SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ धिकाः १ इति चेदुच्यते, इह सौमनसगन्धमादनेषु सप्त सप्त कूटानि, विद्युत्प्रभमाल्यवतोर्नव नव, तेषु च कूटेषु धृमिकाऽवश्यायादिसूक्ष्मपुद्गलाः प्रभूताः सन्तीति विशेषाधिकाः। स्वस्थाने तु क्षेत्रस्य पर्वतादेश्च समानत्वात्तुल्याः ४ । तेभ्यः पूर्वस्यामसङ्खयेयगुणाः, क्षेत्रस्यासङ्ख्येयगुणत्वात् ५ । तेभ्यः पश्चिमायां विशेषाधिकाः, अधोलौकिकग्रामेषु शुषिरभावतो बहूनां पुद्गलानामवस्थानभावात् ६। दक्षिणेन विशेषाधिकाः, बहुभवनशुषिरभावात् ७। तेभ्य उत्तरस्यां विशेषाधिकाः, यत उत्तरस्यामायांमविष्कम्भाभ्यां सङ्खयेययोजनकोटीकोटीप्रमाणं मानससरस्तत्र ये जलचराः पनकसेवालादयश्च सत्त्वास्तेऽतिबहव इति तेषां ये तैजसकामणपुद्गलास्तेऽधिकाः प्राप्यन्ते ८॥१०७॥ १०८॥ . णताणु १ पएस २ अण ३, . ___ संखाणु ४ पएसया ६ असंखाण ६ । अंसा र ७ थोव १ णंता दो ३, संखा दो ५ दुगमसंखं ७॥१०९॥ द्रव्यार्थतयानन्ताणवः स्तोकाः १, त एव प्रदेशार्थतयानन्तगुणाः २ । परमाणवो द्रव्यार्थतया प्रदेशार्थतया चानन्तगुणाः ३ । सङ्ख्यातप्रदेशिका द्रव्यार्थतया सङ्ख्यातगुणाः ४, त एव प्रदेशार्थतया सङ्खथातगुणाः ५। असङ्ख्यातप्रदेशिका .
SR No.022608
Book TitlePragnapanopang Tritiya Pad Sangrahani
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year7989
Total Pages76
LanguageSanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy