________________
२८
सर्वस्तोका अवधिदर्शिनः देवनैरयिकाणां कतिपयानां च संज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्याणामवधिदर्शनभावात् । तेभ्यचतुर्दर्शिनोऽसङ्कथेयगुणाः सर्वेषां देवनैरयिकगर्भज मनुष्याणां संज्ञितिय कृपञ्चेन्द्रियाणामसंज्ञितिर्यक्पञ्चैन्द्रियाणां चतुरिन्द्रियाणां च चतुर्दर्शनभावात् । तेभ्यः केवलदर्शिनोऽनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽचक्षुर्दशिनोऽनन्तगुणाः, वनस्पतिकायिकानां सिद्धभ्योऽप्यनन्तत्वात् ॥ ७४ ॥ द्वारम् ११ ॥ थोव त्ति संजया तह य संजयाऽसंजया असंखगुणा । पडिसेहत्तियख्वा सिडाऽणता अविरया य ॥ ७५ ॥ ।। दारं १२ ॥
सर्वस्तोकाः संयताः, उत्कृष्टपदेऽपि तेषां कोटिसहस्रपृथक्त्व प्रमाणतया लभ्यमानत्वात् । तेभ्यः संयतासंयता देशविरता असङ्खयेयगुणाः, तिर्यक्पञ्चेन्द्रियाणामसङ्ख्यातानां देशविरतिसद्भावात् । तेभ्यो नोसंयता नोअसंयता नोसंयतासंयता अनन्तगुणाः, प्रतिषेधत्रयवृत्ता हि सिद्धास्ते चानन्ता इति । तेभ्योऽसंयता अनन्तगुणाः, वनस्पतीनां सिद्धेभ्योऽप्यनन्तत्वात् ।। ७५ ।। द्वारम् १२ ॥
अणगारुवउत्ताणं सागारवओगिणो उ संखगुणा । दंसणवओगकालो थोवो जं इयर इयरु न्ति ॥ ७६ ॥ ॥ दारं १३ ॥