________________
१४
त्वात् ३ । तेभ्योऽपि द्वीन्द्रिया विशेषाधिकाः, तद्विष्कम्भसूच्याः प्रभूततमसङ्ख्येययोजनकोटी कोटीमानत्वात् ४ । तेभ्योनिन्द्रिया अनन्तगुणाः, सिद्धानामनन्तत्वात् ५ । तेभ्योऽप्येकेन्द्रिया अनन्तगुणाः, वनस्पतिकायिकानां सिद्धेभ्योऽप्यनन्तगुणत्वात् ६ । तेभ्यः सेन्द्रिया विशेषाधिकाः, द्वीन्द्रियादीनामपि तत्र प्रक्षेपात् ७ ॥ ३८ ॥ ३६ ॥
पज्जत्ता चउकरणा थोवा पंचिंदिया विसेसहिया | बेइंदिया उ तत्तो तत्तो तेइंदिया अहिया ॥ ४० ॥
सर्वस्तोकाश्चतुरिन्द्रियाः पर्याप्ताः, यतस्तेऽल्पायुषोऽतः प्रभूतकालमवस्थानाभावात् पृच्छासमये स्तोका अवाप्यन्ते । ते च प्रतरे यावन्ङ्गुलसङ्ख्येयभागमात्राणि खण्डानि तावत्प्रमाणा ज्ञातव्याः । तेभ्यः पञ्चेन्द्रियाः पर्याप्ता विशेषाधिकाः, प्रभूतप्रतराङ्गुलसङ्ख्येयभागमात्रखण्डप्रमाणत्वात् ।
,
तेभ्योऽपि द्वीन्द्रियाः पर्याप्ता विशेषाधिकाः प्रभूततरप्रतरा'गुलसङ्खयेयभागखण्डमानत्वात् । तेभ्योऽपि त्रीन्द्रियाः पर्याप्ता विशेषाधिकाः, स्वभावत एव प्रभूततमप्रतराङ गुलसङ्ख्येयभाग
खण्डमानत्वात् ॥ ४० ॥
तेहिंतो पंचक्खा असंखगुणिया भवंत पज्जन्ता । चउकरण विसेसहिया तत्तो तिकरण दुकरणा य ॥ ४१