथ चतुगतिदण्डक्रमेण तदाह Page #46 -------------------------------------------------------------------------- ________________ ४३ भणियाण लोगभेयाण नारया चउत्थवीयछठेसु । थोवा दोसु असंखा तिरिया जह ओहिया जीवा ॥९८ पूर्वोक्तानां षण्णां लोकभेदानां मध्ये चतुर्थद्वितीयषष्टेषु लोकेषु जीवा यथासङ्ख्यं स्तोका असङ्ख्यातगुणाश्च । तत्र कथं लोकत्रयस्पर्शिनो नैरयिकाः १ कथं वा ते सर्वस्तोकाः ? इत्याह-इह ये मेरुशिखरेऽञ्जनदधिमुखपर्वतशिखरादिषु वा वापीषु वर्तमाना मत्स्यादयो नारकेपुत्पित्सव इलिकागत्या प्रदेशान् विक्षिपन्ति ते किल त्रैलोक्यमपि स्पृशन्ति, नारकव्यपदेशं च लभन्ते, तत्कालमेव नरकेधूत्पत्तेर्नारकायुष्कप्रतिसंवेदनात् । ते चेत्थम्भूताः सर्वस्तोकाः । अन्ये तु व्याचक्षते नारका एव यथोक्तवापीषु तिर्यकपञ्चेन्दियतयोत्पद्यमानाः समुद्घातवशतो विक्षिप्तनिजात्मप्रदेशदण्डा अघापि कालमकुव्वन्तो जातमरणाः परिगृह्यन्ते । ते हि किल तदा नारका एव निर्विवादं तदायुष्कसंवेदनात् त्रैलोक्यस्पर्शिनश्च यथोक्तवापीर्यावदात्मप्रदेशदण्डस्य विक्षिप्तत्वादिति १ । तेभ्यः प्रतरद्वयरूपाधोलोकतिर्यग्लोकेऽसङ्खयेयगुणाः । यतो मन्दरादिक्षेत्रादसङ्खयेयगुणादसङ्खयेयद्वीपसमुद्रात्मकक्षेत्रात्तिर्यपञ्चेन्द्रिया नरकेषत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति । अन्ये वाहुः-नारका एवासङ्खयेयेषु द्वीपसमुद्रेषु तिर्यक्पञ्चेन्द्रियतयोत्पद्यमाना मारणान्तिकसमुद्घातेन विक्षिप्तनिजात्मप्रदेश Page #47 -------------------------------------------------------------------------- ________________ ४४ दण्डा द्रष्टव्याः। ते हि नारकायुर्वेदनान्नारका उद्वर्त्तमाना अप्यसकयेयगुणाः प्राप्यन्त इति २ । तेभ्योऽधोलोकेऽसधेयगुणाः, तस्य तेषां स्वस्थानत्वादधोलोकक्षेत्रस्यासङ्खयेयत्वाच्च ३ । तिरश्चां क्षेत्रतोऽल्पबहुत्वमौधिकजीववत् सूक्ष्मनिगोदानामुभयत्र भावात् ॥ ८॥ पंचम १ पढम २ चउत्थे ३, बीए ४ छठे ५ तइज्ज ६ तिरियत्थी। थोवा ? संखा २, सेसा संखिज्जगुणा कमेणेव ॥ ९९ ॥ पञ्चमे ऊर्ध्वलोके तिर्यग्योनिकस्त्रियः सर्वस्तोकाः । इह मन्दरादिवापीप्रभृतिष्वपि हि पञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियो भवन्ति, ताश्च क्षेत्रस्याल्पत्वात् सर्वस्तोकाः १ । ताभ्य ऊद् लोकतिर्यग्लोके प्रतरद्वयरूपे वर्तमाना असङ्खयेयगुणाः । कथम् ?, यावत्सहस्रारदेवलोकस्तावद्देवा अपि गर्भव्युत्क्रान्तिकतिर्यकपञ्चेन्द्रिययोनित्वेनोत्पद्यन्ते, किं पुनः शेषकायाः ? ते हि यथासङ्ख्यमुपरिवर्तिनोऽपि तत्रोत्पद्यन्ते । ततो ये सहस्रारान्ता देवा अन्येऽपि च शेषकाया ऊर्ध्वलोकात्तियग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेन तदायुःसंवेदयमाना उत्पद्यन्ते । यास्तिर्यग्लोकवत्तिन्यस्तिर्यकपञ्चेद्रियस्त्रिय ऊर्ध्वलोके देवत्वेन शेषकायत्वेन वोत्पद्यमाना मारणान्तिकसमुद्धातेनोत्पत्ति Page #48 -------------------------------------------------------------------------- ________________ ४५ देशे निजनिजात्मप्रदेशदण्डान् विक्षिपन्ति ता यथोक्तं प्रतरद्वयं स्पृशन्ति । तियग्योनिकस्त्रियश्च तास्ततोऽसङ्खयेयगुणाः २ । _____ ताभ्यस्त्रिलोके सङ्खयेयगुणाः। यस्मादधोलोकाद्भवनपतिव्यन्तरनारकाः शेषकाया अपि चोर्ध्व लोकेऽपि तिर्यकपञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते, ऊर्ध्वलोकाद्देवादयोऽप्यधोलोके च समवहता निजनिजात्मप्रदेशदण्डस्त्रीनपि लोकान् स्पृशन्ति प्रभूताश्च ते । तथा तिर्यग्योनिकस्न्यायुःसंवेदनात्तिर्यग्योनिकस्त्रियश्च ततः सङ्खयेयगुणाः ३ । ताभ्योऽधोलोकतिर्यग्लोकसंज्ञे प्रतरद्वये सङ्खयेयगुणाः, बहवो हि नारकाः समुद्धातं विनापि तिर्यग्लोके तिर्यक्पञ्चेन्द्रियस्त्रीत्वेनोत्पद्यन्ते, तियेग्लोकवर्तिनश्च जीवास्तिर्यकत्रीत्वेनाधोलौकिकग्रामेष्वपि च । तथा च ते उत्पद्यमाना यथोक्तं प्रतरद्वयं स्पृशन्ति तियेग्योनिकस्न्यायु:प्रतिसंवेदनाच तिर्यग्योनिकस्त्रियोऽपि । तथाऽधोलौकिकग्रामा योजनसहस्रावगाहाः पयन्तेर्वाक क्वचित्प्रदेशे नवयोजनशतावगाहा अपि । तत्र काश्चित्तिर्यग्योनिकस्त्रियोऽवस्थानेनापि यथोक्तप्रतरद्वयाध्यासिन्यो वर्तन्ते, ततो भवन्ति पूर्वोक्ताभ्यः सङ्खयेयगुणाः ४ । ताभ्योऽधोलोके सङ्खयेयगुणाः, यतोऽधोलोकिकग्रामाः सर्वेऽपि च समुद्रा योजनसहस्रावगाहास्ततो नवयोजनशतानामधस्ताद्या वतन्ते मत्सीप्रभृतिकास्तियेग्योनिकस्त्रियस्ताः स्वस्थानत्वात् प्रभूता इति सङ्ख्येयगुणाः ५। Page #49 -------------------------------------------------------------------------- ________________ ताभ्यस्तिर्यग्लोके सङ्खयेयगुणाः, क्षेत्रस्य सङ्खयेयगुणत्वात् ६, ॥६६॥ चउथे १ पढमे २ बीए ३, पंचम ४ छठे ५ तइज्जए ६ मणुया। थोवा १ ऽसंखा २ सेसा, संखिजगुणा ६ कमेणेव ॥१०० ॥ मनुष्यास्त्रिलोकस्पर्शिनः स्तोकाः, यतो ये ऊर्ध्वदोकादधोलौकिकयामेषत्पित्सवो मारणान्तिकसमुद्घातेन समवहता भवन्ति ते च केचित्समुद्धातवशाबहिनिर्गतैरात्मप्रदेशस्त्रीनपि लोकान् स्पृशन्ति । येऽपि च वैक्रियसमुद्घातमाहारकसमुद्घातं वा गतास्तथाविधप्रयत्नविशेषाद्दरतरमृर्वाधोविक्षिप्तात्मप्रदेशा ये च केलिसमुद्घातं गतास्तेऽपि त्रीनपि लोकान् स्पृशन्ति, एते सर्वेऽपि मीलिताः स्तोका एवेति १। तेभ्यः प्रथमे उर्ध्वलोकतिर्यग्लोकप्रतरद्वयरूपेऽसङ्ख्यगुणाः, यतो वैमानिकाः शेषकायाश्च यथासम्भवमू लोकात्तिर्यग्लोके मनुष्यत्वेन समुत्पद्यमाना यथोक्तप्रतरद्वयस्पशिनो भवन्ति । विद्याधराणामपि च मन्दरादिषु गमनं, तेषां च शुक्ररुधिरादिपुद्गलेषु सम्मूर्छिममनुष्याणामुत्पाद इति ते विद्याधरा रुधिरादिपुद्गलसम्मिश्रा यदा गच्छन्ति तदा संमूर्छिममनुष्या अपि यथोक्तप्रतरद्वयं स्पृशन्ति, ते चातिबहव इत्यसङ्खयेयगुणाः २ । Page #50 -------------------------------------------------------------------------- ________________ ४७ तेभ्यो द्वितीयेऽधोलोकतिर्यग्लोके प्रतरद्वयात्मनि सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामेषु स्वभावत एव बहवो मनुष्याः, ततो ये तिर्यग्लोकान्मनुष्येभ्यः शेषकायेभ्यो वाऽधोलौकिक ग्रामेषु गर्भजमनुष्यत्वेन सम्मूर्छिममनुष्यत्वेन वोत्पित्सवो येऽधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्यो वा तियग्लोके गर्भजमनुष्यत्वेन संमूर्छिममनुष्यत्वेन वोत्पित्सवस्ते यथोक्तं प्रतरद्वयं स्पृशन्ति बहुतराश्च ते। तथा स्वस्थानतोऽपि किश्चिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्खयेयगुणाः ३ । तेभ्यः पञ्चमे ऊवलोके सङ्खयेयगुणाः, यतः सौमनसादिषु क्रीडार्थं चैत्यवन्दननिमित्तं वा प्रभूततराणां विद्याधराणां चारणमुनीनां च भावात् , तेषां च रुधिरादिपुद्गलतः सम्मूछिममनुष्यसम्भवात् ४ । तेभ्यः षष्ठेऽधोलोके सङ्खयेयगुणाः स्वस्थानत्वेन बहुलभावात् ५ । तेभ्यस्तृतीये तिर्यग्लोके सहयेयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् स्वस्थानत्वाच्च ६ ॥ १०॥ चउथे१पढमेरबीए३पंचम४छ ५तइज्जएदनारी। थोवारसंखिजगुणाईकमेण सेसेसु ठाणेसु ॥१०१॥ मानुष्यश्चतुर्थे त्रिलोके स्तोकाः, यतो मनुष्यवत्समुाद्घातत्रयगत्या त्रिलोकं स्पृशन्ति । आसां चाहारकसमुद्धातो न भवतीति १ । ताभ्यः प्रथमे ऊर्ध्वलोकतिर्यग्लोके सङ्खयेय Page #51 -------------------------------------------------------------------------- ________________ ४८ गुणाः, वैमानिकदेवानां शेषकायानां चोदू लोकात्तिर्यग्लोके मानुषीत्वेनोत्पद्यमानानां तथा तिर्यग्लोकगतमनुष्यस्त्रीणामृदुर्वलोके समुत्दित्सूनां मारणान्तिकसमुद्घातेन दूरतरमृर्द्धाविक्षिप्तात्मप्रदेशानामद्यापि कालमकुर्वतीनां यथोक्तप्रतरद्वयस्पर्शनभावात् तासां चोभयासामपि बहुतरत्वात् २ | द्वितीयादिलोकभेदचतुष्टये मनुष्यवद्भावना कार्या, मानुषीणां संमूहिंमत्वाभावान्नासङ्ख्यातत्वम् ।। १०१ ।। पंचम १ पढम २ चरथे ३, दुय ४ छ ५ तइए ६ वि सुरदेवी | थोव १ असंखा २ संखा ३, अस्संखा ४ दोसु संखगुणा ६ ॥ १०२ ॥ ॥ दारं २४ ॥ पञ्चम ऊर्ध्वलोके सामान्यतो देवाः स्तोकाः, वैमानि - कदेवानामेव तत्र भावात् तेषां चाल्पत्वात् । येऽपि भवनपतिप्रभृतयो जिनेन्द्रजन्ममहादौ मन्दरादिषु गच्छन्ति तेऽपि स्वल्पा एवेति सर्वस्तोकाः १ । तेभ्यः प्रथमे ऊर्ध्वलोकतिर्यग्लोकेऽसङ्खयेयगुणः, तद्धि ज्योतिष्काणां प्रत्यासन्नमिति स्व स्थानम, तथा भवनपतिव्यन्तरज्योतिष्काणां मन्दरादौ सौधर्मादिकल्पगताः स्वस्थाने गमनागमनेन, तथा ये सौधर्मादिषु देवत्वेनोत्पत्सवो देवायुः प्रतिसंवेदयमानाः स्वोत्पत्तिदेश Page #52 -------------------------------------------------------------------------- ________________ ४६ मभिगच्छन्ति ते यथोक्तं प्रतरद्वयं स्पृशन्ति, ततः सामस्त्येन यथोक्तप्रतरद्वयस्पशिनोऽतिबहव इति पूर्वेभ्योऽसङ्खयेयगुणाः २। तेभ्यः चतुर्थे त्रैलोक्ये सङ्खयेयगुणाः, यतो भवनपतिव्यन्तरज्योतिष्कवैमानिकदेवास्तथाविधप्रयत्नविशेषवशतो वैकियसमुद्घातेन त्रीनपि लोकान् स्पृशन्ति ते चेत्थं समवहताः प्रागुक्तप्रतरद्वयस्पर्शिभ्यः सङ्ख्येयगुणाः केवलवेदसोपलभ्यन्ते ३। तेभ्यो द्वितीयेऽधोलोकतिर्यग्लोके सङ्ख्येयगुणाः, तद्धि प्रतरद्वयं भवनपतिव्यन्तरदेवानां प्रत्यासन्नतया स्वस्थानं, तथा बहवो भवनपतयः स्वभवस्थास्तियंग्लोकगमागमेन तथोद्वर्तमानास्तथा वैक्रियसमुपदातेन समवहतास्तिर्यग्लोकस्थास्तियक्पञ्चेन्द्रियमनुष्या वा भवनपतित्वेनोत्पद्यमाना भवनपत्यायुरनुभवन्तो यथोक्तप्रतरद्वयस्पर्शिनोऽतिबहव इति सङ्खयेयगुणाः ४ । तेभ्यः षष्ठेऽधोलोके सङ्खथेयगुणः, भवनपतीनां स्वस्थानत्वात् ५। तेभ्यस्तृतीये तिर्यग्लोके सङ्ख्येयगुणाः, ज्योतिष्कव्यन्तराणां स्वस्थानत्वात् ६। एवं देव्योऽपि । इदमौधिक देवदेवीविषयमल्पबहुत्वमुक्तम् । विभागतस्तु चतुगतिनिकायदेवदेव्यल्पबहुत्वाष्टकं पर्याप्तापर्याप्तैकेन्द्रियादिपृथ्व्यादीनां पृथगल्पबहुत्ववृन्दं च सभावनं प्रज्ञापनासूत्रवृत्तिभ्यां ज्ञेयम् ॥ १०२ ॥ द्वारम् २४ ॥ आउयबंध १ अपज्जत्त २ सुत्त ३, सम्मोहया य ४ सायगया। Page #53 -------------------------------------------------------------------------- ________________ ५० अक्खोवउत्त ६ अणगारु वउत्ता ७, संखगुणिया उ॥१०३॥ . स्तोका आयुष्कर्मणो बन्धकाः, तद्वन्धकालस्य भवत्रिभागादेः प्रतिनियतत्वात् १ । तेभ्योऽपर्याप्ताः सङ्खयेयगुणाः, यतोऽपर्याप्ता भवत्रिभागाद्यवशेषायुषः परभवायुबन्धन्ति । ततो द्वौ त्रिभागावबन्धकाल एको बन्धकाल इति बन्धकालादबन्धकालः सङ्खयेयगुणस्तेन सङ्खयेयगुणा एवापर्याप्ता आयुबन्धकेभ्यः २। तेभ्यः सुप्ताः सङ्कथेयगुणाः, यतोऽपर्याप्तेषु पर्याप्तेषु च सुप्ता लभ्यन्ते । पर्याप्ताश्चापर्याप्तेभ्यः सङ्खयेयगुणाः । एतच्च सूक्ष्मजीवानधिकृत्य वेदितव्यम् । सूक्ष्मेषु बाह्यो व्यघातो न भवति, ततस्तदभावादहूनां निष्पत्तिः स्तोकानामेव चानिष्पत्तिरिति ३। तेभ्यः समवहताः सङ्खयेयगुणाः, बहूनां पर्याप्तेष्वपर्याप्तेषु च मारणान्तिकसमुद्घातेन समवहतानां लभ्यमानत्वात् ४ । तेभ्यः सातवेदकाः सङ्ख्येयगुणाः, आयुर्वन्धकापर्याप्तसुप्तेष्वपि सातवेदकानामपि लभ्यमानत्वात् ५ । तेभ्य इन्द्रियोपयुक्ताः सङ्खयेयगुणाः, असातवेदकेष्वपीन्द्रियोपयोगस्य भावात् । तेभ्योऽनाकारोपयोगोपयुक्ताः सङ्ख्येयगुणाः, इन्द्रियोपयोगेषु नोइन्द्रियोपयोगेषु चानाकारोपयोगस्य लभ्यमानत्वात् ७ ॥ १०३ ॥ एएसिं पडिवक्खा पडिलोमं पढम इत्थ संखगुणा । सेसा छावि कमेणं विसेसअहिया मुणेयव्वा ॥१०४॥ Page #54 -------------------------------------------------------------------------- ________________ ५१ अप्पज्जत्ता सव्वे सुत्ता पज्जत्तयावि किल केवि । जेसिमईया समया संखिज्जा जागरा सेसा ॥१०॥ ॥द्वारम् २५ ॥ __एतेषां सप्तानां प्रतिपक्षाः प्रतिलोमगत्या वाच्याः। तथाहि-अनाकारोपयोगयुक्तेभ्यः साकारोपयुक्ताः सङ्खयेयगुणाः, इन्द्रियनोइन्द्रियोपयोगेषु साकारोपयोगकालस्य बहुत्वात् ७ । नोइन्द्रियोपयुक्ता विशेषाधिकाः, नोइन्द्रियानाकारोपयुक्तानामपि तत्र प्रक्षेपात् । इन्द्रियोपयोगो हि प्रत्युत्पन्नकालविषयः । यदा विन्द्रियदृष्टमेवार्थ विचारयत्योघसंज्ञयापि तदा नोइन्द्रियोपयुक्तः स व्यपदिश्यते । ततो नोइन्द्रियोपयोगकालस्यातीतानागतकालविषयतया बहुकालत्वाद्विशेषाधिकत्वम् ६ । अंसातवेदका विशेषाधिकाः, इन्द्रियोपयुक्तेष्वप्यसातवेदकानां भावात् ५। असमवहता विशेषाधिकाः, सातवेदकेष्वपि तद्भावात् ४ । जागरा विशेषाधिकाः, समवहतानामपि केषाश्चिजागरत्वात् ३। पर्याप्ता विशेषाधिकाः, सुप्तानामपि केषाश्चित्पर्याप्तत्वात् । सुप्ता हि पर्याप्ता अपर्याप्ता अपि भवन्ति, जागरास्तु पर्याप्ता एवेति नियमः २। आयुकर्माबन्धका विशेषाधिकाः, अपर्याप्तानामप्यायुष्कर्माबन्धकत्वभावात् १ ॥ १०४ ॥ १०५ ॥ द्वारम् २५ ॥ . इदमेवाल्पबहुत्वं विनेयजनानुग्रहायासत्कल्पनया स्थापनाराशिभिरुपदश्यते । इह द्वे पङ्क्ती उपयधोभावेन स्था Page #55 -------------------------------------------------------------------------- ________________ प्येते । तत्रोपरितन्यां पङ्क्तौ आयुष्कर्मबन्धका अपर्याप्ताः सुप्ताः समवहताः सातवेदका इन्द्रियोपयुक्ता अनाकारोपयुक्ताः क्रमेण स्थाप्यन्ते । तस्या अधस्तन्यां पङ्क्तौ तेषामेव पदानामधस्ताद्यथासङ्ख्यमायुरबन्धकाः पर्याप्ता जागरा असमवहता असातवेदका नोइन्द्रियोपयुक्ताः साकारोपयुक्ताश्च । स्थापना चेयम ॥ आयुर्बन्धकाः १ | अपर्याप्ता: २ - सुप्ता: ४ समवहताः ८ आयुरबन्धकाः २५५ पर्याप्ता: २५४ | जागरा: २५२ असमवहता:२४८ सातवेदकाः १६ । इन्द्रियोपयुक्ताः ३२ । अनाकारोपयुक्ताः ६४ असातवेदकाः २४० नोइन्द्रियोपयुक्ताः२२४/ साकारोपयुक्ताः १९२ अत्रोपरितन्यां पङक्तौ सर्वाण्यपि पदानि सङ्खयेयगुणानि । आयुष्पदं च सर्वेषामाद्यमिति तत्परिमाणसङ्ख्यायामेकः स्थाप्यते । ततः शेषपदानि किल जघन्येन सङ्कथेयेन सङ्ख्येयगुणानीतिद्विगुणद्विगुणोऽङ्कस्तेषु स्थाप्यते । तद्यथाद्वौ चत्वारोऽष्टौ षोडश द्वात्रिंशचतुःषष्टिः । सर्वोऽपि जीवराशिरनन्तानन्तस्वरूपोऽप्यसत्कल्पनया षट्पश्चाशदधिकशतद्वयपरिमाणः परिकल्प्यते। ततोऽस्माद्राशेरायुबन्धकादिगताः सङ्ख्याः शोधयित्वा यच्छेषमवतिष्ठति तदायुरबन्धकादीनां Page #56 -------------------------------------------------------------------------- ________________ ५३ परिमाणे स्थापयितव्यम् । तद्यथा - आयुरबन्धकपदे द्वे शते पञ्चपञ्चाशदधिके शेषेषु क्रमेण द्वे शते चतुःपञ्चाशदधिके द्वे शते द्विपञ्चाशदधिके द्वे शतेऽष्टौ चत्वारिंशदधिके द्वे शते चत्वारिंशदधिके द्वे शते चतुर्विंशत्यधिके द्विनवत्यधिकं शतम् । एवं च सत्युपरितनपङ्क्ति गतान्य नाकारोपयुक्तपर्यन्तानि पदानि सङ्ख्येयगुणानि द्विगुण द्विगुणाधिकत्वात् । ततः परं साकारोपयुक्तपदमपि सङ्घयेयगुणं त्रिगुणत्वात् । शेषाणि तु नोइन्द्रियोपयुक्तादीनि प्रतिलोमं विशेषाधिकानि द्विगुणत्वस्यापि क्वचिदभावात् । वउथे १ पदम २ दु ३ तइए ४, पंचम ५ छट्ठेसु पुग्गला कमसो । धोवा १ ऽणंता २ अहिया दोसु, असंखा ५ विसेसहिय ६ ॥ १०६ ॥ इह पुद्गलाः पुद्गलद्रव्यस्कन्धा ग्राह्यास्ते च चतुर्थे त्रैलोक्यस्पर्शिनः स्तोकाः, यस्मान्महास्कन्धा एव त्रैलोक्यव्यापि - नस्ते चाल्पा इति १ । तेभ्यः प्रथम ऊर्ध्वलोकतिर्यग्लोकेऽनन्तगुणाः, यतस्तेऽनन्ताः सङ्ख्येयप्रदेशका अनन्ता असङ्ख्येयप्रदेशका अनन्ता अनन्तप्रदेशकाः स्कन्धाः स्पृशन्तीति द्रव्यार्थतयानन्तागुणा इति २ । तेभ्यो द्वितीयेऽधोलोके विशेपाधिका, क्षेत्रस्यायामविष्कम्भाभ्यां मनाविशेषाधिकत्वात् Page #57 -------------------------------------------------------------------------- ________________ ३ । तेभ्यस्तृतीये तिर्यग्लोकेऽसङ्खयेयगुणाः, क्षेत्रस्यासङ्घयेयगुणत्वात् ४। तेभ्यः पञ्चमे ऊर्ध्वलोकेऽसङ्खयेयगुणाः, क्षेत्रस्यासङ्ख्येयगुणत्वात् ५ । तेभ्यः षष्ठेऽधोलोके विशेषाधिकाः, ऊर्वलोकादधोलोकस्य विशेषाधिकत्वात् । देशोनसप्तरज्जुप्रमाणो ह्य ध्वलोकः समधिकसप्तरज्जुप्रमाणस्त्वधोलोकः ६ ॥१०६॥ थोवुडढे अहियाहे तुल्ला ईसाण निरिहय असंखा । वायव्य ग्गिसु तुल्ला अहिआ पुवाइ अस्संखा ॥१०७॥ अवरेण दाहिणेणं उत्तरओ पुग्गला कमेणहिया । खित्ताइविसेसेणं बहुअत्तं वित्तिओ नेयं ॥ १०८ ॥ 'पुद्गलाः स्तोका ऊर्ध्वदिशि, इह रत्नप्रभासमभूतलमेरुमध्येऽष्टप्रादेशिको रुचकस्तस्मानिर्गता चतुःप्रादेशिकी ऊर्जा दिग्यावल्लोकान्तस्ततः सर्वस्तोकाः पुद्गलाः १ । तेभ्योऽधोदिशि विशेषाधिकाः, अधोदिगपि रुचकादेव प्रभवति चतुःप्रदेशा यावलोकान्तस्ततस्तस्या विशेषाधिकत्वात्तत्र पुद्गला विशेषाधिकाः २। तेभ्य ईशाननैऋतयोः प्रत्येकमसङ्खयेयगुणाः, परस्परं तुल्याः, यतस्ते द्वे अपि दिशौ रुचकान्निगते मुक्तावलिसंस्थिते तिर्यगूर्वाधोलोकान्तपर्यवसिते, तेन क्षेत्रस्यासङ्ख्येयगुणत्वात्तत्रासङ्ख्ययगुणाः पुद्गलाः ३ । तेभ्यो वायव्याग्नेय्योर्विशेषाधिकाः, परस्परं तुल्याः। कथं विशेषा Page #58 -------------------------------------------------------------------------- ________________ धिकाः १ इति चेदुच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतोर्नव नव, तेषु च कूटेषु धृमिकाऽवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः सन्तीति विशेषाधिकाः। स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात्तुल्याः ४ । तेभ्यः पूर्वस्यामसङ्खयेयगुणाः, क्षेत्रस्यासङ्ख्येयगुणत्वात् ५ । तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलानामवस्थानभावात् ६। दक्षिणेन विशेषाधिकाः, बहुभवनशुषिरभावात् ७। तेभ्य उत्तरस्यां विशेषाधिकाः, यत उत्तरस्यामायांमविष्कम्भाभ्यां सङ्खयेययोजनकोटीकोटीप्रमाणं मानससरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्तेऽतिबहव इति तेषां ये तैजसकामणपुद्गलास्तेऽधिकाः प्राप्यन्ते ८॥१०७॥ १०८॥ . णताणु १ पएस २ अण ३, . ___ संखाणु ४ पएसया ६ असंखाण ६ । अंसा र ७ थोव १ णंता दो ३, संखा दो ५ दुगमसंखं ७॥१०९॥ द्रव्यार्थतयानन्ताणवः स्तोकाः १, त एव प्रदेशार्थतयानन्तगुणाः २ । परमाणवो द्रव्यार्थतया प्रदेशार्थतया चानन्तगुणाः ३ । सङ्ख्यातप्रदेशिका द्रव्यार्थतया सङ्ख्यातगुणाः ४, त एव प्रदेशार्थतया सङ्खथातगुणाः ५। असङ्ख्यातप्रदेशिका . Page #59 -------------------------------------------------------------------------- ________________ द्रव्यार्थतयाऽसङ्ख्यातगुणाः ६, त एव प्रदेशार्थतयाऽसङ्ख्यातगुणाः ७॥१०॥ एगपएसट्ठिय १ संख? २, पएसा ३ असंखठिय ४ अंसा ५। थोवा १ दो संखा ३, दो ४ अस्संखा ५ कालओ चेव ॥११॥ इह क्षेत्राधिकारतः क्षेत्रप्राधान्यात्परमाणुकाद्यनन्ताणुकस्कन्धा अपि विवक्षितैकप्रदेशावगाढा आधाराधेययोरभेदोपचारादेकद्रव्यत्वेन व्यवाहियन्ते, ते इत्थंभूता एकप्रदेशावगाढाः पुद्गलाः सर्वस्तोकाः, लोकाकाशप्रदेशप्रमाणा इत्यर्थः । नहि स कश्चिदेवंभूतं आकाशप्रदेशोऽस्ति य एकप्रदेशावगाहनपरिणामपरिणतानां परमाण्वादीनामवकाशदानपरिणामेन परिणतो न वर्तते इति । तेभ्यः सङ्खयेयप्रदेशावगाढाः पुद्गला द्रव्याथेतया सङ्खयेयगुणाः, कथम् ? इहापि क्षेत्रप्राधान्याद् द्वयणुकाद्यनन्ताणुकस्कन्धा द्विप्रदेशावगाढा एकद्रव्यत्वेन विवक्ष्यन्ते । इह सर्वलोकप्रदेशास्तत्त्वतोऽसङ्खये या अपि कल्पनया दश कल्प्यन्ते । ते च प्रत्येकचिन्तायां दशैवेति दश एकप्रदेशावगाढानि द्रव्याणि । तेष्वेव दशसु प्रदेशेवन्यग्रहणान्यमोक्षणद्वारेण बहवो द्विकसंयोगा लभ्यन्त इत्येकप्रदेशावगाढेभ्यो द्विप्रदेशावगाढानि द्रव्याणि सङ्खयेयगुणानि । तेभ्यस्त्रिप्रदेशावगाढानि । एवमुत्तरोत्तरं यावदुत्कृ Page #60 -------------------------------------------------------------------------- ________________ ५७ ष्टसङ्घयेयप्रदेशावगाढानि । असङ्ख्थेयप्रदेशावगाढा: पुद्गला द्रव्यार्थ तयाऽसङ्घयेयगुणाः, असङ्ख्यातस्यासङ्ख्यात भेदभिन्नत्वात्, तएव प्रदेशार्थतयाऽसङ्ख्येयगुणाः । कालतश्चैकसमयस्थितिकादीनि क्षेत्रावगाढवद्वाच्यानि ॥ ११० ॥ कालाई जह पुग्गल कक्कडम गुरु लहु फासाओ । ओगाढा जह नेया इत्थ पएसापएसडो ॥ १११ ॥ भावत .एकगुणकालकादयः पुद्गलद्रव्यवद्वाच्याः । तथाहि - अनन्तासुका एकगुणकालका द्रव्याथतया स्तोकाः १। त एवैकगुणकालकाः प्रदेशार्थतयाऽनन्तगुणाः २ । अणव tra एकगुणकालका द्रव्यप्रदेशार्थाभ्यामनन्तगुणाः ३ । सङ्ख्याताणुका एकगुणकाला द्रव्यतः सङ्खयेयगुणाः ४ । त एवैकगुणकालाः प्रदेशतः सङ्ख्येयगुणाः ५ । असङ्ख्याताणुका एकगुणकाला द्रव्यतोऽसङ्घयेयगुणाः ६ । त एवैकगुणकालाः प्रदेशतोऽसङ्घयेयगुणाः ७ । एवमनन्ताणुकाः सङ्ख्थेयग णकाला द्रव्यतः स्तोका १ । त एवं सङ्ख्थेयग ुणकालाः प्रदेशतोऽनन्तगुणाः २ । अणवः सङ्ख्थेयग ुणकालाः द्रव्यप्रदेशार्थाभ्यामनन्तगुणाः ३ । सङ्घयाताकाः सङ्ख्येयगुणकाला द्रव्यतः सङ्ख्येयगुणाः ४ । त एव सङ्ख्यगुणकालाः प्रदेशतः सङ्ख्येयगुणाः ५ । असङ्ख्याताणुकाः सङ्ख्येयगु णकाला द्रव्यार्थतयाऽसङ्ख्येयग ुणाः Page #61 -------------------------------------------------------------------------- ________________ ५८ ६ । त एव सङ्खथेयगुणकालाः प्रदेशतोऽसङ्खथेयगुणाः ७। एवमनन्ताणुकादयोऽसङ्ख्यातगुणकाला अनन्तगुणकालका वाच्याः ७। ___ एवं शेषवर्णगन्धरसस्पर्शा अपि । परं कर्कशादय एकप्रदेशाधवगाढवद्वाच्याः। यथा एकप्रदेशावगाढा एकगुणकर्कशाः स्तोकाः १ । सङ्खयेयप्रदेशावगाढा एकगुणकर्कशा द्रव्यतः सङ्खयेयगुणाः २। त एव प्रदेशतः सङ्ख्थेयगुणाः ३ । असङ्ख्येयप्रदेशावगाढा एकगु णकर्कशा द्रष्यतोऽसङ्खयेयगुणाः ४ । त एव प्रदेशार्थतयाऽसङ्खयेयगुणाः । एवं सङ्खये यासङ्खथे यानन्तगु णकर्कशादयोऽपि वाच्याः । एवं मृदुग रुलघवः । एतद्गाथाभावना वृत्तावतिदेशेनोक्ता प्रज्ञापनासूत्रात्संभाव्य लिखितास्तीति ज्ञेयम् ॥ १११ ॥ जह दुपएसोगाढा, दव्वहाए उ कप्पिय सहस्सं । ते उ पएसहाए, दु चिय इय कालभावावि॥११२॥ खंधा अणवो वा जे - एगपएसावगाहिणो ते 'उ । लोगपएसपमाणा, इफिक्के जमवगाढत्ति ॥११३॥ Page #62 -------------------------------------------------------------------------- ________________ ५६ ते चेव दुगाइसु जे ओगाढा ते भवंति बहुयतरा। संजोगबहुत्तेणं (दारं२६) इओमहादंडयं भणिमो॥११४॥ 'जह' द्वावेव सहस्रौ क्षेत्रप्रदेशार्थाधिकारात् ॥ ११२॥ 'खंधा ॥११३ ॥'ते चेवा द्वारम् २६ । इतो महादण्डकं भणामः। थोदा गम्भयमणुया १ संखिजगुणा हवंति इत्थीओ२ । पज्जत्तबायरानल ___ काया ३, अस्संखया हुंति ॥११५॥ तत्तोऽणुत्तरवासी, असंखगुणिया हवंति ४ तत्तो उ । संखिजा गेविजा, उवरिम ५ मझिल्ल ६ हिडिल्ला ७॥११६॥ अचुय ८ आरण ९ पाणय १०, आणय ११ देवा वि हुँति एमेव । तत्तो असंखगुणिया, सत्तमपुढवीह नेरइया ॥१२॥ Page #63 -------------------------------------------------------------------------- ________________ ६० 'थोवा' इति गाथाष्टादशकम् । स्तोका मनुष्याः, सङ्खचयकोटीकोटीप्रमाणत्वात् १ । मनुष्यस्त्रियः सङ्ख्य यगुणाः, सप्तविंशतिगु णत्वात्सप्तविंशत्यधिकत्वाच्च २ । ताभ्यो बाद राग्नयः पर्याप्ता असङ्ख्यगुणाः, कतिपयवगैन्यूनावलिकाधनसमयप्रमाणत्वात ३ ॥ ११५ ॥ ___ अनुत्तरोपपातिनोऽसङ्ख्य यगुणाः, क्षेत्रपल्योपमासङ्ख्ययभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४। उपरितनौवेयकत्रिकदेवाः सङ्ख्य यगु णाः, बृहत्तरक्षेत्रपल्योपमासङ्खथे यभागवर्तिनभ प्रदेशराशिप्रमाणत्वात् । यतोऽनुत्तरसुराणां पश्च विमानानि, उपरितनग्रैवेयकत्रिके तु विमानशतम् , प्रतिविमानं चासङ्ख्य या देवाः, यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति । एवमुत्तरत्रापि भावना कार्या यावदानतः ५ । मध्यमग्रेवेयकत्रिकदेवाः सङ्घये यगुणाः ६ । अधस्तन वेयकत्रिकदेवाः सङ्खये यगुणाः ७ ॥ ११६ ॥ अच्युतकल्पदेवाः सङ्ख्य यगुणाः ८ । आरणदेवाः सङ्खये यगुणाः। यद्यप्यारणाच्युतकल्पौ समश्रेणीको समविमानसङ्ख्याको तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् । बहवश्व कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिका इति: । प्राणतदेवाः सङ्ख्य यगुणाः १० । Page #64 -------------------------------------------------------------------------- ________________ आनतदेवाः सङ्ख्य यगुणाः ११ । सप्तमपृथिवीनरयिका असवय यगुणाः, श्रेण्यसङ्खथे यभागगतनभप्रदेशराशिप्रमाणत्वात् १२॥११७॥ छट्ठाइ १३ सहस्सारे १४ महसुक्के १५ पंचमाइ १६ लंतम्मि १७ । पंकाइ १८ बंभलोए :१९, तथा पुढवोह २० माहिंदे २१ ॥११८॥ कमसो असंखगुणिया, . सणंकुमारे य २२ हुतसंखिज्जा । दुच्चाए २३ असंखिजा मुच्छिममणुयावि २४ एमेव ॥१९॥ तेसिं तु असंखगुणा ईसाणसुरा उ २५ संखदेवी उ २६ । सोहम्मकप्पदेवा २७ __ देवी संखिन्न २८ कमसो य ॥ २० ॥ षष्ठपृथिवीनारका असङ्ख्य यगुणाः १३ । सहस्रारदेवा असङ्ख्य यगणाः १४ । महाशुक्रऽसङ्खये यगुणाः, यतः सहसारे षट् महाशुक्रे चत्वारिंशत् सहस्राणि विमानानाम् , अधोऽधोविमानेषु देवानां बहुबहुतरत्वाच १५। पञ्चमपृथिव्यां १६ लान्तके १७ चतु• पङ्कप्रभायां १८ ब्रह्मलोके १६ Page #65 -------------------------------------------------------------------------- ________________ तृतीयस्यां वालुकायां २० माहेन्द्रे २१ सनत्कुमारे २२ द्वितीयस्यां शर्करायां २३ यथोत्तरमसङ्खये यासङ्खये यगुणाः। एते च सप्तमपृथिवीनारकादयो द्वितीयपृथिवीनारकान्ताः प्रत्येक स्वस्थाने सर्वेऽपि घनीकृतलोकश्रेण्यसङ्खये यभागवत्तिनभःप्रदेशराशिप्रमाणा द्रष्टव्याः । परं श्रेण्यसङ्खये यभागोऽसङ्खये यभेदभिन्नस्तत इत्थमसङ्खये यग णा वाच्याः। संमूछिममनुष्या असङ्खये यगुणाः, ते ह्यङ्गुलमात्रक्षेत्रप्रदेशराशेः संबन्धिनि तृतीयवर्गमूलेन गुणिते प्रथमवर्गमूले यावान् प्रदेशराशिस्तावत्प्रमाणानि खण्डानि यावन्त्येकस्यामेकप्रादेशिक्या श्रेणौ भवन्ति तावत्प्रमाणाः २४ ॥११८-११६ ॥ ईशाने देवा असङ्खये यगुणाः, यतोऽङ्गु लमात्रक्षेत्रप्रदेशराशेः संबन्धिनि द्वितीयवगमूले तृतीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाण ईशाने देवदेवीसमुदायः, तद्गतकिञ्चिदूनद्वात्रिंशत्तमभागकल्पा ईशानदेवाः २५ । ईशानदेव्यः सङ्खये यगुणाः, द्वात्रिंशद्गु णत्वात् २६ । सौधर्मदेवाः सङ्ख्य यगुणाः, यथा माहेन्द्रापेक्षया सनत्कुमारे देवा असङ्खये यगुणा उक्ताः । इहापि दक्षिणस्यां कृष्णपाक्षिकोत्पत्त्यादिपूर्वोक्तयुक्तेर्विमानबाहुल्याच समानत्वेऽप्यत्र सङ्थे यगु णत्वं ज्ञेयं वचनप्रामा Page #66 -------------------------------------------------------------------------- ________________ ६३ ण्यात् २७। सौधर्मदेव्यः सङ्खये यगुणाः, द्वात्रिंशद्गुण स्वात् २८ ॥ १२० ॥ भवणसुर असंखिज्जा २९, देवी संखिज्ज ३० रयण अस्संखा ३१ | स्वयहरपुरिसा ३२ इत्थी ३३ थलयरपुरिसा य ३४ इत्थीओ ३५ ॥१२१॥ भवनवासिनोऽसङ्खये यगुणाः, यतोऽङ्गु लमात्र क्षेत्रप्रदेशराशेः संबन्धिनि प्रथमे वर्गमूले द्वितीयेन वर्गमूलेन गुणिते यावान् प्रदेशराशिर्भवति तावत्प्रमाणासु घनीकृतस्य लोकस्यैकप्रादेशिकीषु श्रेणिषु यावन्तो नभःप्रदेशास्तावत्प्रमाणो भवनपतिदेवदेवीसमुदायः, तद्गत किञ्चिदूनद्वात्रिंशत्तमभागकल्पाश्च तद्देवाः २६ । भवनपतिदेव्यः सङ्खये यग ुणाः, द्वात्रिंशद्गुणत्वात् ३० । रत्नप्रभानारका असङ्खये यग णाः, अड्गु लमात्रक्षेत्र प्रदेशराशेः संबन्धिनि प्रथमे वर्गमूले द्वितीये वर्गमूलेन गुणिते यावान् प्रदेशराशिस्तावत्प्रमाणासु श्रेणिषु यावन्तो नभः प्रदेशास्तावत्प्रमाणत्वात् ३१ । खचरपञ्चेन्द्रियतिर्यग्योनिकाः पुरुषा असङ्खये यगुणाः, प्रतरासङ्खये यभागवर्त्त्यसङ्ख्यं यश्रेणिनभः - प्रदेशराशिप्रमाणत्वात् ३२। खचरपञ्चेन्द्रियतिर्यग्योनिकाः स्त्रियः सङ्खये यगुणाः, त्रिगुणत्वात् ३३ । स्थलचरपञ्चेन्द्रियतिर्यक्पुरुषाः सङ्ख Page #67 -------------------------------------------------------------------------- ________________ ६४ ये यगुणाः, वृहत्तरप्रतरासङ्खये यभागवय॑सङ्खये यश्रेणिगतप्रदेशराशिप्रमाणत्वात् ३४ । तेषां स्त्रियः सङ्घय यगुणाः, त्रिगुणत्वात् ३५ ॥ १२१॥ जलयरपुरिसा ३६ इत्थी ३७ वणपुरिसा, ३८ इत्थि ३९ जोइसुर ४० इत्थी ४१ । कमसो संखिजगुणा विहगनपंसा य संखिजा ४२ ॥ १२२॥ थल ४३ जलयरा ४४ नपंसा चरिंदिसमत्त हुंति संखगुणा ४५ । पंचिंदिय ४६ बेइंदिय ४७ तेइंदिय ४८ समत्त सविसेसा ॥ १२३ ॥ जलचरपञ्चेन्द्रियतिर्यकपुरुषाः सङ्ख्यं यगुणाः, वृहत्तरप्रतरालय यभागवय॑सङ्खये यश्रेणिगतनभःप्रदेशराशिप्रमाणत्वात् ३६ । तेषां स्त्रियः सङ्घय यगुणाः, त्रिगुणत्वात् ३७ । व्यन्तरदेवाः सञ्जय यगुणाः, यतः सङ्खये ययोजनकोटीकोटीप्रमागानि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावान् व्यन्तरदेवदेवीसमुदायः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पा व्यन्तरपुरुषाः३८ । व्यन्तयः सङ्खये यगुणाः द्वात्रिंशद्गुणत्वात् ३६ । ज्योतिष्कदेवाः सङ्खये यगुणाः, ते हि सामान्यतः षट्पञ्चाशदधिकशतद्वयाङ्गुलः Page #68 -------------------------------------------------------------------------- ________________ प्रमाणानि सूचीरूपाणि खण्डानि यान्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणाः, तद्गतकिश्चिदूनद्वात्रिंशत्तमभागकल्पास्ते ४०। ज्योतिष्कदेव्यः सङ्खये यगुणाः द्वात्रिंद् गुणत्वात ४१ । खचरपञ्चेन्द्रियनपुंसकाः सङ्खये यगुणाः ४२॥१२२॥ स्थलचरपञ्चेन्द्रियनपुंसकाः सङ्खये यगुणाः ४३ । जलचरपञ्चेन्द्रियनपुंसकाः सङ्खये यगुणाः ४४। पर्याप्तचतुरिन्द्रियाः सङ्खये यगुणाः ४५। पर्याप्तपञ्चेन्द्रियाः संझ्यसंज्ञिभेदा विशेषाधिकाः ४६ । पर्याप्तद्वीन्द्रिया विशेषाधिकाः ४७ । पर्याप्तत्रीन्द्रिया विशेषाधिकाः, यद्यपि पर्याप्तचतुरिन्द्रियादीनां पर्याप्तत्रीन्द्रियपर्यन्तानां प्रत्येकमगुलासङ्खये यभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणत्वेऽप्यङ्गुलसङ्खये यभागस्य सङ्खये यभेदभिन्नत्वादित्थं विशेषाधिकत्वं न विरुद्धम् ४८॥ १२३ ॥ पंचिंदिय अपजत्ता, असंख ४९ चउ ५० तिदि ५१ विदि ५२ सविसेसा । वणपत्तेयसमत्ता असंखगुणिया, मुणेयव्वा ५३ ॥ १२४ ॥ अपर्याप्तपञ्चेन्द्रिया असङ्ख यातगुणाः ४६ । अपर्याप्तचतुरिन्द्रिया विशेषाधिकाः ५० । अपर्याप्तत्रीन्द्रिया विशेषाधिकाः ५१ । अपर्याप्तद्वीन्द्रिया विशेषाधिकाः, यद्यपि चाप Page #69 -------------------------------------------------------------------------- ________________ प्तिपञ्चेन्द्रियादयोऽपर्याप्तद्वीन्द्रियपर्यन्ताः प्रत्येकमगुलासखये यभागमात्रखण्डानि सूचीरूपाणि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा विशेषेणोक्तास्तथाप्यगुलासङ्खये यभागस्य विचित्रत्वादित्थं विशेषाधिकत्वं न विरुद्धम् ५२ । प्रत्येकचादरवनस्पतिकायिकाः पर्याप्ता असङ्ख्य यगुणाः, यद्यपि चापर्याप्तद्वीन्द्रियादिवत्पर्याप्तबादरवनस्पतिकायिका अप्यगुलासङ्खये यभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन् प्रतरे भवन्ति तावत्प्रमाणा अन्यत्रोक्तास्तथाप्यगुलासङ्खये यभागस्यासङ्खये यभेदभिन्नत्वाद्वादरपर्याप्त प्रत्येकवनस्पतिपरिमाण-चिन्तायामगुलासङ्खयेयभागोऽसङ्खयेयगुणहीनो गृह्यते ततो न कश्चिद्विरोधः ५३ ॥१२४॥ बायरनिगोअ समत्ता ५४, पुढवी ५५ आऊ ५६ वाऊ ५७ एमेव । कमसो असंखगुणिया ५८ पायरतेऊ असंपुन्ना ५८ ॥ १२५ ॥ पत्तेयवणं ५९ बायर निगोय ६० पुढवि ६१ जल ६२ वाउ ६३ तह चेव । सव्वे वि अपज्जत्ता असंखया मुहुमतेऊ अ ६४ ॥ १२६ ॥ Page #70 -------------------------------------------------------------------------- ________________ ... ६७ . बादरनिगोदा अनन्तकायिकशरीररूपाः पर्याप्ता असङ खये यगुणाः ५४ । बादरपृथिवीकायिकाः पर्याप्ता असङ खये यगुणाः ५५ । पर्याप्सबादराप्कायिका असङ खये यगुणाः, यद्यपि पर्याप्तबादरप्रत्येकवनस्पतिकायिकथिव्यप्कायिकाः प्रत्येकमङ गुलासङ्ख्थे यभागमात्राणि सूचीरूपाणि खण्डानि यावन्त्येकस्मिन प्रतरे भवन्ति तावत्प्रमाणा उक्तास्तथाप्यङ गुलासङ खय यभागस्यासङ खये यभेदभिन्नत्वादिस्थमसङ खय यगुणत्वं न विरुद्धम् ५६ । पर्याप्तवादखायुकायिका असङ खये यगुणाः, घनीकृतलोकासङ खये यभागवयंसङ खय यप्रतरगतनभ प्रदेशराशिप्रमाणत्वात् ५७ । अपर्याप्तबादराग्निकायिका असङ खय यगुणाः, असङ खय यलोकाकाशप्रदेशराशिप्रमाणत्वात् ५८ ॥ १२५ ॥ प्रत्येकवादरवनस्पतयोऽपर्याप्ता असङ खय गुणाः ५६ अपर्याप्तबादरनिगोदा असङ खयं यगुणाः ६० । अपर्याप्तबादरपृथिवीकायिका असङखये यगुणाः ६१ । अपर्याप्तबादराप्कायिका असङ्खयेयगुणाः ६२। अपर्याप्तवादरवायुकायिका असङ खथेयगुणाः ६३ । अपर्याप्तसूक्ष्मतेजस्कायिका असङ खय यगुणाः ६४ ॥१२६ ॥ पुढवि ६५ जला ६६ निल ६७ सुहमा असमत्त विसेस टुति कमसो उ । Page #71 -------------------------------------------------------------------------- ________________ .. सुहुमागणि पजत्ता ६८ . संखिजगुणा उ नायव्वा ॥१२७ ॥ सुहुमावणि ६९ जल ७० वाज, ...७१ . पज्जत्त विसेस इंतऽसंखिजा। सुहुमनिगोअ अपनत्तया उ . . ७२ पज्जत्त संखिज्जा ७३ ॥ १२८ ॥ अभव ७४ परिवडियदिट्ठी ७५ ' सिडा ७६ वायरवणा य पज्जत्ता ७७ । कमसो अणंतगणिया बायरपज्जत्त सविसेसा ७८ ॥ १२९ ॥ अपर्याप्तसूक्ष्मपृथिवीकायिका विशेषाधिकाः ६५ । अपप्तिसूक्ष्माप्कायिका विशेषाधिकाः ६६ । अपर्याप्तसूक्ष्मवायुकायिका विशेषाधिकाः ६७ । सूक्ष्माग्निकायिकाः पर्याप्ताः सङ्खयेयगुणाः, अपर्याप्तसूक्ष्मेभ्यः पर्याप्तसूक्ष्माणां स्वभावत एव प्राचुर्यात् ६८ ॥ १२७ ॥ पर्याप्तसूक्ष्मपृथिवीकायिका विशेषाधिकाः ६६ । पर्याप्तसूक्ष्माप्कायिका विशेषाधिकाः ७० । पर्याप्तसूक्ष्मवायुकायिक विशेषाधिकाः ७१ । अपर्याप्तसूक्ष्मनिगोदा असङ्ख्येयगुणाः ७२ । पर्याप्तसूक्ष्मनिगोदाः सङ्खथेयगुगुणाः, यद्यपि च पर्याप्ततेजस्कायिकादयः पर्याप्तसूक्ष्मनिगोदपर्यन्ता अविशेषेणान्यत्राप्यसङ्खयेयलोकाकाशप्रदे Page #72 -------------------------------------------------------------------------- ________________ शराशिप्रमाणा उक्तास्तथापि लोकासङ्खयेयत्वस्यासङ्खयेयमेदभिन्नत्वादित्थमल्पबहुवमभिधीयमानमुपपन्नं द्रष्टव्यम् ७३ ॥ १२८ ॥ अभवसिद्धिका अनन्तगुणाः, जघन्ययुक्तानन्तकप्रमाणत्वात् ७४ । प्रतिपतितसम्यग्दृष्टयोऽनन्तगुणाः ७५ । सिद्धा अनन्तगुणाः ७६ । पर्याप्सवादरवनस्पतिकायिका अनन्तगुणाः ७७ । सामान्यतो बादरपर्याप्सा विशेषाधिकाः, बादरपर्याप्तथिव्यादीनामपि तत्र प्रक्षेपात् ७८ ॥ १२६ ॥ बायरवण अपज्जत्ता असंख ७९ वायरसमत्त सविसेसा ८० । सविसेस पायरा ८१ मुहम वण अपज्जा ८२ असंखिज्जा ॥१३०॥ सुहुम असमत्त अहिया ८३ सुहुमवणस्सइ य संख पज्जत्ता ८४।। सुहुमसमत्ता ८५ सुहुमा ८६ भविया य ८७ निगोय ८८ वणजीवा ८९॥१३१।। बादरापर्याप्तवनस्पतयोऽसङ्खथेयगुणाः, एकैकवादरनिगोदपर्याप्तनिश्रयाऽसङ्खयेयगुणानां बादरापर्याप्तनिगोदानां संभवात् ७६ । सामान्यतो बादरापर्याप्ता विशेषाधिकाः, बादरापर्याप्तपृथिवीकायिकादीनामपि तत्र प्रक्षेपात् ८०। सामान्यतो बादरा विशेषाधिकाः, पर्याप्तापर्याप्तानामपि तत्र प्रक्षेपात् ८१ । Page #73 -------------------------------------------------------------------------- ________________ ७० सूक्ष्मवनस्पतयोऽपर्याप्ता असङ्ख्येयगुणाः ८२ ॥ १३०॥ सामान्यतः सूक्ष्मापर्याप्ता विशेषाधिकाः, सूक्ष्मापर्याप्तपृथि व्यादीनामपि तत्र प्रक्षेषात् ८३ | पर्याप्तसूक्ष्मवनस्पतयः सङ्घयेयगुणाः, पर्याप्तसूक्ष्माणामपर्याप्तसूक्ष्मेभ्यः स्वभावत एव सङ्घयेयगुणत्वात् ८४ | सामान्यतः सूक्ष्माः पर्याप्ता विशेषाधिकाः, पर्याप्तसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात ८५ । सामान्येन सूक्ष्मा विशेषाधिकाः, अपर्याप्तानामपि तत्र प्रक्षेपात ८६ | भवसिद्धिका भव्या विशेषाधिकाः, जघन्ययुक्तानन्तकमात्राभव्यपरिहारेण सर्वजीवानां भव्यत्वात् ८७ । सामान्यतो निगोदजीवा विशेषाधिकाः, इह भव्या अभव्याश्चातिप्राचुर्येण बादरसूक्ष्मनिगोदजीव राशावेव प्राप्यन्ते नान्यत्र । अन्येषां सर्वेषामपि मिलितानामसङ्ख्येयलो काकाशप्रदेशराशिप्रमाणत्वात् । अभव्याश्च युक्तानन्तकसङ्ख्यामात्रपरिमाणास्ततो भव्यापेक्षया ते किंचिन्मात्राः । भव्याश्च प्रागभव्यपरिहारेण चिन्तिताः । इदानीं तु बादरसूक्ष्मनिगोदचिन्तायां तेऽपि प्रक्षिप्यन्ते इति विशेषाधिकाः ८८ । सामान्यतो वनस्पतयो विशेषाधिकाः, प्रत्येकवनस्पतीनामपि तत्र प्रक्षेपात् ८६ ॥ १३१ ॥ एगिंदि ९० तिरिक्खा है? मिच्छ हिट्ठी ९२ अविरय ९३ तहेव सकसाया ९४ । छउमत्थ ९५ सजोगि ९६ भवत्थ ९७ सव्व ९८ सव्वे विसेसहिया ॥ १३२ ॥ Page #74 -------------------------------------------------------------------------- ________________ ७१ इय अहाणउइपयं सव्वजियप्पबहुमिइ पयं तइयं । पण्णवणाए सिरिअभयदेवसूरीहिं संगहियं ॥१३३॥ सामान्यत एकेन्द्रिया विशेषाधिकाः, बादरसूक्ष्मपृथिव्यादीनामपि तत्र प्रक्षेपात् १० । सामान्यततर्यञ्चो विशेषाधिकाः, पर्याप्तापर्याप्तद्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ६१ । चतुर्गतिभाविनो मिथ्यादृष्टयो विशेषाधिकाः, इह कतिपयाविरतसम्यग्दृष्ट्यादिसंज्ञिव्यतिरेकेण शेषाः सर्वेऽपि तिर्यञ्चो मिथ्यादृष्टिचिन्तायां चासङ्खयेयनारकादयस्तत्र प्रक्षिप्यन्ते ततस्तिर्यग्जीवापेक्षया चतुर्गतिका मिथ्यादृष्टयश्चिन्त्यमाना विशेषाधिकाः १२ । अविरता विशेषाधिकाः, अविरतसम्य-: ग्दृष्टीनामपि तत्र प्रक्षेपात ६३ । सकषायिणो विशेषाधिकाः, देशविरतादीनामपि तत्र प्रक्षेपात् ६४। छद्मस्था विशेषा- : धिकाः, उपशान्तमोहादीनामपि तत्र प्रक्षेपात् ६५ । सयोगिनो विशेषाधिकाः, सयोगिकेवलिनामपि तत्र प्रक्षेपात् ६६ । संसारस्था विशेषाधिकाः, अयोगिकेवलिनामपि तत्र प्रक्षेपात् ६७ । सर्वजीवा विशेषाधिकाः, सिद्धानामपि तत्र प्रक्षेपात् ६८ ॥ १३२ ॥ इत्युक्तप्रकारेण प्रकमादस्मिन्महादण्डके भावप्रधानत्वानिर्देशस्य सर्वजीवान्पंबहुस्वमुक्तम् । अष्टानवतिसङ्ख्यानि Page #75 -------------------------------------------------------------------------- ________________ गर्भजमनुष्यादीनि पदानि यस्मिस्तत्तथा । अथ समर्थयन्नाहइति पदं तृतीयं दिगादिसप्तविंशतिद्वारात्मकं बहुवक्तव्याभिधानं प्रज्ञापनायाः श्रोअभयदेवमूरिभिः संगृहीतं बहुभव्योपकारिसारार्थसंग्रहेणेति ॥ १३३ ॥ ******* ************kkkkkkkkk ॥ समाप्तेयं सावरिका प्रज्ञापनोपाङ्गतृतीयपदसङ्ग्रहणी ॥ Xxxxxxxxxxxxxxxxxxxxxx Page #76 -------------------------------------------------------------------------- ________________ हमारा अमूल्य प्रकाशनो नारको गुजराती 30-00 30-00 40-00 20-00 20-00 25-00 100-00 100-00 120-00 125-00 60-00 चित्रावली हिन्दी अंग्रेजी सत्कर्म चित्रावली गुजराती हिंदी अंग्रेजी कल्पसूत्र चित्रावली गुजराती हिंदी अंग्रेजी पंच प्रतिक्रमण विवरण ( 900 पेज ) उपमितिभवप्रपंचा विवरण भाग 1 " भाग 2 " भाग 3 सामायिक सूत्र ( अंग्रेजी) ( सचित्र ) , गुजराती सचित्र बेप्रतिकमरण सूत्रो अंग्रेजी (सचित्र ) Matsyolare the is rate बे प्रतिक्रमण विधि सहित श्री हर्षपुष्पामृत जैन ग्रंथमाला c/o श्रुत ज्ञान भवन 45 दिग्विजय प्लोट जामनगर ( सौराष्ट्र ) 80-00 80-00 4-00 प्र 2-50 8-00 6-00 10-00