SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ६० 'थोवा' इति गाथाष्टादशकम् । स्तोका मनुष्याः, सङ्खचयकोटीकोटीप्रमाणत्वात् १ । मनुष्यस्त्रियः सङ्ख्य यगुणाः, सप्तविंशतिगु णत्वात्सप्तविंशत्यधिकत्वाच्च २ । ताभ्यो बाद राग्नयः पर्याप्ता असङ्ख्यगुणाः, कतिपयवगैन्यूनावलिकाधनसमयप्रमाणत्वात ३ ॥ ११५ ॥ ___ अनुत्तरोपपातिनोऽसङ्ख्य यगुणाः, क्षेत्रपल्योपमासङ्ख्ययभागवर्तिनभःप्रदेशराशिप्रमाणत्वात् ४। उपरितनौवेयकत्रिकदेवाः सङ्ख्य यगु णाः, बृहत्तरक्षेत्रपल्योपमासङ्खथे यभागवर्तिनभ प्रदेशराशिप्रमाणत्वात् । यतोऽनुत्तरसुराणां पश्च विमानानि, उपरितनग्रैवेयकत्रिके तु विमानशतम् , प्रतिविमानं चासङ्ख्य या देवाः, यथा यथा चाधोऽधोवर्तीनि विमानानि तथा तथा देवा अपि प्राचुर्येण लभ्यन्त इति । एवमुत्तरत्रापि भावना कार्या यावदानतः ५ । मध्यमग्रेवेयकत्रिकदेवाः सङ्घये यगुणाः ६ । अधस्तन वेयकत्रिकदेवाः सङ्खये यगुणाः ७ ॥ ११६ ॥ अच्युतकल्पदेवाः सङ्ख्य यगुणाः ८ । आरणदेवाः सङ्खये यगुणाः। यद्यप्यारणाच्युतकल्पौ समश्रेणीको समविमानसङ्ख्याको तथापि कृष्णपाक्षिकास्तथास्वाभाव्यात्प्राचुर्येण दक्षिणस्यामुत्पद्यन्ते नोत्तरस्याम् । बहवश्व कृष्णपाक्षिकाः स्तोकाः शुक्लपाक्षिका इति: । प्राणतदेवाः सङ्ख्य यगुणाः १० ।
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy