SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ४७ तेभ्यो द्वितीयेऽधोलोकतिर्यग्लोके प्रतरद्वयात्मनि सङ्खयेयगुणाः, यतोऽधोलौकिकग्रामेषु स्वभावत एव बहवो मनुष्याः, ततो ये तिर्यग्लोकान्मनुष्येभ्यः शेषकायेभ्यो वाऽधोलौकिक ग्रामेषु गर्भजमनुष्यत्वेन सम्मूर्छिममनुष्यत्वेन वोत्पित्सवो येऽधोलोकादधोलौकिकग्रामरूपात् शेषाद्वा मनुष्येभ्यः शेषकायेभ्यो वा तियग्लोके गर्भजमनुष्यत्वेन संमूर्छिममनुष्यत्वेन वोत्पित्सवस्ते यथोक्तं प्रतरद्वयं स्पृशन्ति बहुतराश्च ते। तथा स्वस्थानतोऽपि किश्चिदधोलौकिकग्रामेषु यथोक्तप्रतरद्वयस्पर्शिन इति ते प्रागुक्तेभ्यः सङ्खयेयगुणाः ३ । तेभ्यः पञ्चमे ऊवलोके सङ्खयेयगुणाः, यतः सौमनसादिषु क्रीडार्थं चैत्यवन्दननिमित्तं वा प्रभूततराणां विद्याधराणां चारणमुनीनां च भावात् , तेषां च रुधिरादिपुद्गलतः सम्मूछिममनुष्यसम्भवात् ४ । तेभ्यः षष्ठेऽधोलोके सङ्खयेयगुणाः स्वस्थानत्वेन बहुलभावात् ५ । तेभ्यस्तृतीये तिर्यग्लोके सहयेयगुणाः, क्षेत्रस्य सङ्ख्येयगुणत्वात् स्वस्थानत्वाच्च ६ ॥ १०॥ चउथे१पढमेरबीए३पंचम४छ ५तइज्जएदनारी। थोवारसंखिजगुणाईकमेण सेसेसु ठाणेसु ॥१०१॥ मानुष्यश्चतुर्थे त्रिलोके स्तोकाः, यतो मनुष्यवत्समुाद्घातत्रयगत्या त्रिलोकं स्पृशन्ति । आसां चाहारकसमुद्धातो न भवतीति १ । ताभ्यः प्रथमे ऊर्ध्वलोकतिर्यग्लोके सङ्खयेय
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy